SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अर्थप्रकाशवृत्तिसहितं धरणेन्द्रे, भगवान् सदृशमनोव्यापारः, न च दुष्टे-द्वेषी, न च रक्तरागीत्याशयः ॥ २५ ॥ - अथ साम्प्रतं छद्मस्थावस्थायां भारतभूतलं पावयन् घोराणि दुस्तपस्तपांसि प्रकुर्वाणः अपरिमितबलस्पर्द्धयेवानन्तक्षमयाऽलङ्कत'श्चतुर्विशस्तीर्थकरः श्रीमन्महावीरखामी खध्यानतः सकलसुरासुरपटलेनापि केशकोटिमात्रमपि चालयितुं न शक्यत इति सौधर्माधिपतिना निखिलानिमिषपर्षत्समक्षं भगवतः सद्भूतगुणगणं व्यावीमानमाकर्ण्य सकलसुराधमः संगमकः, कृताभ्यसूयोऽश्रद्दधानः वासववाग्विलासवैतथ्यं चिकीर्षुर्भुवस्तलमुपागतः प्रभोश्च तत्र शूल्यादिकाल. चक्रान्तोपसर्गचक्रवालं कृतवान् , भगवन्तं चावधिना निःप्रकम्पगूढपथं ज्ञातवानथ व्यर्थप्रयासोऽशक्तः खिन्नः पुनर्व्याघुट्य खस्थानं यियासुः । वच्चह हिण्डह न करेमीति भगवन्तमुक्त्वा गन्तुमुपक्रममाणः, सोऽपि कृतापराधः सुराधमः अहह का गति विन्यस्य तपखिनः इति कृपारससरसचेतसा भगवता किंचिद्वाष्पार्द्रनयनेन यदा दृपथमवतारितस्तत्समयावच्छिन्नस्वरूपमाश्रित्य भगवतः स्तुतिमाह श्रीहेमचंद्रकर्ता कृतापराधेऽपि जने, कृपामन्थरतारयोः। ईषद्धाप्पार्द्रयोभद्रं, श्रीवीरजिननेत्रयोः ॥ २६ ॥ कृतापराधेपि जने इत्यादि । वीरश्चासौ जिनश्च वीरजिनः श्रिया युक्तो वीरजिनः श्रीवीरजिनः, तस्य नेत्रे-नयने तयोर्भद्रं कल्याणं भवतु । कथम्भूतयोः श्रीवीरजिननेत्रयोः ? 'कृपामन्थरतारयोः' कृपया-करुणया मन्थरे-स्तिमिते तारे-कनीनिके ययोस्ते सक. २
SR No.007262
Book TitleSaklarhat Stotram
Original Sutra AuthorN/A
AuthorNemvijay
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy