________________
૧૨૬ ૭ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૨
एवं खलु यन्त्र - पीलनकर्म, निर्लाञ्छनं च दवदानम् । सर-हूद- तडाग - शोषम्, असतीपोषं च वर्जयेत्त् ॥२३॥ शस्त्र - अग्नि- मुशल- यन्त्र - तृण-काष्ठे मन्त्र - मूल - भैषज्ये । दत्ते दापिते वा, प्रतिक्रामामि दैवसिकं सर्वम् ॥२४॥ स्नान - उद्वर्तन-वर्णक- विलेपने शब्द-रूप-रस- गन्धे । वस्त्र- आसन- आभरणे, प्रतिक्रामामि दैवसिकं सर्वम् ॥ २५ ॥ कन्दर्पे कौकुच्ये, मौखर्ये अधिकरण- भोगातिरिक्ते । दण्डे अनर्थाय तृतीये गुणव्रते निन्दामि ॥ २६ ॥ त्रिविधे दुष्प्रणिधाने, अनवस्थाने तथा स्मृति - विहीने । सामायिके वितथे कृते, प्रथमे शिक्षाव्रते निन्दामि ॥२७॥ आनयने प्रेषणे, शब्दे रूपे च पुद्गल क्षेपे । देशावकाशिके, द्वितीये शिक्षाव्रते निन्दामि ॥२८॥ संस्तार-उच्चारविधि - प्रमादे तथा च एव भोजनाभोगे । पोषध - विधि-विपरीते, तृतीये शिक्षाव्रते निन्दामि ॥ २९ ॥ सचित्ते निक्षेपणे, पिधाने व्यपदेश-मत्सरे च एव । कालातिक्रम- दाने, चतुर्थे शिक्षाव्रते निन्दामि ॥३०॥
सुखि(हि) तेषु च दुःखितेषु च, या मे असं( स्व )यतेषु अनुकम्पा । रागेण वा द्वेषेण वा, तां निन्दामि तां च गर्हे ॥३१॥
साधुषु संविभागः, न कृतः तपश्चरण-करण - युक्तेषु । सति प्रासुकदाने, तं निन्दामि तं च गर्हे ॥३२॥
इह लोके परलोके, जीविते मरणे च आशंसा - प्रयोगे । पञ्चविधः अतिचारः, मा मम भवेत् मरणान्ते ॥ ३३ ॥ कायेन कायिकस्य, प्रतिक्रामामि वाचिकस्य वाचा । मनसा मानसिकस्य, सर्वस्य व्रतातिचारस्य ॥३४॥ वन्दन- व्रत- शिक्षा - गौरवेषु संज्ञा- कषाय - दण्डेषु । गुप्तिषु च समितिषु च यः अतिचारः च तं निन्दामि ॥३५॥ सम्यग्दृष्टिः जीवः, यद्यपि खलु पापं समाचरति किञ्चित् । अल्पः तस्य भवति बन्धः, येन न निर्दयं कुरुते ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org