________________
(१२३)
कं हुंडमेव, यस्मात्तस्मादातपोद्योतास्थिरस्थिरशुभाशुभयशोऽयशोयुगानि । २।२।२।२। अन्योन्याभ्यस्तानि भंगाः १६ । पदिशतिरियं तस्य जायते पंचविंशतिः।। निरुद्योतातपा सूक्ष्मप्रत्येकद्वितयैकयुक् ॥ १५६ ॥ __ अत्र प्रथमायां पंचविंशतो सूक्ष्मसाधारणे भवनादीशानान्ताः देवाः न बन्नन्ति । ततोऽत्र यश-कीर्ति निरुध्य स्थिरास्थिरभंगौ शुभाशुभभंगाभ्यस्तौ ४ । अयश कीर्ति निरुध्य वादरप्रत्यकस्थिरशुभयुगानि । २।२।२।२। अन्योन्याभ्यस्तान्ययशःकार्तिभंगाः १६ । द्वयेऽपि । २० । पंचविंशतिरत्रान्या तिर्यद्वितयकामणे । पंचाक्षविकलाक्षकतरमौदारिकद्वयम् ॥ १५७ ॥ प्रत्येकागुरुलध्वाह्वे तेजोऽपर्याप्तनिर्मिती । उपघातायशोहूंडास्थिरासंप्राप्तदुर्भगम् ॥ १५८ ॥ वादरत्रसवर्णाद्यनादेयमशुभं त्विमाम् । सतिर्यग्गत्यपर्याप्तत्रसां बध्नाति वामदृक् ॥ १५९ ।। __ अत्र द्वितीयायां पंचविंशतौ परघातोच्छासनभोगतिदुःस्वराणामपर्याप्तेन सह बंधो नास्ति विरोधात् । अपर्याप्तकाले चेषामुदयाभावादत्र चत्वारो जातिभंगाः। ४ । त्रयोविंशतिरेषात्र तेजस्तिर्यग्द्वयाशुभे । कार्मणौदारिके हुंडमयशोवर्णचतुष्टयम् ॥ १६० ॥ एकाक्षागुरुलघ्वाहे दुर्भगं स्थावरास्थिरे । उपघातमनादेमपर्याप्तकनिर्मिती ॥ १६ ॥ सूक्ष्मप्रत्येकयुग्मैकतरे मिथ्यात्वदूषितः। वनात्यपूर्णकैकाक्षतिर्यग्गतियुतामिमाम् ॥ १६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org