________________
(१२६) स्थिरमाहारकद्वन्द्वं निर्माणादेयतीर्थकृत् । अर्जयत्यप्रमत्तोऽमूमपूर्वकरणोऽपि च ॥ १.९॥ तीर्थकर्तत्वपर्याप्तपंचाक्षाहारकद्वयैः । एकत्रिंशदियं युक्ता स्थान देवगतो मतम् ॥ १८ ॥ देवगत्या समं बंधः संहते त्र जायते । उदयाभावतस्तस्या यतो देवेषु सर्वदा ॥ १८१ ।। ततो भंगः १ । एकत्रिंशदियं त्रिंशत्यक्ता तीर्थकृता भवेत् ।। जायते संयतौ तस्या वंधको सप्तमाष्टमौ ॥ १८२ ॥ न बंधोऽत्रास्थिरादीनां यतः संक्लेशभाविनाम् ।। विशुद्धया सममेतेषां सदा बंधविरोधतः ॥ १८३ ॥ ततो भंगः २। एकत्रिंशद्भवत्यत्र निरस्ताहारकद्वया । एकोनत्रिंशदायैषा बध्यते सप्तमाष्टमैः ॥ १८४ ॥ भंगः १। एकोनत्रिंशदन्यैवं वध्यतेऽस्यां परं त्रिभिः ।। यशः शुभस्थिरद्वन्द्वेष्वकैकं नित्रेतादिभिः ॥ १८५ ॥ ___ अत्र देवगत्या सहोद्योतो न बध्यते तत्र तस्योदयाभावात् । तिर्यग्गतिमपाकृत्य तस्यान्यया गत्या सह बंधविरोधात् । देहदीप्तिर्देवानां तर्हि कुतः ? वर्णनामकर्मोदयात् । अत्र त्रीणि युगानि २।२।२ । अन्योन्याभ्यस्तानि, भंगाः ८ । १ अप्रमत्तधारी अपूर्वगुणधारी यामेकत्रिंशतं देवगतिकारणां बनाति तस्या भंग एक एव भवति यतो देवगतौ संहननस्थिरादीनां युग्मान्यपि न संति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org