________________
२३८. श्री श्राद्ध-प्रतिमा -सूत्रप्रपोपटी1-3 कुरु-जनपद-हस्तिनापुर-नरेश्वरः च प्रथमं ततो महाचक्रवर्तिभोगः महाप्रभावः,
यः द्विसप्तति-पुर-वर-सहस्र-वर-नगर-निगम-जनपद-पतिः द्वात्रिंशत् सहस्त्र-राजवर-सहस्त्रानुयात-मार्गः ।
चतुर्दश-वर-रत्न-नव-महानिधि-चतुःषष्टि-सहस्र-प्रवर-युवतीनां सुन्दरपतिः,
चतुरशीति-हय-गज-रथ-शतसहस्त्र-स्वामी षण्णवति-ग्राम, कोटीस्वामिक आसीत् यो भारते भगवान् ॥११॥
–वेष्टक ॥ तं शान्ति शान्तिकरं, संतीर्णं सर्वभयात् । शान्ति स्तौमि जिनं, शान्ति (च) विधातुं (विदधातु) मे ॥१२॥
-रासानन्दितकम् ॥ ऐक्ष्वाक ! विदेह ! नरेश्वर ! नर-वृषभ ! मुनि-वृषभ ! नव-शारद-शशि-सकलानन ! विगत-तमः ! विधूत-रजः ! अजित ! उत्तम-तेजः ! [ गुणे: ] महामुने ! अमित-बल ! विपुलकुल !, प्रणमामि त्वां भव-भय-भञ्जन ! जगत्-शरण ! मम शरणम् ॥१३॥
चित्रलेखा देव-दानवेन्द्र-चन्द्र-सूर्य-वन्द्य ! हृष्ट-तुष्ट ! ज्येष्ठ ! परम-लष्टरूप !, ध्मात-रूप्य-पट्ट-श्रेयः ( श्वेत) शुद्ध-स्निग्ध-धवल-दन्त-पङ्क्ते !
शान्ते ! शक्ति-कीर्ति-(दीप्ति )-मुक्ति-युक्ति-प्रवर ! दीप्ति-तेजो-वृन्दध्येम !, सर्व-लोक-भावित-प्रभाव ! ज्ञेय ! प्रदिश मे समाधिम् ॥१४॥
-नाराचकः (१) |॥ विमल-शशि-कलाऽतिरेक-सौम्यम्, वितिमिर-सूर-करातिरेक-तेजसम् । त्रिदशपति-गणातिरेक-रूपम्, धरणिधर-प्रवरातिरेक-सारम् ॥१४॥
-कुसुमलता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org