________________
(१२०)
एकं बध्नन्नधो गत्वा बध्नाति प्रकृतिद्वयम् । तत्र मृत्वाऽमरो भूत्वा जीवः सप्तदशार्जति ॥ १३२ ॥ सर्वत्रेत्युच्चारणा कार्या। अव्यक्तः कथ्यते,सूक्ष्मोपशमकोऽधस्तादवतीर्यानिवृत्तिकः । भूत्वा स्वीकुरुते कश्चिदेकां प्रकृतिमंगवान् ॥ १३३ ॥ सूक्ष्मोपशमको मृत्वा देवभूयं गतोऽथवा । वनाति प्रकृतीर्जीवः कश्चित्सप्तदश स्फुटम् ।। १३४ ॥ अव्यक्तभुजाकारौ शून्यतः ०११-१७ इति द्वौ
आर्यावृत्तम् ।। क्रमतोऽत्र भुजाकाराऽल्पतराव्यक्ताख्यबंधसंक्षेपे । सद्भिरवस्थितसंज्ञा बंधविशेषा विबोद्धव्याः॥१३५ ॥ भुजाकाराः २०। अल्पतराः १२॥ अव्यक्तौ द्वौ २। संक्षेपः ३३। स्यातिभिर्विंशतिः पंच षडष्टनवभिः क्रमात् । दशैकादशभिर्युक्ता स्थानमेकं च नामनि ॥ १३६ ॥ २३ । २५।२६।२८।२९।३०।३१।१। क्रमेण गतियुक्तानि श्वभ्रतियङ्ननाकिनाम् । एकपंचत्रिपंचाहुबन्धस्थानानि नामनि ॥ १३७ ॥ १।५।३।५। तत्र श्वभ्रद्वयं हुडं निर्माणं दुर्भगास्थिरे । पंचेन्द्रियमनादेयमयशो दुःस्वराशुभे ॥ १३८ ॥ तेजोवैक्रियिकद्वन्द्वं कार्मणासन्नभोगती । वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ १३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org