SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 3६४. श्री श्राद्ध-प्रतिमा -सूत्रप्रमोपटी-२ यश्चैनं पठति सदा, शृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ॥१७॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विजवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥१८॥ सर्वमङ्गल-माङ्गल्यं, सर्व-कल्याणकारणम् । प्रधानं सर्व-धर्माणां, जैनं जयति शासनम् ॥१९॥ (२) अन्वय (આ સ્તવ સંસ્કૃત ભાષામાં છે, તેથી તેની છાયા આપેલી નથી, પરંતુ અર્થ સમજવામાં સરળતા પડે તે માટે અહીં તેનો અન્વયે આપેલો છે.) १. शान्ति-निशान्तं शान्तं शान्ताशिवं शान्ति नमस्कृत्य स्तोतुः शान्तये मन्त्रपदैः शान्ति-निमित्तं स्तौमि ॥ २. ओम् इति निश्चितवचसे भगवते पूजाम् अर्हते जयवते यशस्विने दमिनां स्वामिने शान्तिजिनाय नमो नमः ॥ ३. सकलातिशेषक-महासम्पत्ति-समन्विताय शस्याय त्रैलोक्य-पूजिताय च शान्तिदेवाय नमो नमः ॥ ४-५. सर्वामर-सुसमूह-स्वामिक-संपूजिताय निजिताय भुवन-जनपालनोद्यततमाय सर्वदुरितौघनाशनकराय सर्वाशिव-प्रशमनाय दुष्टग्रह-भूत-पिशाचशाकिनीनां प्रमथनाय तस्मै (शान्तिदेवाय) सततं नमः ॥ ६. तं शान्ति नमत, यस्य इति नाममन्त्र-प्रधानवाक्योपयोगकृततोषा विजया जनहितं कुरुते इति च नुता ॥ ७. भगवति ! विजये ! सुजये ! अजिते ! अपराजिते ! जयावहे ! भवति (तव शक्तिः) जगत्यां परापरैः जयति इति ते नमः भवतु ॥ ८. अपि च सर्वस्य सङ्घस्य भद्र-कल्याण मङ्गल-प्रददे ! साधूनां च सदा शिव-सुतुष्टि-पुष्टि-प्रदे ! (त्वं) जीयाः ॥ ९. भव्यानां कृतसिद्ध ! निर्वृति-निर्वाण-जननि ! सत्त्वानाम् अभयप्रदान-निरते ! स्वस्ति-प्रदे ! तुभ्यं नमः अस्तु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy