________________
( ११६ )
मिथ्यात्वागुरुलध्वाह्वनिर्मिद्वर्णचतुष्टयम् ।
तैजसं कार्मणं सप्त चत्वारिंशत् ध्रुवा मताः ॥ १०८ ॥ आसां भवंति चत्वारः साद्यनादिधुवाधुवाः । साद्यध्रुवा मताः शेषास्तथा सपरिवृत्तयः ।। १०९ ॥ आहारकद्वयं तीर्थकृत्वमायुश्चतुष्टयम् ।
परघातातपोद्योतोच्छ्वासाः शेषा इमा मताः ।। ११० ।। इति निःप्रतिपक्षाः ११ ।
गोत्रे संस्थान संहत्योः षङ्कं हास्यचतुष्टयम् | वैक्रियिकद्वयं वेद्ये गतयो द्वे नभोगती ।। १११ ॥ चतुष्कमानपूर्वीणां दशयुग्मानि जातयः । औदारिकद्वयं वेदा ज्ञेयाः सपरिवृत्तयः ।। ११२ ।। सप्रतिपक्षा इत्यर्थः । ६२ ।
जिनैः स्थानानि चत्वारि भुजाकारास्त्रयस्त्रयः । बंधे चाल्पतराः प्रोक्ताश्चत्वारोऽष्टैस्ववस्थिताः ।। ११३ ।। बंधैस्थानानि ८|७|६| १ | भुजाकाराः १,६।६,७१७,८ अल्पतराः ६, ११७, ६।८, ७ अवस्थिताः ८,८।७,७६,६।१,११
,
१ ध्रुवप्रकृतीनां । २ मूल - प्रकृतीनां चत्वारिबन्धस्थानानि । ३ कर्मसु ४ मिश्र विनाऽप्रमत्तं यावत् अष्टैव कर्माणि बध्नाति मिश्रापूर्वानिवृत्तिकेषु सप्तकर्माणि नात्यायुर्विना, सूक्ष्मसांपराये षट्कर्माणि बध्नाति मोहँ बिना, उपरिस्थगुणस्थानेषु एकं वेद्यकं सातकं बध्नाति इति कर्मबंधे चत्वारि स्थानानि भवांत । ५ उपशांतादिषु त्रिषेककं कर्म बन्नाति, सूक्ष्मे षट्. अपूर्वा निवृत्तिकयोः सप्त पुनः सप्त, अप्रमत्तादधोऽष्टकर्माणि बन्नातीति भुजाकारबंध: । ६ सूक्ष्मसांपराये षट्, उपशांतादिष्वेकं, अपूर्वानिवृत्तिकयोः सप्त, सूक्ष्मे षट्, अप्रमत्तपर्यन्तमष्टकर्माणि, अपूर्वानिवृत्तिकयोः सप्त कर्माणि बनति । ७ अप्रमत्तं यावत् मिश्रं विना अष्ट अष्ट अपूर्वानिवृत्तिकयोः सप्त सप्त, सूक्ष्मे षट् षट्, उपशांनादिष्वेकैकं कर्म बनाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org