________________
( १२१)
इत्यष्टाविंशतिस्थानमेकं मिथ्यात्ववाहिनः । युक्तं श्वभ्रर्तिपंचाक्षपूर्णैर्वनंति जन्तवः ॥ १४० ॥ भंगः १। एकाक्षविकलाक्षाणां बध्यन्ते नात्र जातयः । श्रभ्रगत्या समं तासां सर्वदा वृत्त्यभावतः ॥१४१ ॥ दशभिनवभिः षड्भिः पंचभिर्विंशतिस्त्रिभिः । युक्तस्थानानि पंचेति तिर्यग्गतियुतानि वै ॥ १४२ ॥ ३० । २९ । २६ । २५ । २३ । तत्र संहतिसंस्थानषटस्थैकतरद्वयम् । नभोगतियुगस्यैकतरमौदारिकद्वयम् ॥ १४३ ॥ वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् । स्थिरादिपंचयुग्मेष्वेकतरं पंचाक्षनिर्मिती ॥ १४४ ॥ तैजसं कार्मणं तिर्यग्द्वयमुद्योतमादिमम् । पंचाक्षोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् ॥ १४५ ॥ मिथ्यादृष्टिः प्रबध्नाति त्रिशतं सासनोऽपि च । एतां द्वितीयकां हुंडासंप्राप्तापाकृतां पराम् ॥ १४६॥ तत्र प्रथमत्रिंशति षट्संस्थान षट् संहनननभोगतियुगलस्थिरादिषट् युगलानि । ६।६।२।२ । २ । २।२।२।२। अन्योन्याभ्यस्तानि भंगा । ४६००। द्वितीयत्रिंशति सासनेतिमसंस्थानसंहनने बंधं न गच्छतस्तयोग्यतीत्रसंक्लेशाभावात् । अतः-५ । ५ । २ । २ । २ । २।२।२ । २ । अन्योन्याभ्यस्तानि भंगाः ३२०० । एते पूर्वप्रविष्टाः पुनरुक्ता इति न गृह्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org