Page #1
--------------------------------------------------------------------------
________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
साम्प्रतिक-विज्ञानस्य परिप्रेक्ष्ये
__ जैन-भू-गोल-विज्ञानम्
:
..........
-
-
....
स्व. मुनि अभयसागरो गणों साम्प्रतिकं विज्ञानम्
यद्यपि विज्ञानं नाम प्राचीनात् कालात् प्रवर्तमानं सदैव साम्प्रतं यावदुपागतं विद्यते तदेव च परस्तादपि प्रवय॑ते किन्तु मानवानां मेधा-महिम्ना काले काले किमपि किमपि नूत्न-नूत्नं रूपं बिभ्रदिदं साम्प्रतिकमिति निगद्यते तत्तत्काल-जनितैः । संसृतेः परिवर्तिनि चक्रेऽराणामिवोधिोभावं भजतां मानवानां स्थितिकाले यथा यथा ह्रास-विकासा भवन्ति ते तदानीन्तनः प्रवर्तितं परिष्कृतं परिबृहितञ्च विज्ञानमिति घोष्यते । अधुनातना वैज्ञानिका अपि पूर्वेषां वैज्ञानिकानां विचारानाविष्कारांश्च समवाप्य स्व-स्वबुद्धिबलोदयेन कांश्चिदभिनवान् प्रयोगान् विधायाज्ञातान् विषय-विशेषान् प्रकाश्य साम्प्रतिक विज्ञानं साधितवन्तः।
साम्प्रतिकं भारतीय विज्ञानं वैदेशिकैरतुसन्धातृभिरभिभूतं विद्यते, यतो हि भूयसा कालेनात्र वैदेश्या एव शासनमकुर्वन् । तैः शासनेन सहैवेदमपि साधितं यद् भारतीयानां मानसं भारतीयमहर्षीणां योग-प्रज्ञासम्पन्नानां विचारेषु श्रद्धां विसृज्य पाश्चात्येषु श्रद्धधाना भवेयुः । दैवदुविकेन तेषां कूटमिदं फलितम् । ऋजुधियो भारतीयाः प्रत्यक्षं विद्यमानानि चित्रैः प्रतीयमानानि पुस्तकः पाठ्यमानानि चित्रविचित्राण्युपकरणानि तथा जागतिक-सुखोपभोगसाधनानि चमत्कारकारीणि चाकचक्य सम्पादकानि यन्त्रादीनि विलोक्य भृशं तदधीना एव समपद्यन्त । इदमपि तत्रैकं कूटं तैरक्रियत यद् यान्यस्माकं विज्ञानमयानि शास्त्राणि हस्तलिखितान्यवर्तन्त तान्यपि पारे समुद्रं स्वदेशेषु प्रहितानि विनाशितानि वा।
'बीजं कदापि न विनश्यति'-इत्येषा लोक-भणितिः सत्यवास्ति, अत एवाद्यापि भारते तादृशा विज्ञानविद उत्पन्नाः सन्ति यैर्न केवलं वैदेश्यानां विज्ञानवादप्रसिद्धाः केचन सिद्धान्ता एव विफलाः साधिता अपि तु प्राक्तनाचार्याणां मान्याः सिद्धान्ता अपि ससम्मानं प्रमाणिताः । एवं सत्यपि प्रचारप्रसारबलैरखिलमपि वास्तविक विज्ञानं प्रति धूमाकुलितनेत्रमिव विधातुं प्रयतमाना विज्ञानवादिनो मिथ्याऽऽग्रहग्रहिलाः कौतुकं प्रकटय्य वयं वयमिति घोषयन्ति । प्राचीनाः केवलं कल्पनालोके विचरन्तः साधनरहिता आसन् वयं च साधन-सम्पन्ना विविधयन्त्रोपकरणादिधर्तारः प्रत्यक्षं दर्शयितारः प्रामाणिका भवाम इत्युदीरयन्ति सडिण्डिमघोषम् । आत्मसाधनरता लोकोपकारपरायणा आस्तिका मनीषिणश्च तान् प्रत्युपेक्षावन्तः सन्तो न किमपि गदन्ति चिकीर्षन्ति च। परं सोऽयं सांस्कृतिको-विप्लवः कामं यथेष्टं १५० | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
www.jair
Page #2
--------------------------------------------------------------------------
________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
प्रसरिष्यति तदाऽस्माकं पूर्वजानां वैचारिको विधिरेव शोषं यास्यति । तेषां तपोभिरुप्तानि बीजानि पादपत्वं सम्प्राप्य पल्लवितानि पुष्पितानि फलितानि मूलादेव नङ क्ष्यन्ति तैश्च शोधं शोधं बहुधा परीक्षं परीक्षञ्च निर्णीताः लौकिक-पारलौकिक - जीवनसाधकाः सिद्धान्ता एव भङक्ष्यन्ति निर्लोभं नवनीतत्वेन निरूपिता उपासनाऽर्च्चनाऽऽच रणरूपा आर्या दृष्टयोऽपि मुद्रिता भविष्यन्ति । को नामं देवेषु धर्मेषु धर्मग्रन्थेषु धर्माचार्येषु च विश्वसिष्यति ? कश्चात्मकल्याणं लोककल्याणं राष्ट्रकल्याणं प्रति चाग्रे वर्धितुमभिलषिष्यति ?
अत एव महाकवेः कालिदासस्योद्घोषमिमं -
“सन्तः परीक्ष्यान्यतरद् भजन्ते । मूढः सदा परप्रत्ययबुद्धिः " सावधानतया श्रुत्वा सचिन्तं मीमांसाया अस्त्ययमवसरप्रसर इति सुनिश्चितम् ।
जैन - भूगोल खगोलादि- विज्ञानम् जैन आचार्या आदिकालादेवागमेषु श्रद्धधाना अवर्तन्त वर्तन्ते च । जिनोदिता वागेव तेभ्यः सर्वस्वम् । आगमेषु विज्ञानं शास्त्ररूपेण मुखरीभूतम्, न तु शिल्परूपेण । यतो हि विज्ञानशब्दस्य कोशकारा 'विज्ञानं शिल्प - शास्त्रयो' रित्यर्थद्वय सूचयन्ति । शास्त्रं नामानुशासनमभिशंसनञ्च । तत्रापि शास्त्रमनुशासनरूपेणैव तैः स्वीकृतम् । अत एव ते पूर्वाचार्या जानन्तोऽपि यन्त्राद्युपकरण- प्रतारणे नायाताः । ते यन्त्रादिविषयेऽज्ञा आसन्निति कथनं सर्वथाऽसत् । यतस्तदानीन्तनेषु प्रासङ्गिकेषु वर्णनेषु भूयांसि ताह शि वर्णनानि विद्यन्ते यान्यधीत्य जानीमो यदाधुनिका वैज्ञानिकास्तु तस्मिन् विषये गृहीतपल्लवा एव सन्तीति । अत्रेदमेकमन्यदपि सुविचारितं तथ्यं विद्यते यत् पूर्वाचार्यास्तपोनिरताः सन्तोऽपि लोकस्थितिगति प्रथितीनां मीमांसने धर्माधियैव प्रवृत्ता आसन्, नासीत् तेषां तत्र कोऽपि स्वार्थ-विशेषो न वाऽऽत्मख्यापनेऽप्यभूत् तेषां रुचिर्मतिर्वा । धार्मिक चर्यासु पदार्थचिन्तनं । लोक चिन्तनं वेत्यपि निद्दिष्टवन्त एकामावश्यकी चर्याम् । तस्मादेवागमेषु ज्योतिश्चक्र-जम्बूद्वीपादीनां विशिष्टानि वर्णनानि भगवता विहितानि । ते हि पूर्वे महर्षय आसन योगप्रज्ञा ऋतम्भराप्रज्ञाः करतलामलकवच्च सकलमपि ब्रह्माण्डं ज्ञातुं समर्थाश्चाभवन् । निःस्वार्थ भावेन प्रकाशितं ज्ञानमेव लोककल्याणाय भवति । मनागपि मालिन्ये मनसि सति तस्योद्घाटनं भवत्येव किञ्च तत्र श्रद्धा ह्रासोऽपि जायत एवेति सुविदितचरमेव विपश्चिदपश्चिमानाम् ।
जैन - परम्परायां भूगोल - खगोलादि विज्ञानस्याध्यात्मिकं महत्त्वं राराजते । जैनशास्त्राधारेणेदं स्पष्टं भवति वद्यस्मिंल्लोके मानव उत्पन्नस्तस्य स्वरूपादि - परिज्ञानात् स विचारयितुं प्रवर्तते यदस्या भुवः प्रत्येकं प्रदेशे ममानन्तवारं जन्मानि मरणानि चाभवन् । तथाच
सो को वि णत्थि देसो लोयालोयस्स निरवसेसस्स । जत्थ णं सव्वो जीवो जातो मरिदो य बहुवारं ॥
एवं सञ्चिन्त्य तस्मात् पुनः पुनर्जनन-मरणचक्राच्च मुक्तये जागरूको भवति । भोगभूमि - कर्मभूमि- म्लेच्छभूमि- नरकभूम्यादि-विषये तासां स्वरूपाणि विज्ञाय साधकः पुण्यपापानां सुफल - दुष्फलादिभिः सहजं परिचितो भूत्वाऽसत् कर्मभ्यो निवर्तनञ्च कामयते । स्वस्य निरापदं गन्तव्यं निर्धारणाय प्रसज्जते । यदि नाम समस्तस्य लोकस्य तथा पृथ्व्यां स्थितस्य जम्बूद्वीपादिकस्य निरूपणं शास्त्रेषु नाभविष्यत् तदा जीवः स्व-स्वरूप परिज्ञानादपरिचित एवास्थास्यत् । किञ्च तस्यां स्थिती, 'आत्मज्ञानं प्रति श्रद्धान- ज्ञानादीनां सम्भावना अपि विलोपं प्राप्स्यन् । अतः पूर्वाचार्यैरिदं साग्रहं समुपदिष्टं यत् --
जैन - भू-गोल - विज्ञानम् : स्व० मुनि अभयसागरो गणी | १५१
www.jain
Page #3
--------------------------------------------------------------------------
________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
"द्वीप-समुद्र-पर्वत-क्षेत्र-सरित्प्रभृतिविशेषः सम्यक् सकल-नगमादिनयेन ज्योतिषा प्रवचन मूलसूत्रैर्जन्यमानेन कथमपि भावविद्भिः सद्भिः स्वयं पूर्वापर-शास्त्रार्थ पर्यालोचनेन प्रवचनपदार्थविदुपासनेन चाभियोगादिविशेष विशेषेण वा प्रपञ्चेन परिवेद्य (त० सू. ३/४० तमस्य श्लोकवार्तिके) इति ।"
वस्तुत आन्तरिक्याः सत्ताया ज्ञानेन सह बाह्यसत्ताया ज्ञानमप्यावश्यकं मन्यते । नैतावदेव जैनपरम्परायां सकलमपि सृष्टि विज्ञानं धर्मचर्चारूपेण मान्यं विद्यते यतस्तत् सर्वज्ञस्य जिनेश्वरस्य तपः साधनया प्ररूपितं वर्तते । अथच मोक्षस्य प्रमूखसाधनत्वेन निरूपितस्य ध्यानस्य 'धर्मध्यानांभिधे' भेदे लोकस्य स्वभावाकारयोस्तथा तस्मिनस्थितानां विविधद्वीपानां क्षेत्राणां समद्राणां स्वरूपचिन्तने मनोयोगः संस्थान-विचयाख्यं धर्मध्यानं भवति । तत्रादि हैमयोगशास्त्रानुसारं (७/१०-१२) पिण्डस्थे धर्मध्याने याः पार्थिव्याद्या धारणा भवन्ति तासु पार्थिव्यां धारणायां जम्बूद्वीपस्य चिन्तनं प्रशस्तं मन्यते । अत एवाचाराङ्गसूत्रे
"विदित्ता लोगं वंता लोगसण्णं से मइमं परक्कमज्जासि ।" इति कथयित्वा-लोकविषयक ज्ञानानन्तरमेव विषयासक्तेस्त्यामे पराक्रमकरणं निर्दिष्टमस्ति । किञ्च चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-जम्बूद्वीप प्रज्ञप्तिप्रभृति ग्रन्थानामध्येतारः श्रोतारश्चापि मोक्षगामिनो भवन्तीत्यपि मनीषिभिराचार्यैः प्रतिपादितम् ।
जैनविज्ञानविदामाचार्याणां सिद्धान्ताः सनातनसत्यतां प्राप्ताः सम्पूर्णाश्च सन्ति । तीर्थङ्करपरमात्मभिस्ते केवलज्ञानात् प्रत्यक्षीकृता आसन्नतस्तेषां प्रयोगशालासु परीक्षणं नावश्यकमस्ति । ते तु सर्वकाल सिद्धा एव विद्यन्ते । यथा भूगोलशास्त्रं तैरुद्घाटितं तथैव खगोलशास्त्रमपि तैः समुद्घाटितं वर्तते । भारतीय खगोलशास्त्रेषु निर्दिष्टा नक्षत्र-ग्रह-तारादयः पदार्था अपि तावतैव सूक्ष्मेण विधिना गति-स्थिति-प्रकृतिदूरत्व-व्यास-स्थूल-सूक्ष्माद्याकार-प्रकारैश्चिरं परिचायिता अवलोक्यन्ते । अधुनातना यावद्भिरुपकरणैर्यत्किञ्चिदपि विज्ञातवन्तस्ततस्तु पर्याप्तमधिकं तैः स्पष्टीकृतमभूत् । अत एवेदं निगदित् वयं शक्नुमो यद् यत्र यत्र विषये वस्तुनि वा साम्प्रतिका वैज्ञानिका वैषम्यं दर्शयन्ति तस्मिन् वास्तविकं वैषम्यं न विद्यते परमेतेषां तावत्या व्यापकदृष्टेरभावोऽपूर्णताकदाग्रह-रूढग्रन्थिबन्धनादीन्येव तारतम्येन तत्र परिस्फुरन्तीति ।
वस्तुतो जैनदर्शने तर्कपूर्णसङ ख्यावद्ध-परिज्ञान-परम्परा तथा सत्यशोधन-भावना सत्यज्ञानमनुसरन्त्यो लक्ष्येते । जैना आचार्याः शून्यस्यानन्तस्य च गणितेन सह तत्त्वज्ञानं सयोज्य शास्त्रीयतां प्रत्याग्रह प्राचीकटन् । इति ॥ साम्प्रतिक-भगोल-विज्ञाने विप्रतिपत्तयः
आधुनिका विज्ञानविदो यथाऽस्माकं शास्त्रीय विज्ञानं पूर्णतयाऽनवगत्य तस्मिन् दोषानुद्भावयन्ति तथैव वयमपि यदि तेषां वैज्ञानिक तथ्यमपरिशील्य किमपि कथयामस्तदा तु तत् कैवलं 'विरोधाय विरोध' इत्येव साधितं स्याद अथवा शास्त्राणि प्रति श्रद्धावद्धया धिया तदीयानि सत्यान्यनङ्गीकर्मस्तदापि तत्रैकान्तिको विरोधः प्रतीयेत । परं यदा वयं तेषां वैज्ञानिकान् सिद्धान्तान् परिशील्य किमपि कथयामस्तेषां नाम्ना स्वीयान् वादान् प्रस्थापयितु वाञ्छतां विचारान् विरुणमस्तदा स विरोधस्तेषां पुनर्विचाराय पुनः परीक्षणायात्मनिरीक्षणाय सम्पूर्ण-सत्यज्ञानाभावोत्थ भावनानां परिष्करणाय भवतीति तत्र न कोऽपि विरोधः प्रत्युत मीमांसा-प्रक्रियैव जागर्तीति विज्ञेयम् ।
इत्थम्भूतायां मीमांसा-प्रक्रियायां-भूगोल-विज्ञानाधारणताः विप्रतिपत्तयः पुरस्तादागच्छन्ति । १५२ ! चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
Thirth
www.jainelip
Page #4
--------------------------------------------------------------------------
________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
पृथिव्या आकृति विषये
पृथिव्या आकार - विषये कथयन्ति यत्, "पृथिवी गोलाकारा वर्तते" तदिदं प्रयोग परीक्षण - सिद्धं तत्त्वमिति । किन्तु वस्तुत इदं नास्ति सत्यम् । यतो हि यैः प्रमाणविज्ञानवादिन इदं साधयन्ति तेष्वेवानेका विप्रतिपत्तय उपस्थिताः सन्ति । यथा
१. जलपोत प्रमाण- साधनायाम्
यदा दूरादागच्छन्त जलपोतं केवलाभ्यां नेत्राभ्यां पश्यामस्तदा तस्योपरितनो भाग एव हग्पथातिथिर्भवति, यदा च स निकटमायाति तदैव पूर्णो दृष्टिगोचरे भवति तत्र कारणं पृथिव्या गोल आकार एवेति । किन्त्विदं कथनं तदाऽसत्यं सिद्ध्यति यदा दूरवीक्षणयन्त्राधरेण स ईक्ष्यते । तदा तु तस्य पूर्णोऽप्याकारः परिलक्ष्यत एव ।
२. दीपस्तम्भ प्रमाण-विधाने
अमरीकास्थस्य 'हेटेरास' संस्थानस्य दीपस्तम्भे २० विंशति कोशदूरस्थोऽस्ति । यथा जलपोतस्थ दूरवर्तिन्युपरिभागदर्शने विज्ञानविदनुमतोभुवो वृत्ताकारस्तैर्व्यवधानत्वेन स्वीक्रियते तथा सति स दीपस्तम्भेSतिदूरस्थोऽपि कस्मातु स्पष्टः परिलक्ष्यते ? वैज्ञानिकानां मान्यतानुसारं २० कोश - प्रमाणान्तरे पृथिव्या वक्रता ६०० फुट मिता भवति दीपस्तम्भश्च ३०० फुट मित उच्चैर्वेर्तते तथापि स सम्पूर्णः परिदृश्यतेऽतो नास्ति गोलाकारता भूमेरिति ।
३. वंशत्रय - स्थापना - प्रमाण-परीक्षायाम् यदा समुद्रस्य तले त्रयो वंशा एकैकमीलमितेनान्तरेण स्थाप्यन्ने तदा मध्यो वंश उच्चस्तथाssद्यान्त्यौ निम्नौ दृश्यन्ते । अतः पृथ्वी वृत्ताकारं विभर्तीति तेषां मान्यता । किन्तु प्रयोगोऽयं कल्पना घटित एव । न केनापि तथा परीक्षितं न च तथा करणं सम्भवमपि ।
४. क्षितिजस्य गोलाकारता-साधिकायाम् पृथिवीं गोलाकारां मन्यमाना भूमेः समतले विशाले भागे स्थितवतो दर्शने भुवो गगनस्य संयोजनमिव प्रतीयते ततः पृथिवी गोलाकाराऽस्तीति साधयन्ति, किन्तु तन्न तथा । तत्र तु दृष्टिभ्रम एष कारणम् । चक्षुषोविशिष्ट रचनया तथा प्रतीयते । अस्माकं नेत्रे प्रत्येकं वस्तुना सह ४५% अक्षांशात्मकं कोणं विदधतः । परितस्तथा कोणविधानाद् गोलाकारो दृश्यत इति ।
५. भुत्रः परिक्रमणे मूलस्थानागमन प्रतिष्ठापने अयमेकस्तर्क उपस्थाप्यते गोलाकारत्व प्रमाणाय वैज्ञानिकैर्यन् पृथिव्या एकस्माद् भागाद् यात्रायां प्रचलितो यात्री परिक्रम्य पुनः स्वकीये मुलस्थान आयाति तस्य कारणं गोलाकारतैव । परमिदं कथनं नास्ति प्रमाणसिद्धम् । यतो यात्रिणो दिक्सूचन प्राप्त्यै ध्र ुवयन्त्रं सूर्यं तारा वा प्रमाणरूपेण मत्वा यात्राः कुर्वन्ति । एतेषामाधारेण बहुधा दिग्भ्रमा अपि भवन्ति । वर्तुलाकारेण विहिता यात्रा अप्यत एव प्रत्यग् यात्रा एव मन्यत्से ।
Part fr भूयांसि प्रमाणानि तैरुपस्थापितानि विचारेण परीक्षणेन च मिथ्या सिद्ध्यन्ति किञ्च - प्रतिप्रमाणैरपि वयं गोलाकारत्वविषये निद्दिष्टानि तेषां प्रमाणानि निरर्थकानि साधयामः । यथा
१. हिमालयादधो वहन्तीनां नदीनां दक्षिणां दिशि प्रवाहाः । २. सूर्यग्रहणस्य युगपत् समकालममरीकै शियाभूभागयोर्दर्शनम् । ३. स्वेजकुल्याया गोलाकार - मान्यता- विरहितं निर्माणम् । ४. जलस्य सर्वतो दिक्षु समानावस्थितिः । ५. विषुववृत्त रेखाधारेणोत्तरध्र ुवोपरि गत्वोत्तरामरीकायां प्रविश्य पुन
जैन - भू-गोल - विज्ञानम् : स्व० मुनि अभयसागरो गणी | १५३
www.]
Page #5
--------------------------------------------------------------------------
________________
.........
.
.............
..........
.
.......................
..
...
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ ।
मात्रसाण पूणतावि
दक्षिणामरीकातो दक्षिणध्र वस्पर्शपूर्वकं विषुवृत्तरेखायां गमनम् । ६. पूर्व-पश्चिम-भागयोरेव साहसयात्राः। ७. केप्टन-जे० रासमहोदयस्य यात्रावृत्तम् । ८. दि इण्टरनेशनल सर्वे कम्पनी प्रतिवेदम् । ६. केप्टिन मीले, प्रभृतीनां यात्रायां ध्र वतारकदर्शनम् । १०. उत्तरदक्षिणध्र वक्षेत्रोदिनानां रात्रीणां च साम्याभावः । ११. धर्म पुरोहित-फादर जोन्सस्य यात्रा चेन्यादीनि वर्णनानि पदे-पदे वर्तमान वैज्ञानिक सम्मतस्य पृथ्व्या गोलकारता-सिद्धान्तस्य तथ्यराहित्य प्रकटने समर्थानि विद्यन्ते । पृथिव्या गतिविषये
साम्प्रतं यन्त्रवादस्य महिम्ना मानवस्य सकलं जीवनमपि यन्त्रवदेव गतिशीलत्वं विशिष्यानुभवति किन्तु सहैव जडत्वेन तथा मण्डलाकारेण भ्रमण-क्रियात्वेन लक्ष्यहीनत्वमपि वर्धत इति नितान्तं चिन्तावहम् । विज्ञाननाम्ना विज्ञानवादं प्रचारयन्तः केचन वैज्ञानिक-मान्याः सम्प्रति कल्पनाप्रचुराणि रहितान्य स्थिराणि वैज्ञानिकसत्यानीति ख्यापयन्तश्च रहस्यानीव प्रकाशयन्तेतमाम्। यथा ते प्रतिपादयन्ति यत् 'पृथ्वी गोलाकारा विद्यते' किञ्च तथाविधं प्रमाणयितु नानाविधान्यतथ्यान्यति तर प्रयतन्ते तथैव 'पृथ्वी परिभ्रमति सूर्यश्च स्थिरोऽस्ति' सोऽयं वादोऽपि भूयसा घटाटोपेन प्रचारितः प्रसारितश्च प्रतीयते । भारतीयाः शास्त्रकारास्तु तथा न मन्वते तेषां तु निश्चितं मतमस्ति यत् पृथिवी स्थिरां विद्यते सूर्यश्च भ्रमतीति ।
आधुनिका वैज्ञानिकाः पृथिव्या भ्रमणं तिसृभिर्गतिभिर्भवतीति दर्शयितु-१. पृथिव्याः प्रथमां गति धूस्संज्ञस्वीयाक्षोपरितनी गति, २. सूर्यमभितो वतिनी गति तथा ३. सूर्येण सहवर्तिनी गति च सूचयन्ति । एतासां गतीनां सम्यक् समन्वयं संसाध्य पृथिवी गतिमती भवतीति तेषां सिद्धान्तः । एतदेव न, अपितु सिद्धान्तस्यास्य पूर्तये-१. दैनिक-२. वार्षिक-३. केन्द्रीय गतीनां व्यवस्था-विधानेन सहैव नानाविधा उच्चावचा निर्धारणा अपि कृताः । सर्वामु गतिष्वपि परस्परं वैमत्यवारणाय गतीनामपि शीघ्रत्वं श्लथत्वं परीतत्वं विपरीतत्वं वा निर्धार्य स्वेष्टं साधितम्।
ततोऽप्यग्रे सूर्यस्य प्रदक्षिणायै पृथिवी तदीयेन गुरुत्वाकर्षणेनाकृष्टा भवतीत्यपि कल्पितम् । तेनापि यदा स्वेष्ट-सिद्धान्त साधनायां बाधा उपस्थितास्तदा 'वातावरणमपि पृथिव्या समं भ्रमती' ति युक्तिः प्ररूपिता । एवमेष बहव्यो युक्तयो निरूपिता अपि तेषां सिद्धान्तेषु यथेष्टं बोधमितु समर्था नाभूवन् । हन्त ! 'भक्षितेऽपि लशुने न शान्तो व्याधि' रित्याभाणकः सत्यतां प्राप्तः ।
गतीनां प्रतिघण्ट त्मिक प्रवर्तनं दीर्घ-सुदीर्घजवेन प्रधावनं तथा सम्पूर्णेन ग्रहमण्डलेन सह परिभ्रमणं च स्वीकुर्वतां साम्प्रतिक-वैज्ञानिकानां स्वीकृतिष्वपि बहुविधानि वैमत्यानि प्रादुर्भवन्ति । यथा हि
(१) पृथिव्यां ७,२०,०००, ६६,००० तथा १,००० मील मितेन वेगेन भ्रमन्त्यां सत्यां भूमिष्ठाः सर्वे पदार्थाः सुव्यवस्थिताः कथमिव स्थातु सम्भवेयुः ?
(२) पुनरेतावत्या तीव्रगत्या धावमाना पृथिवी, पश्चिमतः पूर्व दिशं गच्छन्ती यदि भवेत् तदा सदा सर्वदा पृथ्व्यावायोः सम्मुखीनाया दिशो घर्षणं किरात् प्रभूतमनुभवगम्यं भवितुमर्हति ?
(३) किञ्चैतावता तीव्रण वेगेन पृथ्वी भ्रमन्ती स्यात् तदा गगनमुड्डीनः पक्षी पुनः स्वं नीडं कथं प्राप्तुं शक्नुयात् ?
(४) तथा च भूतलं स्थितो मृगयाकरो जनः स्वं लक्ष्यं साधयितुं कथं प्रभवेन्नाम ?
(५) वातावरण दृष्ट्याऽपि जगति किमपि वाहनं शकटं मरुच्चरं वायुयानं वा स्वेन साकं वातावरणमप्यादाय धावमानं भवेत्तदिदं कथं सम्भवेत् ? १५४ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
Dim
............
H
Dhumi
MPTIMITATIL
.
...
www.jainelibar
:::::::::unisualist.
ܫܩܪܕܰܪܰ
Page #6
--------------------------------------------------------------------------
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ / (6) नोबल पुरस्कार विजेतुः प्रख्यातस्य सर चन्द्रशेखर वेङ्कटरमण महाभागस्य प्रशोधनपरिणत्यनुसारं "पृथिव्या साकं वातावरणं न भ्रमती" त्यनेन स्पष्टं भवति यत् 'पृथ्व्या गतिस्तथा वातावरणस्य गतिश्च भिन्न-भिन्ने स्त' इति / (7) यदि वा पृथ्वीयं गतिशीला भवेत्तर्हि वायुयानमध्युष्य निराधारे गगने स्थिरीभय पृथ्व्या गोलो प्रमेच्चेत्तदा यथेष्ट स्थलेऽवतरणं कथं सफलं भवेत् ? तदा वायुयानस्य गतिशीलकरणावश्यकताऽपि निरथिकैव भवति? (8) अथ चेयं पृथ्वी सूर्यस्य गुरुत्वकार्षणेन बद्धाऽऽस्ते / सूर्यश्च सौरिग्रहं प्रति गुरुत्वाकर्षणेनाकृष्टो भवति ततश्च स समस्तं ग्रहमण्डलमादाय प्रधावन्नास्ते / एवं सति पृथिवीयं दिसम्बरमासतो जूनपर्यन्तं तु सूर्येण समाकृष्यमाणा सूर्यस्थ समीपमभितः शक्नुयानाम, परं दिसम्बर पर्यन्तं भूमिस्तु पूर्वतः पश्चिमां दिशं. यायात् तथा सूर्यः 20 कोटिवर्षेषु चक्रमेकं पूर्ण कुर्वाणो 10 कोटिवर्षेभ्योऽनन्तरं पूर्वतः पश्चिमो दिशं गच्छेत् तदा जूनतो दिसम्बरं यावत् पूर्वतः पश्चिमां 66000 मीलमितेन गतिवेगेन यान्तीं पृथिवीं सूर्यः स्वगुरुत्वा कर्षणेन स्वेन सार्ध (अर्थात 10 कोटि वर्षाणि यावत पश्चिमातः पूर्वी दिशं गच्छन्) 720,000 मीलप्रमाणया तीव्रगत्याऽऽकर्षेत् / इत्थमाकर्षण-विकर्षणयोर्वराक्या भूमेगतिरेव कथं भवेत् ? इत्यमेतत् सर्वं भूयसा गाम्भीर्येण, विचारणीयतामहति / विसंवादानां बाहल्यम् वैज्ञानिकस्य जगतः समक्षमीदृशा बहवो विसंवादा अस्माभिरुपस्थापिताः सन्ति, परं कोऽपि नोत्तरयति केवलमात्मनो दृढमूलान् विचारान् यथाकथञ्चित् प्रचारयति / सन्ति वैज्ञानिकानां सविधे सुबहूनि साधनानि / सर्वकारस्यापि तत्रैवाभिनिवेशः। कलेः प्रभावातिशयेन ब्रान्तमस्तिष्का आर्या अपि शास्त्राणि प्रति श्लथ विचाराः सन्ति / आर्यशास्त्राणां वास्तविकं तत्त्वं ज्ञातुं विरला एव प्रवर्तन्ते किञ्च नानाविधानामसुविधानां प्राबल्येन पराभूता इव मारं मारं स्वधर्म-स्वसंस्कृति-स्वशास्त्र-स्वाचारविमुखाः क्रियन्त इति किन्न चिन्ताया विषयः / पृथ्वी स्थिरा विद्यते न च तस्या आकारो गोलो वृत्त रूपो वा / न च सूर्यस्य स्थिरत्यम् / ध्र व प्रदेशे मास षट्कस्याहोरात्रे कथम् ? आस्ट्रेलिया-भारतयोर्मध्ये ऋतुभेदस्ये किं कारणम् ? चन्द्रस्यास्ति स्वकीयः प्रकाशः, समुद्रे वेलाश्चन्द्रमस आकर्षणान्नोद् भवन्ति / गुरुत्वाकर्षणस्य किं रहस्यम् ? साम्प्रतिकं विश्वं कीदृक्, सापेक्षवादस्य कीदृश उपयोग. ? ध्र वतारादीनां कुत्र कीदृश्यः स्थितयः ? विज्ञानवादनाम्ना ऽऽरोपितानां सिद्धान्तानां कुत्र कथं नैर्बल्यम् ? एपोलोयानस्य चान्द्री यात्रा किं वास्तविकी ? विज्ञानवादिनां परस्परं कुत्र कथं विवादाः ? इत्येतत् सर्वं स्पष्टतया निदर्शयितुमस्माभिनॆकशो ग्रन्थाः प्रकाशिताः / पालीताणा नगर्यां शास्त्रीय प्रमाणानुसारं महता व्ययेन 'जम्बूदीप' स्य प्रवर स्थापत्यमपि निर्मापितम् / त्रैमासिक रूपेण 'जम्बूद्वीप' नामकं पत्रमप्यस्माभिः प्रकाश्यते / अतो जिज्ञासवो नितान्तमामन्त्र्यन्ते लाभप्राप्तये सत्यपरिज्ञानाय च। शास्त्राणि नैव वितथानि भवन्ति लोके, दासो मतेः परजनस्य तथात्वमेति / विज्ञानमुन्नततरं जिनभाषितं तत्, विज्ञाः समीक्ष्य सुदृढं परिशीलयन्तु // 1 // तीर्थे शत्रुञ्जयाख्ये महति गुणमये पालिताणाख्यपुर्या, जम्बूद्वीपं प्रमाणविरचितमुचितं वीक्ष्य सत्यं विविच्य / याथातथ्यं निरूप्यं, नहि-नहि वितश्चे भ्रान्तमार्गे पतित्वा, स्वीयं सत्यं सुवर्त्म प्रथितमतिशुभं त्याज्यमित्यस्ति वेद्यम् / / 2 // . म्म्म्म्म्म्म्म्म्म्म जैन-भू-गोल-विज्ञानम् : स्व० मुनि अभयसागरो गणी | 155 M . www.jaine