SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (१२४) अत्र संहननबंधो नास्ति, एकाक्षेषु संहननोदयाभावात् । ततः सूक्ष्मवादरयोः प्रत्येकसाधारणाभ्यामभ्यासे चत्वारो भंगाः। इत्थं तिर्यग्गतियुताः सर्वे भंगाः, ९३०८ । विशतिर्दशभिर्युक्ता नवभिः पंचभिः क्रमात् । नृगत्यां त्रीणि जायंते बंधस्थानानि नामनि ॥ १६३ ॥ ३० । २९ । २५ । त्रिंशदेषात्र पंचाक्षं नृद्वयौदारिकद्वये । सुस्वरं सुभगादेयमाये संस्थानसंहती ॥ १६४ ॥ शुभस्थिरयशोयुग्मैकैकं शस्तनभोगतिः। वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ १६५ ॥ तीर्थकृत कार्मणं तेजोनिर्मिद्वध्नात्यसंयतः । इमांनृगतिपंचाक्षपूर्णतीर्थकरैर्युतां ॥ १६६ ॥ न दुर्भगमनादेयं दुस्वरं याति बंधतां । सम्यक्त्वतीर्थकृत्त्वाभ्यां सह बंधविरोधतः ॥ १६७ ॥ सुभगसुस्वरादेयानामेव यतोऽत्र बंधस्ततस्त्रीणि युगानि, २।२।२। अन्योन्याभ्यस्तानि, भंगाः ८। विना तीर्थकृता त्रिंशदेकोनत्रिंशदस्त्यमूम् । युक्तां मनुष्यगत्याद्यैर्वनीतो मिश्रनिव्रतौ ॥ १६८ ॥ २९ । अत्राष्टौ भंगाः पुनरुक्ताः ८ । एकोनत्रिंशदन्यैवं द्वितीयैकतरैर्युता। युग्मानां सुस्वरादेयसुभगानां त्रिभिः स्फुटम् ।। १६९ ॥ एतां संहतिसंस्थानषद्वैकतरसंयुताम् । सनभोगतियुग्मैकतरां बध्नाति वामदृक् ॥ १७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy