________________
'वहित्तु' सूत्र ● १२५
प्रथमे अणुव्रते, स्थूलक-प्राणातिपात विरतितः । अतिचरितम् अप्रशस्ते, अत्र प्रमाद - प्रसङ्गेन ॥९॥ वध-बन्ध - छविच्छेदे, अतिभारे भक्त-पान- व्यवच्छेदे । प्रथमव्रतस्य अतिचारान्, प्रतिक्रामामि दैवसिकं सर्वम् ॥१०॥ द्वितीये अणुव्रते, परिस्थूलक - अलीकवचन - विरतितः । अतिचरितम् अप्रशस्ते, अत्र प्रमाद - प्रसङ्गेन ॥११॥
सहसा - रहः- स्वदारेषु, मृषोपदेशे च कूटलेखे च । द्वितीयव्रतस्य अतिचारान्, प्रतिक्रामामि दैवसिकं सर्वम् ॥१२॥ तृतीये अणुव्रते, स्थूलक - परद्रव्य-हरण - विरतितः । अतिचरितम् अप्रशस्ते, अत्र प्रमाद - प्रसङ्गेन ॥१३॥ स्तेनाहृत-प्रयोगे, तत्प्रतिरूपे विरूद्ध - गमने च । कूटतुला - कूटमाने, प्रतिक्रामामि दैवसिकं सर्वम् ॥१४॥ चतुर्थे अणुव्रते, नित्यं पर-दार-गमन - विरतितः । अतिचरितम् अप्रशस्ते, अत्र प्रमाद - प्रसङ्गेन ॥ १५ ॥ अपरिगृहीता- इत्वरा - अनङ्ग- विवाह - तीव्रानुरागान् । चतुर्थव्रतस्य अतिचारान्, प्रतिक्रामामि दैवसिकं सर्वम् ॥१६॥ इतः अणुव्रते पञ्चमे, अतिचरितम् अप्रशस्ते । परिमाण-परिच्छेदे, अत्र प्रमाद - प्रसङ्गेन ॥१७॥ धन-धान्य - क्षेत्र - वास्तु-रूप्य सुवर्णे च कुप्य - परिमाणे । द्विपदे चतुष्पदे च प्रतिक्रामामि दैवसिकं सर्वम् ॥१८॥ गमनस्य च परिमाणे, दिक्षु ऊर्ध्वम् अधः च तिर्यक् च । वृद्धि - स्मृति- अन्तर्धा, प्रथमे गुणव्रते निन्दामि ॥ १९ ॥ मद्ये च मांसेच, पुष्पे च फले च गन्ध-माल्ये च । उपभोग - परिभोगौ, द्वितीये गुणव्रते निन्दामि ॥२०॥ सचित्ते प्रतिबद्धे, अप्रज्वलित - दुष्प्रज्वलित आहारे । तुच्छ - औषधि - भक्षणता( णात् ), प्रतिक्रामामि दैवसिकं सर्वम् ॥२१॥ आरी-वन- शकटी - भाटीक-स्फोटीषु (स्फोटं ), वर्जयेत् (सुवर्जयेत् ) कर्म । वाणिज्यं च एव दन्त - लाक्षा - रस - केश - विष- विषयम् ॥२२॥
·
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org