________________
૧૭૨૦શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્ર પ્રબોધટીકા-૩ धुसत्-किरीट-शाणाग्रोत्तेजिताघ्रि-नखावलिः । भगवान् सुमतिस्वामी, तनोत्वभिमतानि वः ॥७॥ पद्मप्रभ-प्रभोर्देह-भासः पुष्णन्तु वः श्रियम् । अन्तरङ्गारि-मथने, कोपाटोपादिवारुणाः ॥८॥ श्रीसुपार्श्वजिनेन्द्राय, महेन्द्र-महिताज़ये । नमश्चतुर्वर्ण-सङ्घ-गगनाभोग-भास्वते ॥९॥ चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला । मूर्तिर्मूर्त-सितध्यान-निर्मितेव श्रियेऽस्तु वः ॥१०॥ करामलकवद् विश्व, कलयन् केवलश्रिया । अचिन्त्य-महात्म्य-निधिः सुविधिर्बोधयेऽस्तु वः ॥११॥ सत्त्वानां परमानन्द-कन्दोद्भेद-नवाम्बुदः । स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः ॥१२॥ भव रोगाऽऽर्त्त-जन्तूनामगदङ्कार-दर्शनः । निःश्रेयस-श्री-रमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥१३॥ विश्वोपकारकीभूत-तीर्थंकृत्कर्म निर्मितिः । सुरासुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः ॥१४॥ विमलस्वामिनो वाचः, कतक क्षोद-सोदराः । जयन्ति त्रिजगच्चेतो-जल-नैर्मल्य-हेतवः ॥१५॥ स्वयम्भूरमण-स्पर्धा, करुणारस-वारिणा । अनन्तजिदनन्तां वः, प्रयच्छतु सुख-श्रियम् ॥१६॥
★ शिवम्. पाठांतर. X આ બંને પદ્ય માણિજ્યદેવસૂરિકૃત અને હી. ૨. કાપડિયા તરફથી પ્રકાશિત યશોધર
ચરિત્રમાં મંગલાચરણ તરીકે જોવાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org