________________
६४ ● श्री श्राद्ध-प्रतिमा-सूत्र प्रजोषटीडा-3
अनुजानीत संस्तारं, बाहूपधानेन धाम- पार्श्वेन । कुर्कुटी - पाद- प्रसारणे अशक्नुवन् प्रमार्जयेद् भूमिम् ॥२॥ संकुच्य संदंशौ उद्वर्तमानः च कायं प्रतिलेखा ( लिखेत्) । द्रव्यादि - उपयोगं, निःश्वास- निरुन्धनम् आलोके ॥३॥ यदि मे भवेत् प्रमादः, अस्य देहस्य अस्यां रजन्याम् । * आहारम् उपधि-देहं सर्वं त्रिविधेन व्युत्सृष्टम् ॥४॥ चत्वारि मङ्गलानि । अर्हन्तः मङ्गलम् । सिद्धाः मङ्गलम् । साधवः मङ्गलम् । केवलि - प्रज्ञप्तः धर्मः मङ्गलम् ॥५॥
चत्वारः लोकोत्तमाः । अर्हन्तः लोकोत्तमाः । सिद्धाः लोकोत्तमाः । साधवः लोकोत्तमाः । केवलि-प्रज्ञप्तः धर्मः लोकोत्तमः ॥६॥ चत्वारि शरणानि प्रपद्ये । अर्हन्तः शरणं प्रपद्ये । सिद्धान् शरणं प्रपद्ये । साधून् शरणं प्रपद्ये । केवलि - प्रज्ञप्तं धर्मं शरणं प्रपद्ये ॥७॥ प्राणातिपातम् अलीकं, चौर्यं मैथुनं द्रविण - मूर्छाम् । क्रोधं मानं मायां, लोभं प्रेम तथा द्वेषम् ॥८॥
कलहम् अभ्याख्यानं, पैशुन्यं रति- अरति - समायुक्तम् । पर- परिवादं माया - मृषा मिथ्यात्व - शल्यं च ॥९॥ व्युत्सृज इमानि मोक्षमार्ग-संसर्ग-विघ्नभूतानि । दुर्गति - निबन्धनानि, अष्टादश पापस्थानानि ॥१०॥
•
एकः अहम् न अस्ति मे कः अपि न अहम् अन्यस्य कस्यचित् । एवम् अदीनमनाः, आत्मानम् अनुशास्ति ॥ ११ ॥
एकः मे शाश्वतः आत्मा, ज्ञान-दर्शन- संयुतः । शेषाः मे बाह्याः भावाः, सर्वे संयोग- लक्षणाः ॥१२॥
* ઊંઘમાં જ પ્રમાદ એટલે મરણ થાય તો આત્માને પરિગ્રહનો ભાર ન રહે માટે સાકાર-આગાર સહિત અનશનનો વિધિ કહે છે કે :
જો આ નિદ્રામાં મારું મરણ થાય તો ચારેય પ્રકારનો આહાર, ઉપધિ, એટલે જીવનમાં ઉપયોગી સઘળો વસ્ત્ર-પાત્રાદિ પરિગ્રહ તથા આ શરીર એ સર્વને મન, વચન, અને કાયાથી વોસિરાવું છું-નમું છું-એ પ્રમાણે ‘સાગાર અનશન' કરવામાં આવે છે. -धर्मसंग्रह भाषांतर भाग १ पृ. २६४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org