SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ आत्म-कमल-लब्धिसूरीश्वरेभ्यो नमः | कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं सकलाईत्स्तोत्रम् | श्रीगुणविजयविरचिताऽर्थप्रकाशवृच्या समलङ्कृतम् । प्रणम्य गुरुपादाब्जं संदृब्धान् हेमसूरिभिः । तीर्थनाथस्तुतिलोकान् विवृणोमि यथामति ॥ १ ॥ श्रीमानकब्बरनृपः पटहं दयायाः सर्वत्र वादयति यस्य गिरं निपीय । सूरीशहीरविजयाय सूरिसिंहः सुश्रीरयं जयति सुप्रथितावदातः ॥ २ ॥ सकलाईत्प्रतिष्ठानमधिष्ठानं शिवश्रियः । भूर्भुवःस्वत्रयीशानमार्हन्त्यं प्रणिदध्महे ॥ १ ॥ सकलाईत्प्रतिष्ठानमित्यादि । वयं आर्हन्त्यं - अर्हत्वरूपं अर्हच्छब्दप्रवृत्तिनिमित्तं 'प्रणिदध्महे' प्रणिधानविषयी कुर्महे - ध्यायाम इत्यर्थः । किंविशिष्टमाईन्त्यम् ! 'सकळाईत्प्रतिष्ठानं' सकलाभ ते अर्हन्तश्च सकळार्हन्तः, सकलार्हन्तः प्रतिष्ठानं आधारो मत्व ततथा । सकलार्हत्सु धर्मिषु तद्धर्मत्वेन वर्तमानमित्यर्थः । पुनः किंविशिष्टमार्हन्त्यम् ? 'अधिष्ठानं' अधिकरणम्, कस्साः 'शिवश्रियः' शिवा - निरुपद्रवा या श्रीश्चतुस्त्रिंशदतिशयरूपा सम्पत् तस्याः । यद्वा शिवस्य - मोक्षस्य श्रीः तत्प्राप्तिहेतुत्वेन तत्सम्बन्धिनी ज्ञानादिरूपा ऋद्धिः तस्याः । यद्वा शिवस्य- कल्याणस्य तत्कारणत्वेन
SR No.007262
Book TitleSaklarhat Stotram
Original Sutra AuthorN/A
AuthorNemvijay
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy