________________
(११३)
भुंजतेऽष्टापि कर्माणि गुणेषु दशसु स्थिताः । शान्तक्षीणौ विना मोहमपरौ घातिभिर्विना ।। ८६ ॥ ૮૮૮૮૮૮૮૮૮૮ાણકારો अष्टावुदीरयन्ते, षट् प्रमत्तांतगुणस्थिताः । उदीरयंति चत्वारः षटुं वेद्यायुषी विना ॥ ८७ ॥ शांतक्षीणाभिधौ, पंच वेद्यायुर्मोहनैर्विना । सयोगो नामगोत्रे द्वे अयोगो निरुदीरणः ॥ ८८ ॥ सप्तवावलिकाशेषे पंचाद्या मिश्रकं विना । वेद्यायुर्मोहहीनानि पंच सूक्ष्मकषायकः ॥ ८९ ॥ नामगोत्रद्वयं क्षीणस्तत्रोदीरयते यतिः। एकत्रेति त्रयं ज्ञेयं बंधादीनां मनीषिभिः ॥ ९० ॥
८८८८८८६६६६५५२०॥
७७०७७७ ।। ५२ । अत्रापकपाचनमुदीरणेतिवचनादुदयावलिकायां प्रविष्टाया: कर्मस्थितेोंदीरणेति । मरणावलिकायामायुषः, सूक्ष्मे मोहस्य, क्षीणे घातित्रयस्योदीरणा नास्ति, मरणावलिकाशेषे चायुषि मिश्रं न संभवति। बंधोदयोदीरणाः कथ्यन्ते,-- घातिकल्मषविध्वंसी भुंक्त कर्मचतुष्टयम् । कर्मबन्धव्यतिक्रान्तो निर्योगोष्टाउदीरकः ॥ ९१ ॥
१ अप्रमत्तादयः । • मिश्रं विनाऽऽद्य पंचगुणस्थानवर्तिनः आवलिकाशेषे सति पंच कर्माणि उदीरयान्त । ३ अंतभागे पंच कर्माण्युदीरयति शेष भागे षट् । ४ अष्टकर्मणामुदीरणारहितः ।
८पं० सं०
__
_
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org