________________
( ११५)
. अनुष्टुप् छन्दः। बन्नात्यबंधके सादिरनादिः श्रेण्यसंक्रमे । ध्रुवोऽभव्येऽध्रुवो बंधे बंधविध्वंसनेऽथ वा ॥ १०१ ॥ कर्मबन्धविशेषो यः सः स्थानमिति कथ्यते । भुजाकारो मतः सद्भिर्बद्धाल्पं बहुबंधनम् ॥ १०२ ॥ उक्तोऽल्पतरो बंधो बहु बध्वाल्पबंधनम् । सर्वदा वनतस्तुल्यं कर्मावस्थितकः स्मृतः ॥ १०३ ।। कर्मबंधविशेषस्य कर्त्तता स्वामिता मता। ज्ञातव्यं नवभेदानां बंधानामिति लक्षणम् ॥ १०४ ॥ चत्वारः कर्मणां षण्णां साधनादिध्रुवाध्रुवाः । वेद्यस्येति विना सादिं त्रयोऽनादिध्रुवाध्रुवाः ॥ १०५ ।। साद्यध्रुवौ मतो बंधावायुषौ द्वाववन्धकैः । चत्वारोऽपीति ते ज्ञेया उत्तरप्रकृतिष्वपि ॥ १०६ ॥ कषायाः षोडश ज्ञानरोधान्तराययोर्दश । उपधातो जुगुप्सा भीर्दर्शनावरणे नव ॥ १०७ ॥
१ गुणस्थानान्तरसंक्रमे सति बंधव्युच्छित्तिं कृत्वा पुनः पूर्वगुणस्थान प्राप्तेसति बन्धप्रारम्भः सादिबन्धः । २ अनादिकालक्रमायातबन्धसन्तति रूपोऽनादिबन्धः । ३ यत्र गुणस्थाने कर्म बध्नाति तत्रैव चेन्मंचति स बंधविध्वंसनस्तस्मिन्नध्रुवबंधः । ४ यथाऽयुष्कर्म षट् गुणस्थानं यावन्नाति ईदृग्विधो यः कर्मबंधविशेषः सः स्थानमिति कथ्यते । ५ कश्चिज्जीव उपशांतकषाये चढितः पश्चान्मोहोदयात्पतितः सूक्ष्मसांपरायानिवृत्तिकरणयोः प्राप्तस्तत्रैका प्रकृति बन्नाति पश्चाद्यथा यथाऽधःपतति तथा तथा बहु बध्नाति, अल्पं बध्वा पश्चाद्बहुबंधनं स भुजाकारबंधः । ६ वदनीयायूरहितानां । ७ अनुपलम्भान्मयाप्रक्षिप्तोऽयम्पाठः “ त्रयोऽनादि " इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org