SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ (११२) उन्मार्गदेशको मायी सशल्यो मार्गदूषकः । आयुरर्जति तैरश्चं शठो मूढो दुराशयः ॥ ७७ ॥ निःशीलो निर्वतो भद्रः प्रकृत्याल्पकषायकः । आयुर्वनाति मानामल्पारंभपरिग्रहः ॥७८ ॥ अकामनिर्जरावालतपः शीलमहाव्रती । सम्यक्त्वभूषितो देवमायुरर्जति शांतधीः ॥ ७९ ॥ वक्रस्वान्तवचस्कायो गौरवी' वंचनापरः। अशस्तं नाम बध्नाति प्रशस्तमपरस्ततः ॥ ८० ॥ स्वप्रशंसी परद्वेषी जिनशासननिन्दकः । नीचैर्गोत्रं प्रबन्नाति विपरीतं ततः परः ॥ ८१ ॥ दानलाभोपभोगादिप्रत्यूहकरणं मतम् । निमित्तमन्तरायस्य पंचभेदस्य देहिनः ॥ ८२ ॥ बंधस्य हेतवो येऽमी आस्रवस्यापि ते मताः । बंधो हि कर्मणां जंतोरास्रवे सति जायते ॥ ८३ ॥ इति बंधास्रवविशेषप्रत्यया उक्ताः । अष्टकर्मबन्धः कथ्यते,अष्टायुषा विना सप्त षडाद्याः मिश्रकं विना । सप्त कर्माणि वनंति मिश्रापूर्वानिवृत्तयः ॥ ८४ ॥ मोहायुभ्यां विना षटुं सूक्ष्मो वनात्यतस्त्रयः । वनंति वेद्यमेवैकमयोगो बंधवर्जितः ॥ ८५ ॥ १ सवर्गः । २ मिश्रंबिनाऽद्यषड्गुणस्थानवर्तिनोजीवाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy