Page #1
--------------------------------------------------------------------------
________________
श्रीलब्धिसूरीश्वरजैनग्रन्थमालायाः सप्तदशो मणिः [१७] कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं सकलाहेत्स्तोत्रम् ।
श्रीगुणविजयविरचितार्थप्रकाशवृत्त्या
समलङ्कृतम् ।
सम्पादकः
मुनिर्नेमविजयः
00-000
प्रकाशयित्री श्रीलब्धिसूरीश्वरजैनग्रन्थमाला।
Page #2
--------------------------------------------------------------------------
________________
श्रीलब्धिसूरीश्वरजैन ग्रन्थमालायाः सप्तदशो मणिः [ १७ ] ।
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
सकलाईत्स्तोत्रम् |
श्रीगुणविजय विरचितार्थप्रकाशवृच्या समलङ्कृतम् ।
सम्पादकः
जैनरत्नव्याख्यानवाचस्पति-कविकुल किरीट-सूरिसार्वभौभ आचार्यदेव श्रीमद्विजय- लब्धिसूरीश्वरजी महाराजान्तेवासि मुनिर्नेमविजयः
प्रकाशयित्री
सूर्यपुरवास्तव्यश्राद्धवर्यश्रेष्ठि शा. मंच्छुभाई गलालचन्द्रस्य स्मरणार्थं श्रेष्ठिवर्य शा. छोटुभाई मंच्छुभाई प्रदत्तद्रव्यसहाय्येन श्रीलब्धिसूरीश्वरजैनग्रन्थमाला, छाणी ( वडोदरा )
वीर सं. २४७२
प्रतयः ७५०
विक्रम सं. २००२.
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक:
शा. चंदुलाक जमनादास मंत्री - श्रीलब्धिसूरीश्वरजैन ग्रन्थमा का छाणी (बडोदरा )
वयोवृद्ध साध्वी श्रीताराश्रीजी महाराजनी विनयी शिष्या arrat श्रीराजेन्द्रश्रीजीना वरसीत्पना पारणा निमित्ते भेट.
मुद्रणस्थलःरामचंद्र येसू शेडगे, निर्णयसागर प्रिंटिंग प्रेस २६-२८ कोलभाट स्ट्रीट, मुम्बई.
Page #4
--------------------------------------------------------------------------
________________
भूमिका ।
-०००००
प्रस्तुत पुस्तकना रचयिता कलिकालसर्वज्ञ, शब्दमहोदधि, स्याद्वादमूर्ति, कुमारपालप्रतिबोधक आचार्यदेव श्रीमद्विजय हेमचन्द्राचार्य म. छे. जेओश्रीए पोतानी असाधारण प्रतिभाने साहित्यना अनेक क्षेत्रोमां व्हेती मूकी जैनोनी साहित्य विषयक दरिद्रताने देशपार करी दीधी हती, अरे ! केवल जैनोंनीज नहि पण सास गुजरातभरनी दरिद्रताने चूरी नाखी हती, प्रत्येक विषयोनी रचना करी जैन, अजैन प्रत्येक समाजमां, काव्यकार, व्याकरणकार, कोशकार, सूत्रकार आदि तरीकेनी परम ख्याति मेलवी छे.
आ जैनशासनना परमप्रभावक सूरीश्वरे, सिद्धराज जयसिंहनी प्रार्थनाथी जेम सारा व्याकरण प्रन्थो एकट्ठा करी सर्वांग सुंदर सिद्धहेमव्याकरण-शब्दानुशासननी रचना करी तेम परमार्हत् कुमारपालनी मागणीथी १० पर्व युक्त त्रिषष्टिशलाकापुरुष नामक प्रन्थ बनाव्यो हतो. तेना आद्यपर्वनी शरुआतमां मंगलरूपे आ अवसर्पिणीना श्री ऋषभदेवथी लइ चरम तीर्थंकर श्रीमहावीरभगवान पर्यन्त तीर्थंकरोनी चोवीश स्तुतिओ करी, जे जैन समाजमां 'सकलाई त्' ना नामथी प्रसिद्ध छे. आ अवसर्पिणीना सर्व तीर्थकरोनी आमां स्तुति होवाथी आ नाम यथार्थ छे.
जेने जैनसमाजमां पवित्र गणाता पाक्षिक, चातुर्मासिक अने सांवत्सरिक जेवा महान् पर्वोनी क्रियाओनी शरुआतमांज स्थान लीधुं, जो के आ नानी रचना छे पण असाधारण कविना हाथथी रत्रायेली होइ भावो अने अलंकारोथी भरपूर छे. प्रायः त्रिषष्टिशैला कापुरुषनी रचना पाटणमां थयेली होवी जोइए, जेथी आ 'सकलाईत्' नी पण रचना पाटणमज थइ होय एम संभवे छे.
Page #5
--------------------------------------------------------------------------
________________
आना उपर अकबरबादशाहप्रतिबोधक आचार्य श्री विजयहीरसूरीश्वरजी म. ना संतानीय श्री गुणविजय म. ए बहु नानी नही अने बहु मोटी नहि एवी अन्वर्थ नामवाली 'अर्थप्रकाश' नोमनी टीका करी छे. जे घणी सुंदर छे. शब्दे शब्दनी टीका करी अर्थनो सारो प्रकाश पाथर्यों छे. आनी अन्य टीकाओ पण छे. पण आ टीका ए टीकाओथी घणी विशिष्टता धरावे छे. जे विद्वान् वांचकोने स्वयं ख्यालमां आवे तेम छे.
टीकाकार प. पू. हीरसूरीश्वरजी म. ना प्रशिष्य होवा जोइए, कदाच शिष्य पण होय. केमके टीकाना आदि तेमज अन्तमां केवल हीरसूरीश्वरजी म. नाज नामनो उल्लेख करे छे. किन्तु तेनो निर्णय पुरता साधन सिवाय करी शकाय नहि, तेओ १७ मी सदीमां थयेला होवा जोइए. ते पण हीरसूरीश्वरजी म. ना कालमांज,
अन्यथा श्री विजयसेनसूरीश्वरजी. म. आदिनो नामोल्लेख को होत. . हुं पू. गुरुदेव जैनरत्नव्याख्यानवाचस्पति, कविकुलकिरीट
सूरिसार्वभौम, कटोशणनरेशप्रतिबोधक जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरजी म. नी साथे मुम्बई चातुर्मास माटे विहार करतो पारडी आवेलो अने त्यांना उपाश्रयमां थोडीक आम तेम छूटी पडेली प्रतो जोतां म्हने आ टीका हाथ लागी. में आ काम मुनि श्री नेमविजयजीने सोंप्यु अने तेमने आनुं सम्पादन कयु. बीजी कोइ प्रतनो आधार लेवायो नथी. अन्तमां संशोधन आदिमां पूरतो ख्याल राखवा छतां छद्मस्थताना योगे कोई भूल रही जवा पामी होय तो विद्वानो सुधारी अनुग्रह करशे.
परमगुरुदेव आचार्य श्रीमद्विजयलब्धिसूरीश्वरजी लालबाग जैन उपाश्रय, भूलेश्वर । महाराजचरणनलिनभ्रम* मुम्बई. वि. सं. २००२
रायमाण:..... भा. शु. ११ शनि . . .J. विक्रमविजयः.
Page #6
--------------------------------------------------------------------------
________________
समर्पण
जेमनी अतुल कृपाना प्रभावे रत्नत्रयीनी पुनित आराधनाना पंथे हुं प्रयाण करी शक्यो, जेमना वात्सल्यभावे म्हने आगमादि ज्ञाननो अल्प पण बोध थयो अने जेमनी पुनित छायामां म्हारुं श्रमण जीवन यत्किंचित् सार्थक थयुं, ते करुणानिधान परमपूजनीय गुरुदेव जैनरत्न व्याख्यानवाचस्पति कविकुलकिरीट सूरिसार्वभौम आचार्यदेव श्रीमद्विजय लब्धिसूरीश्वरजी महाराजना पुनित चरणोमां आ लघु संपादन समर्पण करता मने अत्यन्त आनंद थाय छे.
भवदीय
कृपाकांक्षी शिष्याणु नेमना कोटिशः वंदन.
निर्णयसागर प्रेस, मुंबई.
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥
आत्म-कमल-लब्धिसूरीश्वरेभ्यो नमः | कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
सकलाईत्स्तोत्रम् |
श्रीगुणविजयविरचिताऽर्थप्रकाशवृच्या समलङ्कृतम् ।
प्रणम्य गुरुपादाब्जं संदृब्धान् हेमसूरिभिः । तीर्थनाथस्तुतिलोकान् विवृणोमि यथामति ॥ १ ॥ श्रीमानकब्बरनृपः पटहं दयायाः सर्वत्र वादयति यस्य गिरं निपीय । सूरीशहीरविजयाय सूरिसिंहः सुश्रीरयं जयति सुप्रथितावदातः ॥ २ ॥ सकलाईत्प्रतिष्ठानमधिष्ठानं शिवश्रियः ।
भूर्भुवःस्वत्रयीशानमार्हन्त्यं प्रणिदध्महे ॥ १ ॥
सकलाईत्प्रतिष्ठानमित्यादि । वयं आर्हन्त्यं - अर्हत्वरूपं अर्हच्छब्दप्रवृत्तिनिमित्तं 'प्रणिदध्महे' प्रणिधानविषयी कुर्महे - ध्यायाम इत्यर्थः । किंविशिष्टमाईन्त्यम् ! 'सकळाईत्प्रतिष्ठानं' सकलाभ ते अर्हन्तश्च सकळार्हन्तः, सकलार्हन्तः प्रतिष्ठानं आधारो मत्व ततथा । सकलार्हत्सु धर्मिषु तद्धर्मत्वेन वर्तमानमित्यर्थः । पुनः किंविशिष्टमार्हन्त्यम् ? 'अधिष्ठानं' अधिकरणम्, कस्साः 'शिवश्रियः' शिवा - निरुपद्रवा या श्रीश्चतुस्त्रिंशदतिशयरूपा सम्पत् तस्याः । यद्वा शिवस्य - मोक्षस्य श्रीः तत्प्राप्तिहेतुत्वेन तत्सम्बन्धिनी ज्ञानादिरूपा ऋद्धिः तस्याः । यद्वा शिवस्य- कल्याणस्य तत्कारणत्वेन
Page #9
--------------------------------------------------------------------------
________________
सकलाईत्स्तोत्रम् ।
श्री:- केवलज्ञानरूपा विभूतिः तस्याः । पुनः किंविशिष्टमार्हन्त्यम् ? 'भूर्भुवःस्वस्त्रयीशानं' भूश्च भुवश्च खश्च भूर्भुवःखः । अत्र अव्ययत्वेन जसो लुक् । तेषां त्रयी तस्या ईशानं प्रभुभूतम् । धर्मिणि कथंचित् तादात्म्येन वर्तमानत्वात्तद्रूपे धर्मे तद्धर्मिणः सत्त्वं नायुक्तमिति प्रमाणविदः । भूः-रसातलं-पाताललोकः, भुवः- मर्त्यलोकः, खः - खर्गिलोकः, तेषां पतिमित्यर्थः । अत्राद्यन्तयोर्भूखरशब्दयोः पातालना किलोकवाचकयोः सान्निध्यात्तदन्तरालवर्तिभुवः शब्दस्य मर्त्यलोकवाचकत्वं अनन्यगतिकत्वेन नायुक्तम् । अत्र च आर्हन्त्यमिति पदम्, "अर्हतस्तोन्त्” चेति सूत्रेण भावे कर्मणि वा व्यण्प्रत्यये अर्हतो भाव आर्हन्त्यमिति तस्य न्त् इत्यादेशे सिद्धमिति बोध्यम् ॥ १ ॥ नामाऽऽकृतिद्रव्यभावैः पुनतत्रिजगञ्जनम् ।
क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ २ ॥ नामेत्यादि । वयमर्हतः तीर्थकरान् 'समुपास्महे' भक्तिश्रद्धातिशयपूर्वकं सेवामहे । किं कुर्वतः अर्हतः ! 'पुनतः' पवित्रीकुर्वतः । कम् ? 'त्रिजगज्जनं' त्रयाणां जगतां समाहारः त्रिजगत् तस्य जनो लोकः-सुरासुरनरादिरूपः तं त्रिजगज्जनम् । कैः कृत्वा ? ' नामाकृति - द्रव्यभावैः' नाम च आकृतिश्च द्रव्यं च भावश्व नामाकृतिद्रव्यभावा
१ "भू सत्तायाम्" इत्यतः " मिथिरज्युषि तू शू-भू-वष्टिभ्यः कित्" (उ० ९७१ ) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस् भुवस् मथाक्रमं नाग- मनुष्यलोकवाचकाविति “खरादयोऽव्ययम्” इति सिद्धम. १-१-३० सूत्र बृहन्न्यासे ।
२ सिद्धहेमबृहत्प्रक्रिया. ७-१-६२. अर्हत्शब्दात् षष्ठ्यन्ताद् भावे कर्मणि चार्थे व्यण् प्रत्ययः स्यात् तत्संनियोगे च तकारस्य न्त् इत्यादेशो भवति । अरिननात् रजोहन नातू रहस्याभावाच्च अर्हन् पृषोदरादित्वात् ।
Page #10
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं
खैर्नामाकृतिद्रव्यभावैः । नाम ऋषभादिरूपं, आकृतिश्व जिनप्रतिमा, द्रव्यं च जिनजीवः - भविष्यत्तीर्थ कृज्जीवरूपः, भावश्व समवसरणालस्थितजिनरूपः, एभिश्चतुर्भिः प्रकारैरित्यर्थः । कस्मिन् क्षेत्रे ? महाविदेहादिरूपे । 'च' पुनः कस्मिन् काले ? अवसर्पिण्यादिरूपे । किंलक्षणे ? 'सर्वस्मिनू' सकले इति द्वयोर्विशेषणम् । सर्वस्मिन्नपि क्षेत्रे सर्वस्मिन्नपि काले सर्वत्र सदा इत्यर्थः । यत्रापि च क्षेत्रादौ साक्षाद्वर्तमानतीर्थकृतां व्यतिरेकः तत्रापि नामादित्रितयस्य सर्वदा सद्भावेन सार्वत्रिकं सार्वदिकं च त्रिजगज्जनपवित्रीकरणमईतामविरुद्धमेवेति ॥ २ ॥
आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभखामिनं स्तुमः ॥ ३ ॥ आदिमं पृथिवीत्यादि । वयं ऋषभखामिनं - श्रीऋषभप्रभुं " स्तुमः" "टुंग्क् स्तुतौ” स्तुतिगोचरीकुर्मः । किंविशिष्टं ऋषभखामिनम् ? ' पृथिवीनाथं' पृथिव्याः भूमेर्नाथः खामी पृथिवीनाथः तं पृथिवीनाथं - राजानमित्यर्थः । किंलक्षणं पृथिवीनाथम् ? 'आदिमं' प्रथमम् । पुनः किंविशिष्टं ऋषभखामिनम् ? 'निष्परिग्रह' निर्गतः परिग्रहात् - बाह्याभ्यन्तरभेदभिन्नात् इति निष्परिग्रहस्तं निष्परिग्रहंनिर्ग्रन्थम् । कथम्भूतं निष्परिग्रहम् ? 'आदिमं प्रथमम् । पुनः किंविशिष्टं ऋषभखामिनम् ? 'तीर्थनाथं' तीर्थस्य चतुर्वर्णस्य संघस्य नाथं- खामिनम् । किंविशिष्टं तीर्थनाथम् ? 'आदिमं' प्रथमं तथा चार्ष "पढमरायेति वा पढमभिक्खायरेति वा पढमजिणेति वा" इति ॥३॥
१ नामजिणा जिणनामा, ठवणजिणा पुण जिनिंदपडिमाओ । दव्वजिणा झिणजीवा, भावजिणा समवसरणत्था ॥ १ ॥ इति भाष्ये ।
Page #11
--------------------------------------------------------------------------
________________
सकलाईत्तोत्रम् । अर्हन्तमजितं विश्वकमलाकरभास्करम् ।
अम्लानकेवलादर्शसान्तजगतं स्तुवे ॥४॥ अर्हन्तमित्यादि । अहं 'अर्हन्तं' तीर्थकरं 'स्तुवे ईडे । किं. विशिष्टमहन्तम् ! 'अजितं' अजितनामानमित्यर्थः। किंविशिष्टमजितम् ? 'विश्वकमलाकरभास्करं' कमलानां पद्मानां आकरःसनिः कमलाकरः । विश्वमेव-जगदेव कमलाकरः विश्वकमलाकरः विश्वकमलाकरे भास्करः-सूर्यः तदुद्बोधनिबन्धनतया विश्वकमलाकर भास्कर सं विश्वकमलाकरमास्करम् । पुनः किंविशिष्टमजितम् । 'अम्लानकेवलादर्शसङ्कान्तजगतं' केवलमेवादर्शो दर्पणः केवलादर्शः न म्लानः अम्लान:-निर्मलः, अम्लानश्चासौ केवलादर्शश्च अम्लानकेवलादर्शः, तत्र सक्रान्तं ज्ञेयतया प्रतिबिम्बितं जगद् यस स अम्लानकेवलादर्शसान्तजगत् तं अम्लानकेवलादर्शसान्तजगतं, विमलकेवलालोकाकलितनिखिलपदार्थसार्थमित्यर्थः । अत्र च प्रथमविशेषणेन वचनातिशयो द्वितीयविशेषणेन ज्ञानातिशयश्च प्रतिपादितोऽवगन्तव्यः । शेषातिशयद्वयं च तदव्यभिचारित्वेन प्रतिपादितमेवावबोध्यमिति मूलातिशयचतुष्टयसम्पत्तिरुक्ता । यद्वा न जितो रागादिभिरित्यजित इति शब्दव्युत्पत्त्यैवापायापगमातिशयः । अर्हति त्रिभुवनकृतां पूजामित्यर्हन् इति व्युत्पत्त्या पूजातिशयश्च प्रतिपादितः, शेषातिशयद्वयं च विशेषणद्वयेन स्पष्टमेवोक्तमित्येवमपि वदतिशयचतुष्टयीसम्पदुक्तेति चिन्त्यम् ॥ ४ ॥
विश्वमव्यजनारामकुल्यातुल्या जयन्ति ताः।
देशनासमये वाचः, श्रीसंभवजगत्पतेः ॥५॥ विश्वेत्यादि । 'श्रीसंभवजगत्पतेः' जगतां पतिर्जगत्पतिस्तीर्थकर:
Page #12
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं
श्रियोपेतः संभवः श्रीसंभव इति, स चासौ जगत्पतिश्चेति तथा तस्य तृतीयतीर्थङ्करस्येत्यर्थः । ' ताः' इति एकरूपा अपि भगवद्वदनारविन्दविनिर्गताः सकलसभा लोकतत्तद्भाषापरिणमनशीलत्वेनानेकरूपाः सत्योऽशक्यनिर्वचनाश्चतुर्गतिकसंसारभवभ्रमणजनितासातसन्ततिच्छेदच्छेकिलाः वाचो वाण्यः जयन्ति सर्वोत्कर्षेण वर्तन्त इति संटंकः । कदा ? 'देशनासमये' इति देशनाया धर्मोपदेशस्य समयः कालः तदा । किंलक्षणा वाचः ? 'विश्वभव्यजनाराम कुल्यातुल्या' इति भव्याः - सिद्धिगमनार्हाः ते च ते जनाश्च भव्यजनाः, विश्वे च ते भव्यजनाश्च विश्वभव्यजनाः, विश्वशब्दः सर्वार्थः, त एवारामाः वनविशेषाः विश्वभव्यजनारामाः, कुल्या- सारणिस्तस्यास्तुल्याः समानाः कुल्यातुल्याः, विश्वभव्यजनारामेषु कुल्यातुल्याः विश्वभव्यजनारामकुल्यातुल्याः । यद्वा विश्वानां जगतां भव्यजनाः विश्वभव्यजना इति । यथा कुल्या आरामद्रुमाणां पुष्पफलादिसमृद्धिहेतुर्भवति, तथा भगवद्वाचोपि भव्यजनानां ततद्बोधिबीजादिसम्पतिहेतवो भवन्तीति तासां तत्तुल्यतानिरूपणमतिरमणीयमिति ॥ ५ ॥
अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः ।
दद्यादमन्दमानन्दं, भगवानभिनन्दनः ॥ ६ ॥ अनेकान्तेत्यादि । अभिनन्दनो भगवान् - अर्हन् 'आनन्द' प्रमोदं 'दद्यात् ' ददावित्यर्थः । वः इत्युपस्कारः । कथम्भूतमानंदम् 'अमन्दं' अस्तोकं एतावतानन्तचतुष्टयान्तर्गतं सौख्यमित्यर्थः, तस्यैव परमार्थवृत्त्या अमन्दत्वविशेषण्णालिङ्गितत्वात् संसारिकसुखस्व च मन्दत्वेनैव विचारारूढत्वादिति । किंविशिष्टः अभिनन्दनः ! 'अने'कान्तमताम्भोधिसमुल्लासन चन्द्रमाः' अनेके अन्ताः सदसत्त्वनित्या
Page #13
--------------------------------------------------------------------------
________________
सकलाई स्तोत्रम् |
नित्यत्वसामान्यविशेषादयः परस्परसमानाधिकरणा धर्माः प्रतिपाद्यतया यत्र तत् अनेकान्तं तच्च तन्मतं चानेकान्तमतं स्याद्वादमतमित्यर्थः । तदेव दुःशकावगाहत्वेनाम्भोधिरिवाम्भोधिः - समुद्रः तस्य समुल्लासनं-उत्कल्लोलीकरणं तत्र चन्द्रमाः -सुधादीधितिः । यथा चन्द्रमसा जलनिधिः समुच्छलद्बहलकल्लोलमालोत्कर्षमानीयते तथा भगवतानेकान्तमतं विस्फूर्तिकोटिमानीयत इति । अत्र च "विधिनि-' मन्त्रणामत्रणाचीष्टसंप्रश्नप्रार्थने" (५-४-२८) इति सिद्धहेमचन्द्र - सूत्रेण अधीष्टार्थे दद्यादिति सप्तमी न दोषभाक् । यतः प्रेरणैव सत्कारपूर्विका अधीष्टमुच्यत इति । दद्यादिति पदं ददातु इति प्रेरणार्थाभिव्यंजकविभक्त्यन्तपदपर्यायत्वेन व्याख्येयमिति ॥ ६ ॥
६
घुसत्किरीटशाणाग्रोचेजितांहिनखावलिः ।
भगवान् सुमतिस्वामी, तनोत्वभिमतानि वः ॥ ७ ॥ घुसत्किरीटेत्यादि । सुमतिखामी भगवान् पंचमः खयम्भूः 'वः' युष्माकं 'अभिमतानि' अमीष्टानि निरतिशयसुखानि 'तनोतु '' करोतु इत्यर्थः । " जीवा सुहेसिणो इति वचनात् " तेषामेव परमार्थतोऽभिमतत्वादिति । कथम्भूतः सुमतिखामी ! ' घुसत्किरीटशाणाम्रोत्तेजितांड्रिनखावलिः' घुसदो देवास्तेषां किरीटानि - मुकुटानि घुसत्कि - टानि, तान्येव शाणा :- शस्त्रादिसमुत्तेजनफलाः कषोपलाः तेषामग्राणि - कोट्यः द्युसत्किरीटशाणाग्राणि, नखानामावलिर्नखावलिः, अंड्रयोः क्रमयोर्नखावलिः अंड्रिनखावलिः, अंड्रयोर्नखास्तेषामावलिरिति वा घुस त्किरीटशाणाग्रैरुत्तेजिता - दीप्तिमतां नीता अंह्निनखावलिर्यस्य सः घुसत्किरीटशाणामोत्तेजितांह्रिनखावलिः । एतावता स्वर्गिणस्तथा
Page #14
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृचिसहितं
विषभक्तिश्रद्धातिशयभर भृतस्तथाप्रणमन्ति यथा भगवत्पादपद्मनस्वास्तदीयमुकुटतटकोटिभिः संघव्यन्त इति तात्पर्यमिति ॥ ७ ॥
पद्मप्रभप्रभोर्देहभासः पुष्णन्तु वः शिवम् |
अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ॥ ८ ॥ पद्मप्रभेत्यादि । पद्मप्रभप्रभोः षष्ठतीर्थकृतो 'देहभासः' कार्य कान्तयः 'वः' युष्माकं 'शिवं' कल्याणं 'पुष्णन्तु' पोषयन्तु । पद्मप्रभश्वासौ प्रभुश्च पद्मप्रभप्रभुः तस्य पद्मप्रभप्रभोः, देहस्य भासः देहभासः । किंलक्षणा देहभासः ? 'अरुणाः' शोणाः 'इव' उत्प्रेक्ष्यंते । 'कोपाटोपादिवारणा' कोपस्य क्रोधस्य आटोपः-संभारः कोपाटोपः, तस्मात्को पाटोपात् । कुत्र ? 'अन्तरङ्गारिमथने' अन्तरङ्गाश्च ते अरयश्चान्तरङ्गारयस्तेषां मथनं हननं, तत्र अन्तरङ्गारयः कर्मण्येव । यथा कश्चिद् वैरिवारं जिघांसुः कोपावेशान्नयनादिषु रक्तिमानं दधानः स्यादेवं भगवद्देहभासोपि भाववैरिहनने रक्ता इवेत्युत्प्रेक्षा ॥ ८ ॥
श्रीसुपार्श्वजिनेन्द्राय, महेन्द्रमहितांइये । 'नमचतुर्वर्णसङ्घगगनाभोगभावते ॥ ९ ॥
श्री सुपार्श्वत्यादि । श्रीसुपार्श्व जिनेन्द्राय नमः, स्यादिति शेषः नमस्कारो भवत्वित्यर्थः । कम्थभूताय श्रीसुपार्श्वजिनेन्द्राय ! 'महेन्द्रमहितांद्रये महान्तश्च ते इन्द्राश्च महेन्द्राः, महेन्द्रैर्महितावांही यस्य सः महेन्द्रमहितांहि तस्मै महेन्द्रमहितांड्रये - महावासवपूजितचरणायेत्यर्थः । पुनः किंलक्षणाय श्रीसुपार्श्वजिनेन्द्राय ? 'चतुर्वर्ण
१ " यत्रान्यत् क्रियापदं न श्रूयते तत्रास्ति भवतीत्यादिकं प्रयुज्यते” इति
न्यायात् ।
Page #15
--------------------------------------------------------------------------
________________
सकळाईत्वोत्रम् । सहगगनाभोगभाखते' चत्वारो वर्णमेदाः-साधुसाध्वीश्रावक श्राविकारूपा यस्य स चतुर्वर्णः, चतुर्वर्णश्चासौ सङ्घश्व चतुर्वर्णसङ्कः, गगनस्य वियतः आभोगः-विस्तारः गगनाभोगः, स एव गगनाभोगः चतुर्वर्णसङ्घगगनाभोगः तत्र भाखान-सूर्यस्तस्मै चतुर्वर्णसागगनामोगमाखते । यथा हि भाखता गगनमण्डलं तमःखोमतिरस्कारपुरस्कार प्रकाश्यते तथा भगवतापि चतुर्वर्णसङ्घ, प्रबलमोहान्धतमसध्वंसपुरःसरं तत्त्वज्ञानप्रकाशालवृतः क्रियत इति ॥९॥
चन्द्रप्रभप्रमोश्चन्द्रमरीचिनिचयोज्ज्वला ।
मूर्तिमूर्तसितध्याननिर्मितेव श्रियेऽस्तु वः॥१०॥ - चन्द्रप्रमेत्यादि। चन्द्रप्रभप्रभोरष्टमतीर्थकृतः 'मूर्तिः' तनुः 'व:' सुष्माकं 'श्रिये' लक्ष्म्यै 'अस्तु' स्थादित्यर्थः । किंलक्षणा मूर्तिः ! 'चन्द्रमरीचिनिचयोज्ज्वला' चन्द्रस्य मरीचय:-कान्तयस्तासां निचयो राशिः तद्वदुज्वला-शशधरकरनिकरघवलेत्यर्थः । 'इव' उत्प्रेक्ष्यते । 'मूर्तसितध्याननिर्मिता' सितं च तत् ध्यानं च सितध्यान-शुक्रध्यानं, मूतं च तत् सितध्यानं च मूर्तसितध्यानं, तेन निर्मिता घटिता मूर्तिमता शुक्लध्यानेन विहिता इव उप्रेक्षायामिति ॥१०॥ . करामलकवद् विश्वं, कलयन् केवलश्रिया ।
अचिन्त्यमाहात्म्यनिधिः, सुविधिर्वाधयेऽस्तु वः ॥११॥
करामलकवादित्यादि । सुविधिर्नवमस्तीर्थपतिः 'व:' युष्माकं बोषये तत्त्वज्ञानाय 'अस्तु' भवतु इत्यन्वयः। किंलक्षणः सुविधिः! 'भचिन्त्यमाहात्म्यनिधि:' अचिन्त्यं माहात्म्यं-महिमा तस्य निविरक्षयसानमित्यर्थः । सुविधिः किं कुर्वन् ! 'कल्यन्' जानन्, किम् ? 'विश्वं सचराचरं जगदित्यर्थः । यद्वा विश्वंसकलं अतीतानागत
Page #16
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृषिसहित वर्तमानविवालिशितं वस्त्विति । कथम् ? 'केवलश्रिया' केवल ज्ञानलक्ष्म्या। किंवत् ? 'करामलकवत् करे खितमामलकं-आमलक्याः फलं तद्वत् , यथा हि करतलगतामलकमाकलयति तथा सकलकालकलाकलापव्यापिपदार्थसाथै भगवान् विमलकेवलालोकलयम्या विलोकत इति । एतावता देशकालखभावविप्रकृष्ट अपि पदार्था भगवतः करामलकवत् प्रतिमासन्त इति भावः ॥ ११ ॥
सत्त्वानां परमानन्दकन्दोद्धेदनवाम्बुदः।
स्थाद्वादामृतनिःस्यन्दी, शीतलः पातु वो जिनः ॥१२॥ .. सत्त्वानामित्यादि । शीतलो जिनः शीतलनामा तीर्थकृत् , 'व:' युष्मान् पातु' रक्षतु, भवाम्बुधौ पतत इत्यध्याहारः । किंलक्षणः शीतलः ? 'परमानन्दकन्दोद्भेदनवाम्बुदः' परमश्चासौ आनन्दश्च परमानन्दः स एव कन्दः तस्योद्भेदस्तत्र नवाम्बुदः, निस्तुषसुखमूलविशेषसंसिद्धिनूतनजलधरः, यद्वा परमानन्दस्य-परमसुखस्य कन्दःकारणं सम्यग्ज्ञानादिः तस्योद्भेदे-प्रकटने नवाम्बुदः-सद्यस्कवारिवाहः इत्यपि समाव्यते । केषाम् ? 'सत्त्वानाम्' प्राणिनाम् । पुनः किंलक्षणः शीतलः ! 'साद्वादामृतनिःस्सन्दी' स्याद्वादः-अनेकान्तवादः स एव मोहमहाविषविनाशकत्वेनामृतमिवामृतं-पीयूषं तस्य निःस्यन्दःसवणं स्याद्वादामृतनिःसन्दः सोऽस्यास्तीति तथा । पुनः किंलक्षणः शीतलः ! 'जिन' केवली ॥१२॥
१ "पदैकदेशे पदसमुदायोपचारादू" इति न्यावात् केवळशब्देन केवलशालमुच्यते। २ करे-हस्ते अमलं-निर्मलं यत् कं-जलं तद्वद, इत्येवमपि बलिद व्याख्यायन्ति । ३ "स्पन्दौर प्रस्रवणे" इति धातुः वादिरात्मनेपरी।
Page #17
--------------------------------------------------------------------------
________________
सकलाईत्स्तोत्रम् । भवरोगाऽऽर्तजन्तूनामगदवारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥१३॥ भवेत्यादि । श्रेयांसः एकादशो जिनः 'वः' युष्माकं श्रेयसे' शिवाय 'अस्तु' स्तादिति सम्बन्धः । जन्मादिक्लेशवैकल्यव्यपोहस्य च तसिद्धौ सिद्धत्वात् । केशविध्वंसपूर्वकत्वादेव श्रेयःसंसिद्धेः सांसारिकश्रेयसः प्रार्थनायाः प्रेक्षावतामनुचितत्वात् । किंलक्षणः श्रेयांसः ? 'अगदकारदर्शनः' अगदारो वैद्यः तद्भूतं रोगहारि वा दर्शनं यस्य स तथा। केषाम् ? 'भवरोगाऽऽर्तजन्तूनां भवः चतुर्गतिकसंसारः स एव कारणे कार्योपचारात् रोगस्तेनार्ताः-पीडिताः तिर्यमरनारकादिदुःखव्याकुला ये जन्तवः-प्राणिनस्तेषां, यद्वा भवस्य रोगाः क्रोधादयस्तत्पीडितजन्तुनामित्यर्थः । यदि वा भवे-चतुर्गतिकरूपे संसारे रोगा ज्वरादयस्तैरात ये जन्तवस्तेषामित्यर्थः । रोगस्य सर्वस्यापि सांसारिकत्वेन जन्यजनकसम्बन्धेन वा आधाराधेयभावसम्बन्धेन वानिरूपणं न दोषायेति मन्तव्यम् । यथा हि वैद्यवरेणाशु चिरन्तना अपि रोगाः प्रणश्यन्त एवं भगवदर्शनमात्रेणापि जन्तूनां भवरोगाः प्रलीयन्त इति हार्दम् । पुनः किंलक्षणः श्रेयांसः? 'निःश्रेयसश्रीरमणः' निःश्रेयसं मोक्षस्तदेव श्रीलक्ष्मीस्तस्या रमण:पतिः सिद्धिलक्ष्मीपतिरित्यर्थः ॥ १३ ॥
विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः ।
सुराऽ-सुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः ॥१४॥ विश्वोपकारकीत्यादि । वासुपूज्यो द्वादशस्तीर्थकरः 'व' युष्मान् ‘पुनातु' पवित्रीकरोतु । किंलक्षणो वासुपूज्यः ?, 'विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः' विश्वस्य -उपकारकं विश्वोफ
Page #18
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं
११
कारकं, अविश्वोपकारकं विश्वोपकारकं भवति स्मेति विश्वोपकारकी - भूतं, तीर्थकृतः कर्म तीर्थकृत्कर्म, तादृशं च तत् तीर्थकृत्कर्म च विश्वोपकारकीभूततीर्थ कृत्कर्म, सकलजगद्वत्सलतीर्थकर नामकर्म तस्य निर्मितिर्निर्माणं यस्य स तथा । पुनः कथम्भूतो वासुपूज्यः 'पूज्यः' पूजनीयः । कैः ? 'सुरासुरनरैः' सुराध असुराश्च नराश्व सुरासुरनरास्तैः । यतः प्रथमविशेषणविशिष्टस्तत एव द्वैतीयीक विशिष्टोऽपि तादृशस्य तत्पूज्यत्वाव्यभिचारादिति ॥ १४ ॥
विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः ॥ १५ ॥ विमलेत्यादि । विमलखामिनस्त्रयोदशतीर्थकृतः 'वाचः ' सरखत्यः 'जयन्ति' सर्वोत्कर्षेण वर्तन्त इति सम्बन्धः । किंलक्षणा वाचः ? 'कतकक्षोदसोदराः ' कतकस्य कतकद्रुमफलस्य क्षोदचूर्णः तस्य सोदरा लक्षणया तुल्या इत्यर्थः । पुनः किंलक्षणा वाचः 2 'त्रिजगच्चेतोजलनैर्मल्यहेतवः' त्रयाणां जगतां समाहारस्त्रिजगत्, तस्य चेतांसि - मनांसि तान्येव जलानि - सलिलानि तेषां नैर्मल्यं अनाविलत्वं, तस्य हेतवः कारणानि । यथा हि कतकचूर्णेन जलं निर्मलीक्रियते एवं भगवद्वाग्भिरपि विश्वत्रितयजनमनांसि विमलीक्रियन्त इति ततौयं तासामतिरमणीयमिति ॥ १५ ॥
स्वयम्भूरमणस्पर्द्धा, करुणारसवारिणा । अनन्तजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥ स्वयम्भूरमणेत्यादि । अनंतजित् चतुर्दशो जिनः 'वः' युष्माकं 'सुखश्रियं' सौख्यसम्पदं 'प्रयच्छतु' ददातु । कथम्भूतं सुखश्रियम् ? 'अनन्त' नास्ति अन्तो विनाशो यस्याः सा तथा तां
Page #19
--------------------------------------------------------------------------
________________
१२
सकलाईत्स्तोत्रम् ।
.
सकलकर्मक्षयप्रादुर्भवामित्यर्थः । कथम्भूतः अनन्तजित् ! 'स्वयम्भू. रमणस्पर्दी' खयम्भूरमणं सकलजलनिधिपर्यन्तवर्तिमहासमुद्रं सर्द्धितुं शीलमस्येति खयम्भूरमणस्पर्धी । केन कृत्वा ? 'करुणारसवारिणा' परदुःखप्रहाणानुकूलचिन्तनं करुणा सैव रसः करुणारसः स एव वारि करुणारसवारि तेन करुणारसवारिणा "रसः खादे जले बीर्ये' इत्यनेकार्थे (हैम. द्विखरकाण्ड श्लो. ५९०) असंख्यातयोजनकोटिकोटिप्रमाणस्य खयम्भूरमणसमुद्रस्य यावान् पानीयराशिस्ततोऽपि भगवतः करुणारसोऽनन्तगुणस्ततस्तेन तत्स्पर्द्धित्वप्रतिपादनं नासमीक्षितकारिताकारणमिति ॥ १६ ॥
कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् ।
चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ १७॥ - कल्पद्रुमेत्यादि । वयं धर्मनाथं पञ्चदशं तीर्थकृतं 'उपास्महे' सेवामहे । कथम्भूतं धर्मनाथम् ? 'कल्पद्रुमसधर्माणं' कल्पद्रुमस्य मुरपादपस्य सधर्मा-सदृशः, कल्पद्रुमसधर्मा तं कल्पद्रुमसधर्माणम् । कुत्र ? 'इष्टप्राप्त?' अमीप्सितार्थावाप्तौ इष्टस्य प्राप्तिर्लब्धिखत्र । केषाम् ! 'शरीरिणां' तनुमताम् । पुनः किंलक्षणं धर्मनाथम् ! 'चतुर्धा धर्मदेष्टार'धर्म दिशति-प्ररूपयतीति धर्मदेष्य तं तथा । कथम् ? चतुर्धेति चतुर्भिः प्रकारैः दानशीलतपोभावनारूपैः दानादिचतुःप्रकारधर्मोपदेशकमित्यर्थः ॥ १७ ॥
सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिधुखः।
मृगलक्ष्मा तमाशान्यै, शान्तिनाथजिनोऽस्तुकः॥१८॥ सुधासोदरेत्यादि । शान्तिनाथजिनः षोडशस्तीर्थपतिः 'वः' युष्माकं 'तमाशान्त्यै' तमसः शान्तिः-शमनं तस्यै :अस्तु' भवतादि
Page #20
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं १३ त्यन्वयः । किंलक्षणः शान्तिः ! 'मृगलक्ष्मा' मृगः-सारङ्गो लक्ष्म लाच्छनं यस्य स तथा । पुनः किरूपः शान्तिनाथजिनः ! 'सुधासो. दरवाज्योत्सानिर्मलीकृतदिङ्मुखः' सुधायाः सोदरा सुधासोदय, सा चासौ वाक् च सुधासोदरवाग, सैव ज्योत्स्ना-कौमुदी सुधासोदरवाग्ज्योत्सा, दिशां मुखानि दिमुखानि, अधवलानि धवलानिक्रियन्ते स इति धवलीकृतानि, सुधासोदरवाग्ज्योत्स्नया धवलीकृतानि प्रकाशितानि दिनुखानि येन स तथा । अत्र च तमाशब्द: मोहान्धकाररूपार्थद्वयेन व्याख्येयस्तथा च मृगलक्ष्मेति शब्दोऽपि श्रीशान्तिनाथविशेषणपीयूषपादपर्यायभावत्वेन च व्याख्येयः, खयमभ्यूह्यमन्यदिति ॥ १८॥ ..
श्रीकुन्थुनाथो भगवान् , सनाथोऽतिशयर्द्धिभिः।
सुरा-ऽसुर-नृनाथानामेकनाथोऽस्तु वः श्रिये ॥१९॥ - श्रीकुन्थुनाथो भगवानित्यादि । श्रीकुन्थुनाथः सप्तदशो भगवान्-जिनो 'व:' युष्माकं 'श्रिये' संपदे 'अस्तु' भवतु । किलक्षणः कुन्थुनाथः ? 'सनाथः' सहितः । कामिः ? 'अतिशयद्धिभिः। अतिशयानां अनन्यसाधारणाद्भुतरूपादीनां अतिशया एव वा ऋद्धयः सम्पदस्ताभिः । पुनः कथम्भूतः कुन्थुनाथः? 'एकनाथः' एक:अद्वितीयो नाथः-खामी एकनाथः, केषाम् ? 'सुरासुरनृनाथानां' सुराश्चासुराश्च नरश्च सुरासुरनरस्तेषां नाथा:-पतयः इन्द्रादयस्तेषां विश्वत्रितयपतिरित्यर्थः ॥ १९ ॥
अरनाथः स भगवाँश्चतुर्थारनभोरविः।
चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥ २० ॥ अरनाथेत्यादि । 'च' समुच्चयार्थः । 'अरनाथः' अरनामा तीर्थ
Page #21
--------------------------------------------------------------------------
________________
१४
सकलाईत्तोत्रम् । कृत् 'व: युष्माकं 'चतुर्थपुरुषार्थश्रीविलास वितनोतु' पुरुषस्वार्थ:प्रयोजनं पुरुषार्थः, चतुर्थश्वासौ पुरुषार्थश्च चतुर्थपुरुषार्थः मोक्षः, स एव मेदोपचारातस्य वा श्रीलक्ष्मीस्तस्या विलासो-भोगस्तं, अन च धर्मार्थकामरूपपुरुषार्थत्रयापेक्षया - मोक्षस्य चतुर्थपुरुषार्थत्वमिति । किंलक्षणोऽरनाथः ! 'चतुर्थारनभोरविः' चतुर्थश्वासावरश्च चतुर्थारः स एव नभो-गगनं तत्र रविः-सूर्यः, यथा रविणा नभः प्रकाश्यतेअलकियते च तथा भगवताऽपि चतुर्थारः प्रकाश्यतेऽलकियते चेति ॥ २० ॥ '- सुरा-ऽसुर-नराधीशमयूरनववारिदम् ।
कर्मदून्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१॥ सुरासुरेत्यादि । वयं मल्लिं एकोनविंशं तीर्थेशं 'अभिष्टुमः' स्तुतिविषयं कुर्मः । किंलक्षणं मल्लिम् ? 'सुरासुरनराधीशमयूरनववारिदं सुरासुरनराणां अधीशाः प्रभवः त एव मयूराः-शिखण्डिनस्तेषां नूतनजलधरम् । पुनः किंविशिष्टं मल्लिम् ? 'कर्मन्मूलने हस्तिमलं'. कर्माण्येव द्रुवः-पादपास्तेषामुन्मूलनं-उत्खेटनं तत्र हस्तिमलं-ऐरावणम् ॥ २१ ॥ - जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । ... मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥
जगदित्यादि । वयं मुनिसुव्रतनाथस्य विंशतितमजिनस्य 'देशनावचन' देशनाया-धर्मोपदेशस्य वचनं-वचः 'स्तुमः' ईड्महे । कथम्भूतं देशनावचनम् ? 'जगन्महामोहनिद्राप्रत्यूषसमयोपमम्' मोहः-अज्ञानं स एव तत्त्वज्ञानाच्छादकत्वेन निदेव निद्रा मोहनिद्रा,
Page #22
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं
१५ महती चासौ मोहनिद्रा च महामोहनिद्रा, जगतां-जगद्वजिनानां महामोहनिद्रा जगन्महामोहनिद्रा, तस्यां प्रत्यूषसमयोपमं प्रत्यूषलक्षणः समयः-कालस्तस्य उपमा-सादृश्यं यस्य तत्तथा प्रातःकालसदृशमित्यर्थः । यथा प्रातःकालेन जगन्निद्रा प्रलीयते एवं भगवदेशनावचनेन महामोहोऽपि विलयमुपयातीति तथा । यथा तेन घटपटादयः पदार्थाः प्राकट्यमभुवते तथा भगवद्वचनेनाऽपि ते तदिअतीति युक्तोयमुपमानोपमेयभावः ॥ २२ ॥.. । लुठन्तो नमतां मूर्भि, निर्मलीकारकारणम् ।
वारिप्लवा इव नमः, पान्तु पादनखांशवः ॥ २३ ॥ . लुठन्तो नमतामित्यादि । नमेरेकविंशप्रभोः पादयोश्चरणयोनखाः-नखराः तेषामंशवः-किरणाः 'वः' युष्मान् 'पान्तु' रक्षन्तु। किं कुर्वन्तः पादनखांशवः ? 'लुठन्तः' पतन्तः । कुत्र ? 'मूर्ध्नि मस्तके । केषाम् ? 'नमतां' प्रणतिभाजां जनानाम् । पुनः किंरूपाः पादनखांशवः ? 'निर्मलीकारकारणं वारिप्लवा इव' अनिर्मलस्य निर्मलस्य करणं निर्मलीकारस्तस्य कारणं-निमित्तं इवोत्प्रेक्षते, वारिप्लवा ईव-पयःप्रवाहा इव तेऽपि मूर्ध्नि पतन्तो नैर्मल्यहेतवो भवन्ति । उत्प्रेक्षणीया अपि प्रणमज्जनमूर्ध्नि निपतन्तः तेषां पावित्र्यकारणं भवन्तीति ॥ २३ ॥ .
यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । ___अरिष्टनेमिभेगवान्, भृयाद् वोरिष्टनाशनम् ॥२४॥
यदुवंशेत्यादि । अरिष्टनेमिभगवान् द्वाविंशस्तीर्थेशः '' युष्माकं अरिष्टनाशनो भूयात्-भवतादिति । अरिष्टं-अशुभं नाश
Page #23
--------------------------------------------------------------------------
________________
सकलाहत्तोत्रम् । यति-नाशं नयतीति तथा । कथम्मूतः अरिष्टनेमिः ! 'बदुवंशसमु. देन्दुः यदूनां वंशोऽन्वयः स एव महत्त्वेन नानापुरुषरशसंश्रयत्वेन च समुद्रः सागरस्तत्र इन्दुश्चन्द्रः । यथा हि कविसमये विधुः समुद्रे समुत्पन्नः, एवं भगवान् यदुवंश इति । पुनः किरूपः अरिष्टनेमिः ? 'कर्मकक्षहुताशनः' कर्माणि-ज्ञानावरणादीनि तान्येक कक्ष-शुष्कवनं तत्र हुताशनः कृशानुः ॥ २४ ॥
कमठे धरणेन्द्रे च, खोचितं कर्म कुर्वति ।
प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥२५॥ कमठेत्यादि । पार्श्वनाथस्त्रयोविंशस्तीर्थनाथः वः' युष्माकं 'श्रिये' संपदे 'अस्तु' भवतु । कथम्भूतः पार्श्वनाथः ? 'प्रभु' समर्थः खामीति यावत् । पुनः कथम्भूतः पार्श्वनाथः ? 'तुल्यमनोवृत्तिः' मनसश्चित्तस्य वृत्तिर्वर्तनं-व्यापारः मनोवृत्तिः, तुल्या-सदृशी मनोवृत्तियस्य स तथा रागद्वेषानाश्लिष्टचित्तवृत्तिरित्यर्थः । कमिन् ! 'कमठे' मगवतः प्रतिकूले दैत्यविशेषे । 'च' पुनः कमिन् ? 'धरणेन्द्रे' खामिनः परममक्ते नागराजे । किं कुर्वति कमठे ? कुर्वति । किं : कर्मरजःपुंजोडापनाचनेकपकारदारुणोपसर्गसर्गम् । कथम्भूतं कर्म: 'खोचितं' खस्योचितं-योग्यं तथाविधाधमस्य तथाविधस्यैव कर्मण उचितत्वात् । धरणेन्द्रे च किं कुर्वति? कुर्वति वितन्वति । किं ? कर्म, तथाविधोपसर्गसौत्सारणनिसर्गम् । किंलक्षणं कर्म : खोचितं, तथाविधानां महतां तथाविधस्यैव कर्मण उचितत्वादिति कोऽर्थः । प्रतिकूलोचितकर्मकर्तरि कमठे, अनुकूलोचितकर्मकर्तरि व
Page #24
--------------------------------------------------------------------------
________________
अर्थप्रकाशवृत्तिसहितं धरणेन्द्रे, भगवान् सदृशमनोव्यापारः, न च दुष्टे-द्वेषी, न च रक्तरागीत्याशयः ॥ २५ ॥ - अथ साम्प्रतं छद्मस्थावस्थायां भारतभूतलं पावयन् घोराणि
दुस्तपस्तपांसि प्रकुर्वाणः अपरिमितबलस्पर्द्धयेवानन्तक्षमयाऽलङ्कत'श्चतुर्विशस्तीर्थकरः श्रीमन्महावीरखामी खध्यानतः सकलसुरासुरपटलेनापि केशकोटिमात्रमपि चालयितुं न शक्यत इति सौधर्माधिपतिना निखिलानिमिषपर्षत्समक्षं भगवतः सद्भूतगुणगणं व्यावीमानमाकर्ण्य सकलसुराधमः संगमकः, कृताभ्यसूयोऽश्रद्दधानः वासववाग्विलासवैतथ्यं चिकीर्षुर्भुवस्तलमुपागतः प्रभोश्च तत्र शूल्यादिकाल. चक्रान्तोपसर्गचक्रवालं कृतवान् , भगवन्तं चावधिना निःप्रकम्पगूढपथं ज्ञातवानथ व्यर्थप्रयासोऽशक्तः खिन्नः पुनर्व्याघुट्य खस्थानं यियासुः । वच्चह हिण्डह न करेमीति भगवन्तमुक्त्वा गन्तुमुपक्रममाणः, सोऽपि कृतापराधः सुराधमः अहह का गति विन्यस्य तपखिनः इति कृपारससरसचेतसा भगवता किंचिद्वाष्पार्द्रनयनेन यदा दृपथमवतारितस्तत्समयावच्छिन्नस्वरूपमाश्रित्य भगवतः स्तुतिमाह श्रीहेमचंद्रकर्ता
कृतापराधेऽपि जने, कृपामन्थरतारयोः।
ईषद्धाप्पार्द्रयोभद्रं, श्रीवीरजिननेत्रयोः ॥ २६ ॥ कृतापराधेपि जने इत्यादि । वीरश्चासौ जिनश्च वीरजिनः श्रिया युक्तो वीरजिनः श्रीवीरजिनः, तस्य नेत्रे-नयने तयोर्भद्रं कल्याणं भवतु । कथम्भूतयोः श्रीवीरजिननेत्रयोः ? 'कृपामन्थरतारयोः' कृपया-करुणया मन्थरे-स्तिमिते तारे-कनीनिके ययोस्ते
सक. २
Page #25
--------------------------------------------------------------------------
________________
. सकलाईत्स्तोत्रम् । तथा तयोः । पुनः कथम्भूतयोः? ईषद्बाप्पाईयोः ईषत् अल्पं बाष्पमश्रुजलं तेन आद्रे-सरसे स्निग्धे इति यावत् ईषद्वाष्पाट्टै तयोः । एवं कुत्र! 'जने' लोके । कथम्भूते ! 'कृतापराधेऽपि' कृतो विहितोऽपराधो मन्तुर्येन स तथा तस्मिन् , विहितापराधेऽपि जने दयया निश्चलतारयोः किंचिदश्रुजलेनायोः । श्रीवीरजिननेत्रयोर्भद्रं मङ्गलं भवतु इत्यर्थः ॥ २६ ॥
इति गुणविजयः श्रीहेमचन्द्रप्रभूणां
सुखमकृतकृतेरल्पासमर्थप्रकाशे । यदिह किमपि क्लुप्तं शुद्धबुद्धिप्रबुद्धे
रनुमतमनसूयैस्तत्प्रमाणप्रसिद्धम् ॥१॥ ॥ इति कलिकालसर्वज्ञविरुदधारकश्रीहेमचन्द्रसूरिविरचितचतुर्विंशतिश्रीजिननमस्काराणां अर्थप्रकाशः समाप्तः ॥
Page #26
--------------------------------------------------------------------------
_