________________
(१२५)
२।२।२।२।२।२।६।६।२। एषामन्योन्याभ्यासे भंगाः ४६०८। तृतीयापि द्वितीयेव बध्यते स्रस्तदृष्टिना । हुंडासंप्राप्तके त्यक्षा तच्छेङ्गकतरान्विता ॥ १७१ ॥ २।२।२।२।२।२।५।५।२। एषामन्योन्यबंधे भंगाः ३२०० । एते पुनरुक्तत्वान्न गृह्यन्ते । पंचविंशतिरेषात्र मनुष्यद्वयकार्मणे । हुंडासंप्राप्ततेजांसि पंचाक्षौदारिकद्वये ।। १७२ ।। प्रत्येकागुरुलबाह्वस्थूलापर्याप्तदुर्भगम् । उपधातमनादेयं त्रसं वर्णचतुष्टयम् ॥ १७३ ॥ अयशोऽस्थिरनिर्माणमशुभं स्वीकरोत्यमूम् । नृगत्यपर्याप्तपंचाक्षयुक्तां मिथ्यात्ववासितः ॥ १७४ ॥ २५ । संक्लेशाद्वध्यमानेन नापूर्णेन सह स्फुटम् । शुद्धानां कर्मणां बन्धः स्थिरादीनां प्रजायते ॥ १७५ ॥ यतस्ततो भंगाः २। एवं मनुष्यगतेः सर्वे भंगाः ४६१७ । एकद्वित्रिचतुयूंना द्वात्रिंशद्गदिता क्रमात् । चत्वारि देवगत्यामा निर्गत्येकं तु पंचमाम् ॥ १७६ ॥ ३१ । ३० । २९ । २८ ॥१॥ तत्रैकत्रिंशदाद्येयं कार्मणं त्रिदशद्वयम् । पंचेन्द्रियाद्यसंस्थाने तेजोवैक्रियिकद्वयम् ॥ १७७ ॥ वर्णायगुरुलध्वादित्रसादीनां चतुष्टयम् । सुभगं सुस्वरं शस्तव्योमरीतियशःशुभम् ॥ १७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org