SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ સકલાહ-સ્તોત્ર (ચૈત્યવંદન) ૧૭૫ देवोऽष्टादश-दोष-सिन्धुरघटा-निर्भेद-पञ्चाननो, ___ भव्यानां विदधातु वाञ्छितफलं, श्रीवीतरागो जिनः ॥३२॥ ख्यातोऽष्टापदपर्वतो गजपदः, सम्मेतशैलाभिघः, श्रीमान् रैवतकः प्रसिद्धमहिमा, शत्रुञ्जयो मण्डपः । वैभार: कनकाचलोऽर्बुदगिरिः, श्रीचित्रकूटादय स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥३३॥ (२) अन्वय सकलार्हत्प्रतिष्ठानं शिवश्रियः अधिष्ठानं भूर्भवः-स्वस्त्रयीशानम् आर्हन्त्यं प्रणिदध्महे ॥१॥ सर्वस्मिन् क्षेत्रे काले च नाम-आकृति-द्रव्य-भावैः त्रिजगत्-जनं पुनतः अर्हतः समुपास्महे ॥२॥ आदिमं पृथिवीनाथम्, आदिमं निष्परिग्रहम्, आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः ॥३॥ विश्व-कमलाकर-भास्करम्, अम्लानकेवलादर्श-संक्रान्तजगतम् अर्हन्तम् अजितं स्तुवे ॥४॥ देशना-समये-श्रीसम्भवजगत्पतेः ताः विश्व-भव्य-जनाराम-कुल्या-तुल्याः वाचः जयन्ति ||५|| अनेकान्तमताम्भोधि-समुल्लासन-चन्द्रमाः भगवान् अभिनन्दनः अमन्दम् आनन्दं-दद्यात् ॥६॥ घुसत्-किरीट-शाणान-उत्तेजित-अध्रि-नखावलिः भगवान् सुमतिस्वामी वः अभिमतानि तनोतु ॥७॥ ___ अन्तरङ्ग-अरि-मथने कोपाटोपात् इव अरुणाः पद्मप्रभप्रभोः देहभासः वः श्रियं पुष्णन्तु ॥८॥ चतुर्वर्णसङ्घ-गगनाभोग-भास्वते महेन्द्र महिता ये श्रीसुपार्श्वजिनेन्द्राय नमः ॥९॥ चन्द्र-मरीचि-निचयोज्ज्वला मूर्त-सितध्यान-निर्मिता इव चन्द्रप्रभप्रभोः Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy