________________
हत्तु' सूत्र. १२७ तदपि खलु सप्रतिक्रमणं, सपरितापं सोत्तरगुणं च । क्षिप्रम् उपशमयति, व्याधिम्, इव सुशिक्षितः वैद्यः ॥३७॥ यथा विषं कोष्ठगतं, मन्त्र-मूल-विशारदाः । वैद्याः जन्ति मन्त्रैः, ततः स भवति निर्विषः ॥३८॥ एवम् अष्टविधं कर्म, राग-द्वेष-समर्जितम् । आलोचयन् च निन्दन्, क्षिप्रं हन्ति सुश्रावकः ॥३९॥ कृतपापः अपि मनुष्यः, आलोच्य निन्दित्वा च गुरु-सकाशे । भवति अतिरेक-लघुकः, अपहृतभारः इव भारवहः ॥४०॥ आवश्यकेन एतेन, श्रावकः यद्यपि बहुरजा( तः) भवति । दुःखानाम् अन्तक्रियां, करिष्यति अचिरेण कालेन ॥४१॥ आलोचना बहुविधा, न संस्मृता प्रतिक्रमण-काले । मूलगुणे उत्तरगुणे, तां निन्दामि तां च गहें ॥४२॥ तस्य धर्मस्य केवलि-प्रज्ञप्तस्य अभ्युत्थितः अस्मि आराधनायै, विरतः अस्मि विराधनायाः । त्रिविधेन प्रतिक्रान्तः, वन्दे जिनान् चतुर्विंशतिम् ॥४३॥ यावन्ति चैत्यानि, ऊर्श्वे चाधश्च तिर्यग्लोके च । सर्वाणि तानि वंदे, इह सन् तत्र सन्ति ॥४४॥ यावन्तः के अति साधवः, भरत-ऐवत-महाविदेहे च । सर्वेभ्यः तेभ्यः प्रणतः, त्रिविधेन त्रिदण्ड-विरतेभ्यः ॥४५॥ चिर-सञ्चित-पाप-प्रणाशन्या, भव-शत-सहस्त्रमथन्या । चतुर्विशति-जिन-विनिर्गत-कथया गच्छन्तु मम दिवसाः ॥४६॥ मम मङ्गलम् अर्हन्तः, सिद्धाः साधवः श्रुतं च धर्मः च । । सम्यग्दृष्टयः देवाः, ददतु समाधि च बोधि च ॥४७॥ प्रतिषिद्धानां करणे, कृत्यानाम् अकरणे प्रतिक्रमणम् । अश्रद्धाने च तथा, विपरीत-प्रख्यणायां च ॥४८॥ क्षमयामि सर्वजीवान्, सर्वे जीवाः क्षाम्यन्तु मे । मैत्री मे सर्वभूतेषु, वैरं मम न केनचित् ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org