SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ शiln-तब (मधु aila) • 363 भवतु नमस्ते भगवति !, विजये ! सुजये ! परापरैरजिते ! । अपराजिते ! जगत्यां, जयतीति जयावहे ! भवति ! ॥७॥ सर्वस्यापि च सङ्घस्य, भद्र-कल्याण-मङ्गल-प्रददे ! । साधूनां च सदा शिव-सुतुष्टि-पुष्टि-प्रदे ! जीयाः ॥८॥ भव्यानां कृतसिद्धे !, निर्वति-निर्वाण-जननि ! सत्त्वानाम् । अभय-प्रदान-निरते !, नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥९॥ भक्तानां जन्तूनां, शुभावहे ! नित्यमुद्यते ! देवि ! । सम्यग्दृष्टीनां, धृति-रति-मति-बुद्धि-प्रदानाय ॥१०॥ जिनशासन-निरतानां, शान्तिनतानां च जगति जनतानाम् । श्री-संपत्-कीर्ति-यशो-वर्धनि ! जय देवि ! विजयस्व ॥११॥ सलिलानल-विष-विषधर-दुष्टग्रह-राज-रोग-रण-भयतः । राक्षस-रिपुगण-मारी-चौरेति-श्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्ति च कुरु कुरु त्वम्॥१३॥ भगवति ! गुणवति ! शिव-शान्ति-तुष्टि पुष्टि-स्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो हाँ ही हूँ हूँ: यः क्षः ही फट् फट् स्वाहा ॥१४॥ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जयादेवी । कुरुते शान्ति नमतां, नमो नमः शान्तये तस्मै ॥१५॥ इति पूर्वसूरि-दर्शित-मन्त्रपद-विदर्भितः स्तवः शान्तेः । सलिलादि-भय-विनाशी, शान्त्यादिकरच भक्तिमताम् ॥१६॥ ★ 'फुट फुट्' पाठां. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy