SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ અજિત-શાંતિ સ્તવ ૦૨૩૭ क्रिया-विधि-संचित-कर्म-क्लेश-विमोक्षकरम्, अजितं निचितं च गुणैः महामुनि-सिद्धिगतम् । अजितस्य च शान्ति-महामुनेः अपि च शान्तिकरम्, सततं मम निर्वृति-कारणकं च नमस्यनकम् ॥५॥ -आलिङ्गनकम् ॥ पुरुषाः ! यदि दुःख-वारणं, यदि च विमार्गयथ सौख्य-कारणम् । अजितं शान्ति च भावतः, अभयकरौ शरणं प्रपद्यध्वम् ॥६॥ -मागधिका ॥ अरति-रति-तिमिर-विरहितम् उपरत-जरा-मरणम्, सुर-असुर-गरुड-भुजगपति-प्रयत-प्रणिपतितम् । अजितम् अहम् अपि च सुनय-नय-निपुणम् अभयकरम्, शरणम् उपसृत्य भुवि-दिविज-महितं सततम् उपनमामि ॥७॥ -संगतकम् ॥ तं च जिनोत्तमम् उत्तम-निस्तमः-सत्त्वधरम्, आर्जव-मार्दव-क्षान्ति-विमुक्ति-समाधि-निधिम् । शान्तिकरं प्रणमामि दमोत्तम तीर्थकरम्, शान्तिमुने ! मम शान्ति-समाधि-वरं दिशतु ॥८॥ -सोपानकम् ॥ श्रावस्ती-पूर्व-पार्थिवं च वर-हस्ति-मस्तक-प्रशस्त-विस्तीर्ण-संस्थितं स्थिर-सदृक्ष-वक्षसम्, मदकल-लीलायमान-वर-गन्धहस्ति-प्रस्थान-प्रस्थितं संस्तवाहम् । हस्ति-हस्त-बाहुं ध्मात-कनक-रुचक-निस्महत-पिञ्जरं प्रवर-लक्षणोपचित सौम्य-चारु-रूपम्, श्रुति-सुख-मनोऽभिराम-परम रमणीय-वर-देवदुन्दुभि-निनाद-मधुरतर शुभगिरम् ॥९॥ –वेष्टकः ॥ अजितं जितारिंगणं, जित-सर्व-भयं भवौघ-रिपुम् । प्रणमामि अहं प्रयतः, पापं प्रशमयतु मे भगवन् ! ॥१०॥ -रासालुब्धकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy