SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ( ११७ ) दर्शनावरणे त्रीणि स्नानानि दश मोहने | नानोऽषु भुजाकाराः शेषेषु स्थानमेककम् ॥ ११४ ॥ स्थानानि नवकं षङ्कं चतुष्कं त्रीणि दृग्रुधि । भुजाकारोsa वाच्योऽल्पतरोऽवस्थितको बुधैः ॥ ११५ ॥ बंधस्थानानि ९|६|४ | भुजाकाराल्पतरौ ४,६६, ९६, ४| ९,६ । अवस्थिताः ९, ९।६, ६।४, ४ । नवकं सकलाः षटुं स्त्यानगृद्धित्रयं विना । चतुष्कं पचलानिद्राहीनाः स्थानेष्विति त्रिषु ॥ ११६ ॥ ९ । ६ । ४ ॥ दावाद्यौ नव मिश्राद्याः षट् पट् बनंति हग्रुधि । अपूर्वान्ताश्चतस्त्रोत्रापूर्वाद्याः सूक्ष्मपश्चिमाः ॥ ११७ ॥ ९ । ९ । ६ । ६ । ६ । ६ । ६ । अपूर्वप्रथम सप्तमभागे ६ । अपूर्वद्वितीय सप्तम भागादारभ्य याव त्सूक्ष्मं ४ । द्वयेकाग्रे विंशती सप्तदश बंधे त्रयोदश । नव पंचचतुष्कत्रिद्वयेकस्थानानि मोहने ॥ ११८ ॥ २२ | २१ | १७ | १३ । ९ । ५ । ४ । ३ । २ । १ । द्वाविंशतिः समिथ्यात्वाः कषायाः षोडशैककः । वेदो हास्यादिकेष्वेकं युग्मं भयजुगुप्सते ॥ ११९ ॥ १ । १६ । १ । २ । १ । १ । मिलिताः २२ । ऐषादिमे द्वितीये सा निर्मिथ्यात्वनपुंसकः । न्यूनाऽनंतानुबंधिस्त्री वेदैर्मिश्रेऽवते तथा ।। १२० ॥ १ प्रथम गुणस्थाने २२, मिथ्यात्वं विनैकविंशतिः सासादने, अनंतानुबंधिभिर्विना सप्तदश मिश्राव्रतयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy