SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (१११) १।१।९। शांतक्षीणकषाययोः प्रत्ययानाहयोगेष्वस्ति नवस्वेकः शान्तक्षीणकाययोः । १।९। अन्तिमद्वय आह,सप्तस्वेकः सयोगेऽसौ, १७ नियोगः प्रत्ययातिगः ० ॥ ६९ ॥ प्रदोषविघ्नमात्सर्यनिहवासादनादयः । बंधस्य हेतवो ज्ञेयाः ज्ञानदर्शनरोधयोः ॥ ७० ॥ तितिक्षा वतिनां दानं भूतानामनुकम्पनम् । सरागसंयमः शौचसंयमासंयमः परः ॥ ७१ ॥ वात्सल्यं मृदुवादित्वं पापकर्मस्वनादरः । पुष्कलं कारणैरेतैः सद्वेद्यं कर्म बध्यते ।। ७२ ।। शोकस्तपो बधो दुःखमाक्रन्दः परिदेवनम् । स्वान्योभयस्थितैरेतैरसातं कर्म गृह्यते ॥७३॥ तपोधर्मागमस्वर्गिसंघकेवलचक्षुषाम् । वनात्यवर्णवादेन प्राणी दर्शनमोहनम् ॥ ७४ ॥ कषायोदयतस्तीत्रः परिणामो विनिन्दितः । द्वेधा चारित्रमोहस्य कर्मणो बंधकारणम् ।। ७५ ॥ मिथ्यादृष्टितापेतो बहारंभपरिग्रहः । आयुर्वनाति निःशीलो नारकं दुष्टमानसः ॥ ७६ ॥ १ नवयोगानां मध्य एको योगः, एकः संज्वलनलोभ एवं द्वौ प्रत्ययौ, गशौ नव प्रत्ययाः । २ निह्नवं ज्ञानलोपनम्, आसादनं पीड़ाकरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy