Book Title: Hayatakhat Kavya Satik
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229392/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ हयाटाखाट काव्य-सटीक सं. मुनि कल्याणकीर्तिविजय आ काव्य एक ज श्लोक, छे. तेमां केतु सिवायना सूर्यादि आठ ग्रहोनां वाहनादि साथे अट् धातुने जोडीने बनावेलां नामो द्वारा ग्रहोने प्रार्थना करवामां आवी छे, के अमारुं रक्षण करो. आ श्लोकनी टीका पण साथे आपी छे, जे प्रतिनी शरुआतमां लखेल - श्रीवीतरागाय नमः ॥ एवा उल्लेखथी कोई जैन विद्वाने (मुनिए। गृहस्थे) लखेली होय तेवू अनुमानी शकाय छे. टीकाकारे सर्वप्रथम श्लोकनो ध्वन्यर्थ आप्यो छे अने पछी एक एक शब्दने लई, तेनी व्युत्पत्ति करवापूर्वक अने सन्दर्भरूपे अनेक कोशोनो आधार आपवापूर्वक, तेनो अर्थ एक एक ग्रहमां प्रस्थापित कर्यो छे. जे तेमना व्याकरणादि शब्दशास्त्रोना पाण्डित्यने सूचवे छे. तेमणे जे कोशो/कोशकारोनां नाम, सन्दर्भरूपे पाठ साथे आप्यां छे, ते छे : शब्दार्णव, हलायुध, धनञ्जय, सार्व, अनेकार्थध्वनिमञ्जरी, शाश्वत, निखिलार्थ, केशव, काण्व. 'काव्योहारक' अने 'काण्ड' ए पण कोई काव्यना उद्धरणरूप तथा कोई कोशवाचक नाम होय एम जणाय छे. कर्ता : स्तुतिना कर्ता अथवा टीकाना कर्ता तरीके आखी प्रतिमा क्यांय कोई उल्लेख नथी. प्रति परिचय : पाटणना श्रीहेमचन्द्राचार्य जैन ज्ञानमन्दिरना डा. ३९१ नी १८३७० क्र. नी प्रतिनी झेरोक्षना आधारे आ कृतिनुं सम्पादन कर्यु छे. प्रतिमां १ ज पत्र छे. तेनी बन्ने बाजुए लखाण छे. अक्षरो मोटा तथा सुघड छे. लेखक अथवा लेखनसंवत्नो क्यांय उल्लेख नथी परन्तु लेखनशैली उपरथी लेखनकाळ १८ मो सैको अनुमानी शकाय. Page #2 -------------------------------------------------------------------------- ________________ September-2006 17 सटीकं हयाटाखाट-काव्यम् ॥ ८ ॥ श्रीवीतरागाय नमः ॥ हयाटाखाट-सिंहाटागोटाजाटास्सशक्तयः । खाट-पाट-सरोटाटा वारनाटा ह्यवन्तु नः ॥१॥ अस्य ध्वन्यर्थः कश्चिदात्मानं प्रति स्वाशिषमुररीकृत्य वदति-ते वारनाटाः सूर्यादयोऽष्टसङ्ख्यावच्छिन्नग्रहाः नः-अस्मान् अवन्तु-रक्षन्तु वा पालयन्तु । __ कथम्भूतास्ते ? हयाटाखाटसिंहाटागोटाजाटाः - हयेन सप्तास्यविलक्षणेनाऽटति लोकं परिक्राम्यति वाऽऽक्राम्यतीति हयाटः सूर्यः । तदेव कोशेन वाच्यम्मार्तण्डः काश्यपि सूर्यो हयाटो लोकतापनः । इति शब्दार्णवेन । चन्द्रमाः कीदृशः ? आखाटः - आखेन करणीभूतेन मृगेणाऽटति सूर्यस्य पृष्ठि(ष्ठ)तो गच्छतीति आखाटश्चन्द्रः । आखस्तु मृगरेवत्योराखुर्मूषकवाचकः । इत्यपि शब्दार्णवे स्पष्टम् । हिमांशुश्चन्द्रमा दोषी मृगाटाखाट इत्यपि । इति हलायुधः । भौमः कीदृशः ? -सिंहाटः-शृङ्गादिभिर्भूतलं हिनस्ति वा ताडयति वा उत्खनतीति सिंहः वृषभः । तेन सप्तर्षिमध्याधोदेशेनाऽटति गच्छतीति सिंहाटो भौमः । शृङ्गी कर्दमकोऽत्यागी सिंहो वृषभ इत्यपि । इति धनञ्जयः । कुजः कुसूनुः सिंहाटो भौमो भूमिसुतश्च सः । इति सार्वः । Page #3 -------------------------------------------------------------------------- ________________ 18 अनुसन्धान ३६ बुधः कीदृशः ? - गोट: - गवा हरिदश्वेनाऽटति गच्छतीति गोट: बुधः । गौरिन्द्रिये हये चापे सूर्ये पृथ्व्या(व्य)ङ्गविस्तरे । इत्यनेकार्थध्वनिमञ्जर्याम् । हरिद्रूपो बुधो गोट । इति शास्वतः (शाश्वतः)। गुरुः कीदृश: ? अजाट:-अजेन पीतकरिणाऽटति गच्छतीति अजाट: । लीलालपेज्य: अजो वै पीतनागकः ।। इति काव्योहारकः । बृहस्पतिरजोटाऽपि ।। इति काण्डः । हयाटश्च आखाटश्च सिंहाटश्च गोटश्च अजाटश्च ते हयाटाखाटसिंहाटगोटाजाटाः । ____ शुक्रः कीदृशः ? - खाटः - खेन स्वे(श्वेताश्वेनाऽटति गच्छतीति शतका खाट: । खशब्दो नागके सौराजाकाशे श्वेतवाजिनीति शब्दार्णवः । खाट: शुक्रस्सुराचार्यो भार्गवश्चोशनाः कविः ।। इति हलायुधः । शनिः कीदृशः ? पाट:-पेन खञ्जपादेनाऽटति वा पेन महिषेणाऽटति गच्छतीति पाट: । पस्तु पद्मे खरे देहे पादखओ तु वर्वरे ॥ इति निखिलार्थः ।। पाटस्तु गवि ताम्बूले शनौ पारग इत्यपि ।। इथि शब्दार्णवः । राहुः कीदृशः ? - सरोटेन मीनेनाऽटति गच्छतीति सरोटाट: राहुः । सरसि वा तदेव अटतीति सरोट: मीनः । Page #4 -------------------------------------------------------------------------- ________________ September-2006 19 मत्स्ये हंसे सारसे च सरोट: परिकथ्यते // इति केशवः / राहुस्तमस्सरोटाटः // इति काण्वः / केतोस्तु राहुशिरःपृथक्मात्रविवक्षया विवक्षितत्वमत एव नेहोचितम् (नेहोक्तम्) / खाटश्च पाटश्च सरोटाटश्च ते खाटपाटसरोटाटाः / पुनः कथम्भूताः ?सशक्तयः / शक्तिभिः षोडशमातृकादिभिः सह वर्तमाना इत्यर्थः / वा स्वस्वपत्नीभिः सह वर्तमानाः, वा अष्ट-दुर्गादिशक्तिभिः सहेति / इत्यनेन स्त्रीणां परदुःखासहिष्णुता सुखगन्तृत्वभावश्च सूचितः / स्वदुःखप्रहाणेच्छानुकूलतया तासामत्राऽतिप्रसङ्गश्च / एतद्विशेष्यविशेषणावच्छिन्नसूर्यादय: वारनाटाः स्वस्वदिनेषु नाटयन्ति वा स्वयमेव नटन्ति-इति वारनाट:(टाः), नः अवन्तु / कुतो ? यतः सशक्तयः / अत: शक्त्या सह वर्तमाना नो-अस्मानपि पालयन्तु इति सङ्क्षपान्वयः //