________________
( १२२ )
परा त्रिंशतृतीयेयं तिर्यद्वितयकार्मणे । तैजसौदारिकद्वन्द्व हुंडा संप्राप्तदुर्भगम् ॥ १४७ ॥ साद्यगुरुलघ्वादिवर्णादीनां चतुष्टयम् । विकलेन्द्रियजात्येकतरं दुःस्वरनिर्मिती ।। १४८ ॥
यशःस्थिरशुभद्वन्द्वत्रितयैकतरत्रयम् ।
उद्योतासन्नभोरीती अनादेयं तृतीयकम् ।। १४९॥ विकलोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् ।
मिथ्यात्वकलितस्वान्तो जीवो बध्नाति दुर्मनाः ॥ १५० ॥ अत्र विकलेन्द्रियाणां हुंडसंस्थानमेवैकं, तथैतेषां वंधोदययोर्दुः स्वरमेवेति । तिस्रो जातयस्त्रीणि युगलानि । ३ । २ । २ । २ अन्योन्याभ्यस्तानि, भंगाः २४ ।
यथैतास्त्रिंशतस्तिस्र एकोनत्रिंशतस्तथा ।
विशेषोऽयं परं तासु यदुद्योतो न बध्यते ॥ १५१ ॥ एतासु पूर्वोक्ता भंगा : ४६०८ | २४ | षट्विंशतिरियं तेजस्तिर्यद्वितयकार्मणे । वादरौदारिकै काक्ष हुंडपर्याप्त दुर्भगाः ॥ १५२ ॥ उद्योततपयोरेकं प्रत्येकं स्थावरं परम् । शुभद्वन्द्वयशोद्वन्द्वास्थिरद्वन्द्वत्रयैककम् ।। १५३ । निर्मित्वागुरुलध्वादिवर्णादीनां चतुष्टयम् i अनादेयमितीमां च स्वीकरोति कुदर्शनः ॥ १५४ ॥ वादरै काक्षपर्याप्ततिर्यग्गतिभिरन्विताम् । तथैकतरसंयुक्तामातपोद्योतयोरपि ।। १५५ ।। अत्राष्टांगाभावादे केन्द्रियस्यांगोपांगं नास्ति | संस्थानमध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org