Page #1
--------------------------------------------------------------------------
________________
haaaaaaaa
R
वीर सं. २४६४
SINE
॥ श्रीजिनाय नमः ॥
॥ श्रीसुरप्रियमुनिकथा ॥
( कर्ता - श्रीकनककुल गणी )
इदं पुस्तकं जामनगरवास्तव्य पं. हीरालाल हंसराजेन स्वकीये श्रीजैन भास्करोदय मुद्रणालये मुद्रितव्यम्
विक्रम सं. १९९४
किं. रु. ०-४-०
SPERSEOCHOSE GEGE COCCER
सने १९३७
34999999999999
Scanned by CamScanner
Page #2
--------------------------------------------------------------------------
________________
सुरप्रिय
॥ १ ॥
*100DDNE
4000X [0]
॥ श्री जिनाय नमः ॥
॥ श्रीसुरप्रियमुनिकथा ॥
( कर्ता - श्रीकनककुशलगणी )
प्रणम्य महिमागारं । श्रीपार्श्व पुरुषोत्तमं ॥ सकलाभीष्टसंसिद्धि – साधने कल्पपादपं || १ || गुरुप्रसादमासाद्य । सो दुरितभेदकं । स्वान्योपकारकं वक्ष्ये । संबंधं बंधबंधुरं ॥ २ ॥ युग्मं ॥ पुरे राजगृहे नाम्ना । चैत्ये गुणशिलाभिधे । सुरासुरनृसेव्यांह्निः । श्रीवीरः समवासरत् ॥ ३ ॥ तस्याद्यो गणभृद्भूरि- लब्धिपात्रं पवित्रहृत् ॥ भगवान् गौतमस्वामो । नित्यं षष्टादिसत्तपाः ॥ ४ ॥ चतुर्ज्ञानधरो धीमान् | विनयाद्रचितांजलिः ॥ भक्त्याभिवंद्य भगवत्पादावेवं व्यजिज्ञपत् ॥ ५ ॥ युग्मं ॥ यः पश्येदात्मनो दोष - मात्मनिंदापरायणः । तस्य स्यात्किं फलं नाथ । कथ्यतां कृपया मम ॥ ६ ॥ उवाच
DE[0]
चरित्रम
॥ १ ॥
Scanned by CamScanner
Page #3
--------------------------------------------------------------------------
________________
Scanned by CamScanner
॥
२
॥
॥२॥
सरप्रिय। भगवानिंद्र-भृते शृणु वचो मम ॥ सावधानमना वत्स । रक्षणीयं निजे हृदि ॥७॥वश्लाघा परनिंदा
*/ च । लक्षणं निर्गुणात्मनां ॥ परश्लाघा स्वनिंदा च । लक्षणं सद्गृणात्मनां ॥ ८ ॥ गुणानुरागिणः
खल्पा-स्तेभ्योऽपि गुणिनस्ततः ॥ गुणिनो गुणरक्ताश्च । तेभ्यः स्वगुणवोक्षिणः ।। ९ ।। स्वनिंदाप्राप्तसौख्यस्य । सुरप्रियमहामुनेः॥प्रतिबोधविधानार्थ । कथयामि कथानकं ॥ १०॥ _जंबूद्वोपेऽत्र भरते । सुशर्मा नगरी वरा ॥ वापीवप्रविहाराद्यै-भूषिता जनतान्विता ॥ ११ ॥ चंद्रश्चंद्रोज्ज्वलयशा । भूपोऽभूभृरिविक्रमः ॥ न्यायनिष्टो गुणश्रेष्टो । हृष्टो मनमि सर्वदा ॥ १२ ॥ तस्याग्रमहिषी नाम्ना । गुणतारेति शीलभृत् ॥ रतिर्यथा जराभीरो-विधोरिव च रोहिणी ॥ १३ ॥ आकृत्या सुंदरः श्रेष्टी । ख्यातो नाम्नापि सुंदरः । मदनश्रोश्च तस्यासो-द्वल्लभापरदुर्लभा ॥ १४ ॥ तयोश्च तनयो जज्ञे | ज्ञानविज्ञानशोभितः ॥ सुरप्रिय इति ख्यातो । गुणानामेकमंदिरं ।।१५।। क्रमेण यौवनारंभे । स पित्रा परिणायितः ॥ द्विधा रूपवती कन्या । शीलालंकारराजिनो ॥ १६॥ अथाशुभोदयात्तस्य । निर्धनत्वमजायत ॥ सर्वेऽपि दिवसाः कस्य । सदृशाः स्युनिरंतरं ॥२७॥ यतः-कस्य वक्तव्यता नास्ति ।
DINEPeDEO]RDHOPADHDBAH
Page #4
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सरप्रिय । को जातो न मरिष्यति । केन न व्यसनं प्राप्तं । कस्य सोख्यं निरंतरं ॥ १८ ॥ मृतदुर्गतयोर्मध्ये । वरं
चरित्रम् X मृतो न दुर्गतः ॥ मृतो हि लभते वारि । तहिंदुमपि नापरः ॥ १९ ॥ मरणसमं नत्थि भयं । दारिद्दसमो ||
अ वेरिओ नत्थि ॥ पंथसमा नत्थि जरा । खुहासमा वेयणा नत्थि ।। २० ॥ वरं वनं व्याघ्रगणेनिषेवितं । वरं प्रवेशो ज्वलिते हुताशने :: वरं विषं प्राणविनाशि भक्षितं । न बंधुमध्ये धनहीनजोवितं ॥ २१ ।। स्थानांतरे नराणां हि । जातु चेजायते धनं ॥ कर्षकाणां यथा बीज-मूचुरिति मनोषिणः ॥ २२ ।। परस्परं विचिंत्यैवं । दत्वा शिक्षा निजे गृहे । जग्मतुस्तातपुत्रौ तौ । देशांतरं धनेच्छया ॥ २३ ॥ अविच्छिनप्रयाणस्तौ । गच्छंतावटवोमितौ ॥ उपविष्टौ वटतले। श्रांती विश्रामहेतवे ॥२४॥ पश्यतःस्म प्रपुन्नाटं। तो तत्र श्वेतमद्भुतं ॥ चक्राते च ततश्चिंता-मिति चित्तनिवासिनी ।। २५ ॥ अस्याधस्ताद्वनं भूरि । ध्रुवं संभाव्यतेतरां ॥ पुरा गुरुमुखादेत-द्वचनं शृणुवो यथा ॥ २६ ॥ अमंत्रमक्षरं नास्ति । नास्ति
मूलमनोषधं ॥ निधना पृथिवी नास्ति । आम्नायः खलु दुर्लभाः ॥ २७ ॥ विशिष्य शिष्यते किंचि-त्तद-। a भिज्ञानमप्यहो ॥ प्रस्रवे च खरादीनां । चतुर्भिश्चरणैः समः ॥ २८ ॥ बहुपक्षिपदे चार्क-वारे खंजन
deeDEENDED[D]k
dbt
Page #5
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सुरप्रिय
॥४॥
विट्पदे । छगणांतर्गतैरंड-बीजांकुरपदेऽपि च ॥ २९ ॥ खंजरोटादिकानां च । मैथुनस्थानके निधिः ॥
चरित्रम प्ररोहे प्रपुनाटादे-श्चापि बिल्वपलाशयोः ॥ ३० ॥ त्रिभिर्विशेषकं ॥ प्ररोहस्य च काश्र्थेऽल्पः । स्थैल्येऽनल्पः पुनर्निधिः ॥ तद्गतक्षीरवर्णानु-सारि सारं निधो तथा ।। ३१ । निश्चित्य द्रविणं तत्र । प्रोत्थितो ।
तद्गताशयौ ॥ गत्वा च पुरतः किंचि-तस्थतुस्तौ नरोस्तले ॥ ३२ ॥ पृथक्सुषुपतुस्तत्र | नक्तं कपट| निद्रया ॥ पिता तु चिंतयत्येवं । निद्रां गच्छेत्सुता यदि ।। ३३ ।। गत्वा तदा समुन्मूल्य । प्रपुनाटं पुरा| तनं ।। धनं समानयाम्याशु । दारिद्र्यदववारिदं ॥ ३४ ॥युग्मं ॥ सुते जाग्रति चेद्यामि | भागं गृह्णात्ययं | तदा ।। आयुवित्तं निजं पुण्यं । न वाच्यानि परस्य यत् ॥ ३५ ॥ सुतस्थापि मनस्येषा। चिंता समधि
काभवत् ।। कस्यात्मा न वशश्चके। कामिन्या कनकेन च ॥३६॥ यतः-को लोहेण न निहओ। कस्स al न रमणीइ भोलिअं हिययं ॥ को मच्चुणा न गहिओ। को गिद्धो नेव विसएहिं ॥ ३७॥ विज्ञाय तनयं - सुप्तं । समुत्थाय ययो द्रुतं ॥ निकटे प्रपुनाटस्य । सुंदगे लोभपीडितः ॥ ३८ ॥ ॐनमो धरणेद्राय । a ॐनमो धनदाय च ॥ इत्यादिमंत्रमंत्रेणा-पूर्वमूर्ती चखान च ॥ ३९ ॥ अधस्तात्प्रपुनाटस्य । रत्नश्रेणी
Page #6
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सद्रिय
॥
%3D
%3D
मनोहरं ॥ वीक्षतेत्म महामूल्यं । स हारं निधिमध्यगं ॥ ४०॥ तं गृहीत्वा तथान्यत्र । स्थाने संगोप्य
चरित्रम् यत्नतः ॥ सुंदगे वलितः पश्चा-धनप्राप्तिप्रहहत ॥ ४१ ॥ क्षणं सुप्त्वा समुत्थाय । तनयोऽपि धनाशया ॥ तमुद्दिश्याचलन्मागें । मिलतिस्मांतरा पिता ||४२॥ तस्य शंकामकुर्वाणः । सोऽगाद्वतटले द्रुतं ॥2 उन्मूलितं प्रपुन्नाटं | दृष्ट्वा दूनो व्यचिंतयत् ॥ ४३ ॥ पित्राग्राहि धनं नून-मिति निश्रित्य चेतसा ॥ उपेत्य पितरं सोऽथा-पृच्छल्लोभाभिभूतहृत् ॥ ४४ ॥ मूलादुन्मूलितः केन । प्रपुनाटः पुरातनः ॥ मनो-* रथो दरिद्रस्य । विधिनेव विचिंतितः ।। १५ ।। सुंदरोऽप्यवदजाने । नाहं वृत्तांतमस्य भोः । तत् श्रुत्वा कुपितः पुत्रो । जघान पितरं क्रुधा ॥ ४६॥ यतः-रतिधा ? दोहंधा २ | जच्चंधा ३ माय ४ माण ५ कोवंधा ६ ॥ कामंधा ७ लोहंधा ८ । इमे कमेणं विसेसंधा ॥ ४७ ॥ कोहो पोई पणासेड़ । माणो | विणयनासणो । माया मित्ताणि नासेइ । लोहो सबविणासणो ।। ४८ ॥ रूपं जरा सर्वमुखानि तृष्णा। याचा महत्त्वं गुणमात्मशंसा ॥ खलेषु सेवा पुरुषाभिमानं । चिंता वलं हंति दयां च लक्ष्मोः ॥ ४९ ।। ततो मृत्वा पिता जातो । गाधरो हाररक्षकः ।। सुतो लेभेन तत्स्थानं । परितः प्रविलोकयन् ॥ ५० ॥
*Hasoke OE-E-APRDER-[@]-RAPA
TI
Page #7
--------------------------------------------------------------------------
________________
सुरप्रिय
॥ ६ ॥
10/01
1]0+10
अहर्निशं वीक्षमाणो । निधिस्थानं सुरप्रियः ॥ भववासमिवाभव्यो । न मुमोच तदंतिकं ॥ ५१ ॥ गोधासुतोऽन्यदा हारं | वहिनींत्वा मनोहरं ॥ तस्योपरि लुलोठोच्चै – रहो लोभविजृंभितं ॥ ५२ ॥ सुरप्रियो निरीक्ष्याथ । तं द्रुतं ग्रहणोत्सुकः ॥ हत्वा गौधेरमादत्त । हारं सार्धं महांहसा ॥ ५३ ॥ धनार्थमंगनार्थ च | गर्हितं कर्म किं न हि ॥ नरः प्रकुरुते राग-द्वेषाभ्यां प्रेरितोऽधिकं ॥ ५४ ॥ यावत्सज्जीवसृवासौ । वलनाय महामुनिं ॥ कायोत्सर्गस्थितं तावद् । दृष्ट्वा शंकाकुलोऽभवत् ॥ ५५ ॥ गृहं गत्वा स योषायाः । सर्व वृत्तांतमादितः ॥ कथयामास साप्येवमवदच्छृणु मे वचः ॥ ५६ ॥ स मुनिहरवृत्तांतं । नृपस्याग्रे वदिष्यति ॥ नृपोऽपि धनलुब्धात्मा | हारमेनं हरिष्यति ॥ ५७॥ पट्कणों भिद्यते मंत्र चतुः कणों न भिद्यते ॥ ततोऽयं सर्वथा वध्यो । मुनिरूपेण नो रिपुः ||१८|| विमृश्येति चचालासौ । हननार्थं तपस्विनः ॥ आगतश्च क्रमेणास्य । निकटं कटुभाषकः ॥ ५२ ॥ मनोगतं मुने मे त्वं । भोः समाख्याहि मत्वरं ॥ अन्यथा त्वां हनिष्यामि । स्वहस्तेनामुनासिना ॥ ६० ॥ कायोत्सर्ग पारयित्वा । ज्ञानत्रयधरो मुनिः ॥ लाभं विभाव्य प्रोवाच । वाचं वाचंयमायणी ॥ ६१ ॥ भवान् पूर्वभवे हस्ती । समभृयत्र कानने || आसोत्तत्रैव ते
10-60010304[0]+00
चरित्रम्
॥६॥
Scanned by CamScanner
Page #8
--------------------------------------------------------------------------
________________
सुरप्रिय
116 11
五回
8:004[0]:00:49+
I
तातो । मृगारातिर्बलोत्कटः ।। ६२ ।। स गजोऽघाति तेनैव । सिंहेनाजन्मवैरिणा ॥ सोऽपि सिंहोऽष्टापदेन । निहतो नरकं ययौ ॥ ६३ ॥ नरकात्सिंहजीवोऽथ । निःसृत्याजनि सुंदरः ॥ स्वभूर्गजजीवोऽपि । भ्रांत्वा भूरितरान् भवान् ॥ ६४ ॥ त्वयापि पूर्ववैरेण । हतो लोभमिषात्पिता || मृत्वाभूत्सोऽपि गौधेरो । हाररक्षारायणः ॥ ६५ ॥ तं निहत्यापि भवता । हारोऽग्राहि दुरात्मना । विपद्य स तु गौधेरः । श्येनत्वेनोदपद्यत ॥ ६६ ॥ मत्तः शंकाकुलस्त्वं चात्रागतो हननेच्छया ॥ उक्तातीतभवाख्याना । मया वार्ता मनोगता ॥ ६७ :: सुरप्रियो निशम्याथ । वृत्तांतं मुनिनोदितं । शांतक्रोधः समुत्पन्न - वैराग्योऽचिंतयद् हृदि ॥ ६८ ॥ दुःकृतेनामुना नून-मतिनिंद्येन मे पदं । भविता नैव नरके । महादुःखनिकेतने ॥ ६९ ॥ अतिमूढात्मना पाप — वृक्षोऽयं रोपितो मया ॥ निंद्यपुष्पः कटुफलो । बहुधा दुःखदायकः ॥ ७० ॥ यतः - वहमारणअप्भक्खाण- दाणपरधणविलोवणाईणं ॥ सवजहन्नो उदओ । दसगुणिओ इक्कसि कयाणं ॥ ७१ ॥ तिवरे उपउसे । सयगुणिओ सबसहस्सकोडोगुणो ॥ कोडाकोडीगुणो वा । हुज्ज विवागो बहुतरो वा ॥ ७२ ॥ सुरप्रियो मुनिं प्रोचे । कृतदुःकर्मदूनहृत् || हे कारुण्यमहांभोधे । कर्तव्यं मे समादिश
4000-4000[0]04000
चरित्रम
॥ ७५ ॥
Scanned by CamScanner
Page #9
--------------------------------------------------------------------------
________________
सुरप्रिय
॥ ८ ॥
10000
J010
॥ ७३ ॥ मुमुक्षुरवदद्भद्र । विधेयो धर्म आर्हतः ॥ रागद्वेषौ महाशत्रु । निहंतव्यौ सुखैषिणा ॥ ७४ ॥ यतः — को दुक्खं पाविज्जा । कस्स व सुक्खेहिं विम्हओ हुज्जा ॥ को वन लभिज्ज मुक्खं । रागद्दोसा जइ न हुज्जा ॥ ७५ ॥ चतुः कषायाः क्रोधाद्या –स्त्याज्या दुर्गतिहेतवः ॥ करणं खलु वैरस्य । सद्धर्मधनतस्कराः ॥ ७६ ॥ कषाया देहकारायां । चत्वारो यामिका इव ॥ यावज्ञायंति पार्श्वस्था-स्तावन्मोक्षः कुतो नृणां ॥ ७७ ॥ तन्निशम्य मुनेर्वाक्यं । परं वैराग्यमुद्वहन् || नत्वा च चरगं तस्य । स जगाम निजं गृहं ॥७८॥ वृत्तांतं सकल भीरोः । स निवेद्यावदत्प्रिये ॥ हारं समर्प्य भूपस्य । प्रवजिष्यामि निश्चितं ॥ १९ ॥ तथा कृत्वा स जग्राह । चारित्रं गुरुसन्निधो || विनयादिगुणोपेतः । श्रुतमध्येष्ट वानिशं ॥ ८० ॥ तपोधनो गतधनो । निर्ममत्व जितेंद्रियः ॥ समशत्रुमुगों । विचचार पुरादिषु ॥ ८१ ॥ युग्मं ॥ सुशर्माभिधपुयैते । सोऽन्यदा साधुसत्तमः । कायोत्सर्गे चकारोचेः । स्वशरीरेऽपि निःस्पृहः ॥ ८२ ॥ अथ राज्ञोऽमहिषो । तल्पे हारं विमुच्य तं ॥ पावित्र्यैकनिदानायं । स्नानाय समुपाविशत् ॥ ८३ ॥ उपरि भ्रमता तेन । इयेनेनाक्षि दूरतः । हारश्वाग्राहि चंच्चासा - वुत्पपात ततवरे ॥ ८४ ॥ आगत्य निकटे तस्य ।
10-200406304[0]0000004
चरित्रम्
॥ ८ ॥
Scanned by CamScanner
Page #10
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सुरप्रिय
॥९॥
साधोर्ध्यानजुषो गले ॥ पक्षी चिक्षेप तं हारं । वैरशुद्धिविधित्सया ॥ ८५ ॥ राज्ञो स्नात्वा समुत्थाय । चरित्रम् वस्त्राणि परिधाय च ॥ यावन्निरीक्षते हारं । तावत्तं सा न पश्यति ।। ८६ ॥ तया दूतीमुखेनैषा | प्रवृत्तिः पत्युरंजसा ॥ ज्ञापिता सोऽपि पुरुषा-नादिदेशास्य शुद्धये ।। ८७ ॥ क्रूरास्ते पुरुषास्तुणं । चतुर्दिक्षु ।
प्रधाविताः ।। पुरारामादिकं स्थानं । वीक्षमाणाः पदे पदे ॥ ८८ ॥ मुनिं विलोकयामासु-रनघं प्रतिRI माधरं ॥ कानने तेन हारेण । विभ्राजिगलकंदलं ॥ ८९ ॥ यग्मं ॥ तमेव चौरं विज्ञाय । सलोप्नं |
भूपतेः पुरः ॥ वध्वा नरा नयंतिस्म । धिग्धिग्विलसितं विधेः ।। ९० ॥ हारं जग्राह भूपालो । भूरितजनतत्परः ॥ स्वीचक्रे च मुनिर्मोनं । शुभध्याननिवद्धधीः ॥ ९१ ॥ ततो राज्ञा मुनेस्तस्य । कंठपाशः प्रदापितः ॥ सुरसान्निध्यतस्तूर्णं । स तु तुत्रोट तंतुवत् ॥ ९२ ॥ द्वितीयेऽपि तृतीयेऽपि । वारके पुण्य| योगतः ॥ इत्थं जाते महीपालो । व्याकुलो मनसाभवत् ॥ ९३ ॥ समादिदेश भूभर्ता । पुनरादेशका
रिणः ॥ शृल्यामारोपणीयोऽयं । दुर्बुद्धिः पारिपंथिकः ॥ २४ ॥ ततस्तै पवचना-द्रासभे कारितस्थि- 13 | तिः ॥ निंद्यमानस्ताड्यमानो । दोषग्रहणपूर्वकं ।। ९५ ॥ स्मृतप्राचीनदुःकर्म-विपाकः क्षमयान्वितः ॥
FEADEMOAD[D]radeediaeriagedar
Page #11
--------------------------------------------------------------------------
________________
Scanned by CamScanner
सुरप्रिय
१०॥
HOSDEODEHRADEd[artDE*
स साधुपुंगवो वध्य-भूमिकायामनीयत ॥ ९६ ॥ युग्मं ॥ स तैश्चोचे निजं देवं । स्मर ब्रूहि यथो- | चिते ॥ अधुनारोपयिष्यामः । शुलिकायां भयोज्झिताः ॥ ९७ ॥ तथापि धर्मदृढधी-रुद्यतः कर्मणां क्षये ॥ प्रसन्नवदनांभोजो । मौनं तत्याज नो मनिः ॥ ९८ ॥ यतः–दुव्वयणहणणमारण-धम्मप्भसाण बालसुहाणं ॥ लाभं मन्नइ धीरो । जहुत्तराणं अलाभंमि ॥ ९९ ॥ शुक्लध्यानाग्निसंयोगा-दग्धकर्मेधनः | क्षणात् ॥ स प्राप केवलज्ञानं | लोकालोकप्रकाशकं ॥ १०॥ शूलिकास्थानके देव-निर्मितं कनकांबुजं ॥ साधुस्तत्रोपविष्टश्च । स्तूयमानोऽतिभक्तितः ॥ १॥ विस्मितास्ते नरा राज्ञो । वृत्तांतं तं न्यवेदः यन् ॥ तं निशम्य नृपोऽप्यूचे । हा मया दुःकृतं कृतं ॥ २॥ निदोषोऽपि महात्मायं | चौरत्वेन कलंकितः ॥ मया विवेकहीनेन । लोभोपतचेतसा ॥३॥ यतः-एकं हि चक्षुरमलं सहजो विवेको ।
विद्वद्भिरेव गमनं सहज द्वितीयं ॥ पुंसो न यस्य तदिह द्वयमस्ति सोंध-स्तस्यापमार्गचलने खलु 2 कोऽपराधः ॥ ४ ॥ इत्थं विषादमापन्नः । समागत्य महीपतिः ॥ स्वापराधं निवेद्योच्चै-ननाम चरणौ |
मुनेः ॥ ५॥ सुरासुरनरश्रेणी-सेव्यमानपदद्वयं ॥ श्रीगुरुं हारवृत्तांतं। पप्रच्छ धरणीधवः ॥ ६ ॥ ज्ञानि
PHOTOAAREJAPAgaesGARDEMOHODE-ACbar
Page #12
--------------------------------------------------------------------------
________________
सुरप्रिय
॥ ११ ॥
3000;
ना मुनिना सौव - पुरपित्रादि कोऽखिलः ॥ संबंधो भूपतेरये । प्रोक्तो वैराग्यकारणं ॥ ७ ॥ श्येनेन तेन संबंधः । पार्श्वपादपवासिना । गुरुप्रोक्तः स्वानुभूतः । शुश्रुवे निखिलोऽपि सः ॥ ८ ॥ जातजातिस्मृतिरथो । स विज्ञातभवन्त्रयः ॥ आत्मानं बहुधा निंदन् । महापापविधायिनं ॥ ९ ॥ विषादं परमं विभ्रद् । वृक्षादुत्तीर्य सत्वरं ॥ मुनेः क्रमौ प्रणनाम । विनयेन विवेकवान् ॥ १० ॥ युग्मं ॥ धुन्वन्नंगं जले स्तोके | मीनवद्दीनमानसः ॥ मुखेन मुंचन्निःश्वास - श्रेणिं दुःखाश्रुपूदृक् ॥ ११ ॥ तां प्रवृत्तिं स्मरन् दुःखादभृद्भूरिशुचाकुलः ॥ पच्यमानश्चणकत्र - - न्निपतन्नुत्पतंश्च सः ॥ १२ ॥ युग्मं ॥ मयाकारि प्रमादेन । मानुष्यं दुर्लभं सुधा ॥ चिंतारत्नं दरिद्रेण । पातनेनेव सागरे ॥ १३ ॥ अथालं जीवितव्येन । विमृश्येति स्वभाषया ॥ स जगावनगारं मेऽनशनं देहि शर्मदं || १४ || प्रदेऽनशनं तस्य । गुरुणा करुणाभृता ॥ प्रपूर्यायुर्विहंगोऽसौ । सौधर्मे त्रिदशोऽजनि ॥ १५ ॥ स्वरूपं पक्षिणो दृष्ट्वा । गुरुं पप्रच्छ भूपतिः ॥ प्रभो कोऽयमभूत् । कथ्यतां संशयोऽस्ति मे ॥ १६ ॥ गुरुरूचे मम पितु—जवोऽयं भृपतेऽभवत् ॥ यस्माच्छास्त्रे समाख्याता । विचित्रा कर्मणां गतिः ॥ १७ ॥ तं स्वरूपं समाकर्ण्य । भृपो वैराग्यमुद्वहन् ॥
**100-140000001:20040406
चरित्रम्
॥ ११ ॥
Scanned by CamScanner
Page #13
--------------------------------------------------------------------------
________________ Scanned by CamScanner * सुरप्रिय चरित्रम् // 12 // // 12 // HeDEOHIDEd0e0a[a]60*TA राज्यं त्यक्त्वा गुरोः पाश्वे / परिव्रज्यामपाददे // 18 // चारित्रं निरतीचारं। सुचिरं परिपाल्य सः॥ समुत्पन्नः सुरः कल्पे / पंचमे परमर्द्धिकः // 19 // यतः–एगदिवसंपि जीवो / पवजमुवागओ अनन्नमणो // जइवि न पावइ मुक्खं / अवस्स वेमाणिओ होइ / / 20 // प्रतिबोध्य चिरं भव्यान् / भूतलेऽनुक्रमेण सः // सुरप्रियोऽपि निःशेष-क्षीणकर्मा शिवं ययौ // 21 // त्रयाणामपि जीवाना-मात्मनिंदा फलप्रदा // अभृदित्थं ततः सैव / कर्तव्या स्वस्तुतिन च // 22 // इति वीरवचः श्रुत्वा / गोतमो | हर्षप्ररितः // सार्ध भगवता तेन // विजहार वसंधरां // 23 // श्रीमत्तपगणगगनां-गणदिनमणिविजयसेनसूरीणां // शिष्याणुना कथेयं / विनिर्मिता कनककुशलेन // 24 // ऋतुभूतरसेंदुमिते (1656) / वर्षे स्वान्योपकारिणी चैषा // हालोवाटकनाम्नि / ग्रामे लिखिता शिवाय स्तात् // 25 // // इति श्रीसुरप्रियकथा समाप्ता // श्रीरस्तु // DHODE:HReDEODEHDBHOPान