________________
सुरप्रिय
॥ १ ॥
*100DDNE
4000X [0]
॥ श्री जिनाय नमः ॥
॥ श्रीसुरप्रियमुनिकथा ॥
( कर्ता - श्रीकनककुशलगणी )
प्रणम्य महिमागारं । श्रीपार्श्व पुरुषोत्तमं ॥ सकलाभीष्टसंसिद्धि – साधने कल्पपादपं || १ || गुरुप्रसादमासाद्य । सो दुरितभेदकं । स्वान्योपकारकं वक्ष्ये । संबंधं बंधबंधुरं ॥ २ ॥ युग्मं ॥ पुरे राजगृहे नाम्ना । चैत्ये गुणशिलाभिधे । सुरासुरनृसेव्यांह्निः । श्रीवीरः समवासरत् ॥ ३ ॥ तस्याद्यो गणभृद्भूरि- लब्धिपात्रं पवित्रहृत् ॥ भगवान् गौतमस्वामो । नित्यं षष्टादिसत्तपाः ॥ ४ ॥ चतुर्ज्ञानधरो धीमान् | विनयाद्रचितांजलिः ॥ भक्त्याभिवंद्य भगवत्पादावेवं व्यजिज्ञपत् ॥ ५ ॥ युग्मं ॥ यः पश्येदात्मनो दोष - मात्मनिंदापरायणः । तस्य स्यात्किं फलं नाथ । कथ्यतां कृपया मम ॥ ६ ॥ उवाच
DE[0]
चरित्रम
॥ १ ॥
Scanned by CamScanner