Page #1
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनाय नमः ॥
शुभशीलगणिप्रणीतं श्रीद्रौपदीचरित्रम् ॥
(गद्यबद्धं) प्रकाशकः-जामनगरवास्तव्य पण्डित हीरालाल हंसराजेन स्वकीये श्रीजैनभास्करोदय
मुद्रणालये मुद्रयित्वा प्रसिद्ध कृतं च ।
श्री
वीर संवत् २६४६
पण्यम् ---
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
दौपदी
चरित्रम् ॥१॥
॥ श्रीजिनाय नमः॥ ॥ अथ श्रीद्रौपदीचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीशुमशीलगणी)
छपावी प्रसिद्ध करनार-पंडित श्रावक हीगलाल हंसराज ( जामनगरवाळा ) आपदो विलयं यांति । शुद्धशीलप्रपालनात् ॥ द्रौपद्या इव सान्निध्यं । कुर्वते निर्जरा अपि ॥१॥ तथाहि-पांचालदेशविभूषणं कांपील्यपुराभिधं पत्तनं शोभतेस्म. तत्र द्रुपदाख्यो राजा न्यायाध्वना पृ. थिवीं पालयतिस्म. अथैकदा तस्य राज्ञी पुत्रीमेका प्रसूतेस्म. राज्ञा जन्मोत्सवं विधाय तस्या द्रौपदीति नाम दत्तं. क्रमेण वर्धमाना सा द्रौपदी सकलकलाकोविदा जाता, पित्रा च धर्मकर्मशास्त्राणि पाठिता. यतः-प्रथमे नोपार्जिता विद्या। द्वितीये नोपार्जितं धनं ॥ तृतीये नोपार्जिता कीर्ति-श्चतुर्थे किं करि
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम् ॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्यति ॥ १ ॥ रूपयौवनसंपन्ना । विशालकुलसंभवाः ॥ विद्याहीना न शोभंते । निर्गंधा इव किंशुकाः ॥ २ ॥ अथान्यदा यौवनप्राप्तां तां परिणयनयोग्यां विलोक्य द्रुपदनृपश्चितासागरे पपात यतः - जातेति | पूर्व महती हि चिंता । कस्य प्रदेयेति ततः प्रवृद्धा ॥ दत्ता सुखं स्थास्यति वा न वेति । कन्यापितृत्वं किल हंत कष्टं ॥ १ ॥ जम्मंतीए सोगो । वनुंतीए य वढए चिंता ॥ परिणीयाए दंडो । जुवइपिआ दुखिओ निचं ॥ २ ॥ निअघरसोसा परगेह - मंडणी कलिकलंककुलभवणं ॥ जेहिं न जाया धूआ । ते सुहिआ जीवलोगंमि ॥ ३ ॥ अथैकदा तेन द्रुपदनरेंद्रेण निजराजसभायां प्रोक्तं यः कोऽपि राजपुतो राधावेधं साधयिष्यति, तेन सममहमेतस्या मम पुत्र्या विवाहं करिष्यामि ततस्तेन भूरिदेशेषु दूतान् संप्रेष्य युधिष्ठिरादयो बहवो राजकुमाराः समाहूताः विविधरागरंजितपताकाभिरभिमंडिते मंडपे ते सर्वेऽपि राजकुमाराः समुपविष्टाः. मंडपमध्यभागे उत्तंभितस्तंभाये षोडशारचक्रं भ्रमतिस्म, तदुपरि चैका राधाभिधा भ्रमंती पुत्रिका स्थापिता, अधस्ताच्च तैलभृतः कटाहो मंडितः तत्र तैलकटाहेऽधःस्थापितदृष्टिर्यस्तत्र प्रतिविवितायास्तस्याः पुत्रिकाया वामाक्षि निजशरेण विध्यति, तेन राधावेधः साधितः कथ्यते. भूरिभिर्नृपकु
For Private and Personal Use Only
मूल
॥ २ ॥
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम्
मारेस्तत्साधनार्थ प्रयत्नो विहितः, परं कोऽपित राधावेधं न साधयामास. ततः सर्वेषां राजकुमारागां पश्यतामर्जुनकुमारेण स दुष्करोऽपि राधावेधः साधितः. ततो हृष्टा द्रौपदी यावदर्जुनकंठे निजवरमालां क्षिपति, तावत्सा माला दैवयोगेन युधिष्ठिरभीमनकुलसहदेवानां कंठेष्वपि पपात. द्रुपदादयः सर्वेऽपि नृ-1
पा विस्मिताः अथ चिंतापरो द्रुपदो विचारयामास, किं करिष्यते इति. इतोऽकस्मात् कोऽपि चारणश्रमराणा महात्मा तत्र समायातः द्रुपदादयः सर्वेऽपि नृपाः समुत्थाय विनयतस्तं चारणश्रमणं वंदंतेस्म. मु-18
| निनापि तेभ्यो.धर्मोपदेशो दत्तः, यथा-दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च ॥ जा भवार्णवोत्तारणसत्तरंडं । धर्म चतुर्धा मुनयो वदंति ॥१॥ पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां । तीर्थानामभिवंदनं विदधतां जैनं वचः शृण्वतां ॥ सदानं ददतां तपश्च चरतां सत्वानुकंपाकृतां । येषां यांति दिनानि जन्म सफलं तेषां सुपुण्यात्मनां ॥२॥ देवं श्रेणिकवत्प्रपूजय गुरुं वंदख गोविंदव-दानं शीलतपः प्रसंगसुभगां चाभ्यस्य सद्भावनां ॥ श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा । धन्य कर्मणि कामदेववदहो चेतश्चिरं स्थापय ॥२॥ इत्यादिधर्मोपदेशश्रवणानंतरं द्रुपदो राजा तं चारणश्रम
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
C+CS
मूल
१४॥
॥४॥
णं पप्रच्छ, हे भगवन् ! अनया मम पुत्र्या द्रौपद्याऽर्जुनकंठे क्षिप्तापि वरमाला अन्येषामपि युधिष्ठिरादौपदी
दीनां चतुर्णां भ्रातृणां कंठे कथं पपात ? तत् श्रुत्वा मुनिना प्रोक्तं, हे राजन् . अस्या द्रौपद्याः पूर्वकृतं चरित्रम्
18 कर्मेवाधुनोदयमागतमस्ति, ततस्तस्याः पूर्वभववृत्तांतं यूयं शृणुत ? पूर्व चंपायां पुर्यां सोमदेवसोमभूति४ सोमदत्ताख्यास्त्रयो भ्रातरो द्विजा वसतिस्म. तेषां च क्रमात नागश्रीरतिभूतश्रीर्यज्ञश्रीश्चेति तिस्रः प्रिया
आसन्. तासां मध्यादेकैका वखवारके सर्वदा कुटुंबा) भोजनं निष्पादयंति. अथान्येयुः सा नागश्रीनि| जवारके दिने वयाँ व्यंजनादिपेशला रसवतीं कुर्वाणाऽज्ञानतः कटुतुंबीफलंय रंधयामास. ततस्तरकटुतुंबी 8. फलं विज्ञाय सा दथ्यो, अरे ! अस्य कटुतुंबीफलस्य रंधने निरर्थकं हिंग्वादिबहुद्रव्ययो जातोऽस्ति, ६ तेनैतद्वहिनिःक्षेप्तुं मे मनो न मन्यते. इति ध्यायंती सा नागश्रीरन्यया रसवत्या निजकुटुंबं भोजयाहै मास. इतश्च श्रीधर्मघोषाभिधाः सूरयस्तत्र नगरे समाययुः. तेषां शिष्यो धर्मरुचिनामा मुनिर्मासक्षपण& पारणे दैवयोगेन भिक्षाग्रहणार्थं तस्या नागश्रियो गृहे समायातः. तदा स्वभावत एव जैनमुनिद्विष्टया
तया नागश्रिया तस्मै मुनये तस्य कटुतुंबीफलस्य भिक्षा दत्ता. अथ स धर्मरुचिर्मुनिस्तत्कटुतुंबीफलस्य
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम् ॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भिक्षामादायोपाश्रये समागत्य स्वगुरवे दर्शयामास तद् दृष्ट्वा गुरवः प्रोचुः, वत्स ! एतत्कटुतुबाफलव्यं - जनं बहुजीवप्राणापहारकं वर्तते, तदेतत् कापि निर्जीवस्थंडिले यत्नतः परिष्ठापय ? एवं गुरुभिरुपदिष्टः स धर्मरुचिर्मुनिस्तत् परिष्ठापयितुं नगराद् बहिरुयाने गतः अथ तत्कटुतुंबीव्यंजनस्यैकस्मिन् बिंदो कथंचिद्भूमौ पतिते समागतास्तत्रोपविष्टाः सहस्रशः पिपीलिका मृताः तद् वा दयार्द्रहृदयः स धर्मरुचिमुनिर्दध्यौ, यद्येतत्कटुतुबीव्यंजनं भूमौ परिष्ठापयिष्यामि, तदा बहुजीवानां घातो भविष्यति, तदेतस्य भूमौ परिष्ठापनं श्रेयस्करं न, यतः -न सा दीक्षा न सा भिक्षा । न तद्दानं न तत्तपः ॥ न तध्ध्यानं | न तन्मौनं । दया यत्र न विद्यते ॥ १ ॥ सर्वाणि भूतानि सुखे रतानि । सर्वाणि दुःखाच्च समुद्विजंति ॥ तस्मात् सुखार्थी सुखमेव दत्ते । सुखप्रदाता लभते सुखानि ॥ २ ॥ क्रीडाभूः सुकृतस्य दुःकृतरजः संहावात्या भवो -दन्वन्नोर्व्यसनाग्निमेघपटली संकेतदूती श्रियां । निःश्रेणिस्त्रिदिवोकसः प्रियसखी मुक्तेः कुगत्यर्गला । सत्वेषु क्रियतां कृपैव भवतु क्लेशेरशेषैः परैः ॥ ३ ॥ अतः कारणादहमेवैतद्भक्षयामि, इति विमृश्य तेन धर्मरुचिमुनिना तद्भक्षणं कृतं तद्विषपरिणमनतः स्तोकेनैव कालेन स मुनिर्विशुद्धं संयम
For Private and Personal Use Only
मूल
॥ ५॥
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Sh Kailassagarsur Gyanmandir
मूल
॥६॥
| माराध्य पंचपरमेष्टिध्यानपरस्तत्रैव मृत्वा सर्वार्थसिद्धविमाने देवत्वेन समुत्पन्नः. अथैवं बहिर्गतस्य तस्य 2 दौपदी | धर्मरुचिमुनेर्बह्रीं वेलां गतां विज्ञाय गुरुभिस्तस्य शुध्ध्यर्थमन्ये मुनयः प्रेषिताः, क्रमेण परिभ्रमंतस्ते मु-II चरित्रम् नयस्तत्र स्थाने समायाताः, तत्र च तं धर्मरुचिं मुनि मृतं दृष्ट्वा तस्योपकरणानि ते गुरुपावे समानि॥६॥
न्युः. सूरयश्च वज्ञानतस्तस्य साधोः सर्वार्थसिद्धिगमनं विज्ञाय तेषां साधूनां समीपे जगुः, भो मुनयः स धर्मरुचिर्मुनिस्तु महाभाग्यवान् बभूव, यतः स जीवयतनया शुद्धध्यानपरो मृत्वा सर्वार्थसिद्धविमाने ग-2 तोऽस्ति. अथ सा नागश्रीरगृहीतालोचना क्रमान्मृत्वा षष्ठे नरके ययौ, तत उध्धृत्य मत्स्योऽभूत्, ततो | मृत्वा सप्तमे नरकेऽगच्छत्. एवं सप्तवारं मत्स्यभवांतरं नरकगमनमनुभूय, ततोऽपि भूरिभवान् भ्रांस्वा 5 नदीयावन्यायेन तस्या नागश्रियो जीवश्चंपायां पुर्यां सागरदत्तश्रेष्ठिनः सुभद्राख्यायाः पल्याः कुक्षौ पुत्रात्वेनावातरत्. क्रमेण संपूर्णसमये सा सुभद्रा पुत्रीमसूत. मातापितृभ्यां तस्याः सुकुमारिकेति नाम दत्तं. अथ तत्रैव पुरे जिनदत्तश्रेष्ठिनः सागराख्यः पुत्रः संप्राप्तयौवनां तां सुकुमारिकां परिणिन्ये. ततस्तेन सागरदत्तश्रेष्ठिना स जामाता निजगृहे स्थापितः, अथान्यदा स सागरस्तया सुकुमारिकया सह
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम्
यावद्रात्रौ शय्यायां सुप्तस्तावत्तस्या ज्वलत्खदिरांगारतुल्यं देहस्पर्श विज्ञाय स तस्यां विरागवान् बभूव. ततस्तां सुकुमारिकां तथैव सुप्तां तत्र मुक्त्वा निजगृहे स समायातः. अथ प्रातरुत्थिता सा सुकुमारिका निजं खामिनं गतं विज्ञाय भृशं रुदितुं लग्ना. ततस्तस्या मातापितृभ्यां दासीभ्यस्तद्रुदनकारणं विज्ञाय, तत्रागत्य पुत्र्यै कथितं, भो पुत्रि! त्वं रुदनं मा कुरु ? कर्मणामग्रे रंकस्य वा राज्ञोऽपि सामर्थ्यं नास्ति, यतः-कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥१॥ प्रचलति यदि मेरुः शीततां याति वाह्नि-रुदयति यदि भानुः पश्चिमायां दिशायां ॥ विकसति यदि | पद्मं पर्वताग्रे शिलायां । तदपि न चलतीयं भाविनी कर्मरेखा ॥२॥ यथा धेनुसहस्रेषु । वत्सो विदति मातरं ॥ एवं पूर्वकृतं कर्म । कर्तारमनुधावति ॥ ३॥ हे वरसे ! पूर्वभवे त्वया कस्यापि विरहः कृतोऽ- | भविष्यत, तेन तदशुभं कर्मात्र भवे उदयमागतं विज्ञायते. अथ त्वं धैर्य धारयख ? सर्वमपि समचीनं | भविष्यति. एवं तां निजतनयामाश्वास्य स सागरदत्तो जिनदत्तांतिके समेत्य तमुपालंभयामास, भो जिनदत्त ! त्वदीयपुत्रेण सागरेणैतन्न वरं कृतं, यतोऽसौ. मदीयां तनयां परिणीय तां च परिहायत्र त्वदी
PARRORROR-GORRAS
|
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम 116 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यगृहे समायातः अथ त्वं तथा कुरु ? यथा स पुनर्मदीयां तां पुत्रीं स्वकुर्यात् तत् श्रुत्वा स्वहृदि वि | स्मितो जिनदत्तस्तं स्वपुत्रं सागरं समाकार्य प्राह, हे पुत्र ! सुजनेन या नारी स्वीकृता, सा जीवनं यावन भोक्तव्या, त्वमेनां सागरदत्तपुत्रीं सुकुमारिकां परिणीयाथ कथं मुंचसि ? यतः - सुगुणं निर्गुणं वापि । मुच्यर्तेगीकृतं न हि ॥ सकलंकं सकौटिल्यं । चंद्र नोज्झति धूर्जटिः ॥ १ ॥ तस्मादिमां प्रियां सद्य । आद्रियस्व मनोरमां ॥ मातापित्रोर्वचः सम्यग् । क्रियते हितमिच्छुना ॥ २ ॥ एवंविधानि निजजनकवचांसि श्रुत्वा सागरः प्राह - प्रविशामि ज्वलत्यग्नौ । मज्जामि जलधौ पुनः न पुनर्गेहिनीमिमां । श्रयेऽहं दुःखदायिनीं ॥ १ ॥ अस्याः पत्न्या वपुःस्पर्शो--गारतुल्योऽस्ति निर्भरं ॥ तेनास्या अंतिके स्थातुं । शक्यते | न मया मनाग् ॥ २ ॥ एवंविधानि निजजामातुर्वचांसि श्रुत्वा विलक्षीभूतः सागरदत्तः स्वगृहे पुत्री पार्श्वे समेत्यावदत्, हे वत्से ! स सागरस्तु मनसापि त्वां न वांछति, अतस्तं परिहाय त्वमन्यं रमणं स्वीकुरु ? यतः - वयं वरं कुलीनं च । विनीतं हितकारकं ॥ त्वत्कृते चानयिष्यामि । दुःखं कार्यं त्वयात्र न ॥ १ ॥ इत्युक्त्वा तेन सागरदत्तश्रेष्ठिना तस्या निजतनयायाः पाणिग्रहणार्थं परे द्विला युवानः समानीताः, परं
For Private and Personal Use Only
मूल
1121
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
ते सर्वेऽपि तां सुप्तामेव परिहाय पलायिताः. अथ मोहमूढहृदयेन तेन सागरदत्तेन मागें भिक्षा मार्गयन् दौपदी
कोऽपि रंकयुवा निजगृहे समानीतः. तं रकं च कर्तरादिसुगंधिद्रव्यवासितजलेन स्नपयित्वा, सरसभोजनं चरित्रम् || भोजयित्वा च स नानाविधबहुमूल्यवस्त्रालंकारैरलंकारयामास. ततस्तेन सा निजपुत्री सुकुमारिका तस्मै | ॥९ ॥
रंकाय दत्ता. ततः स रंकोऽपि निजात्मनं धन्यं मन्यमानो यावत्तस्याः सुकुमारिकाया अंगस्पर्श करोति,
तावत्तां ज्वलदंगारतुल्यशरीरां विज्ञाय दध्यौ, किमियमंगारशकटी वा कापि राक्षसी वर्तते ? एवमुद्विग्नः कास रंकोऽपि पूर्वपुरुषवत्तां त्यक्त्वा बहिर्गतुमुद्यतोऽभूत्. तदा तेन सागरदत्तश्रेष्ठिना तस्मै रंकाय पृष्टं, भो ||
महानुभाव ! मदीयेयं पुत्री त्वया कथं त्यक्ता ? तत् श्रुत्वा स रंकः प्राह, भो श्रेष्ठिन् ! अग्नो प्रवेशो व
यः, न पुनरस्यास्तव पुत्र्याः स्पर्श सोढमहं क्षमः. इत्युक्त्वा स द्रुतमेव ततः पलायितः. अथ पूर्ववदेव तू तां निजपुत्री रुदंती वीक्ष्य सागरदत्तः प्राह, हे वत्से ! पूर्वकृतकर्माणि प्राणिनाऽवश्यमेव भोक्तव्यानि, है। यतः-सूर्योऽपि भ्राम्यते व्योन्नि । गुणी भिक्षामटाव्यते ॥ मूखोंऽपि संपदं भुंक्ते । विपाकात्पूर्वकर्मणां है, |॥१॥ आरोहतु गिरिशिखरं । समुद्रमुल्लंघ्य यातु पातालं ॥ विधिलिखिताक्षरमालं । फलति कपालं न
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम् ॥१०॥
॥१०॥
5ABLOCA
भूपालः ॥ २ ॥ अतो हे वत्से ! प्राकर्मविनाशाय त्वं दानं देहि ? तपश्च कुरु ? ततः सा सुकुमारिका है | निजात्मानं संयम्य विषयेभ्यः पराङ्मुखीभूता जिनपूजादिधर्मकार्येषु परायणा बभूव. अथैकदा तस्य |
श्रेष्ठिनो गृहे साध्वीयुगलमाहारग्रहणार्थं समायातं. तदा तया सुकुमारिकया शुद्धान्नपानैस्तत्साध्वीयुगलं | भावतः प्रतिलाभितं. ततस्तयोरुपदेशतः प्रतिबुद्धया सुकुमारिकया तत्पावें दीक्षा गृहीता. ततः सा | शुद्धं संयम पालयंती पूर्वार्जितनिबिडकर्मच्छिदे तीवं तपः कर्तुं प्रवृत्ता. यतः-विरज्य विषयेभ्यो यै-स्त
पे मोक्षफलं तपः ॥ तैरेव फलमंगस्य । जगृहे तत्ववेदिभिः ॥ १॥ यद्रं यद् दुराराध्यं । यच्च दूरे व्य| वस्थितं ॥ तत्सर्वं तपसा साध्यं । तपो हि दुरतिक्रमं ॥२॥ जन्मकोटिकृतमेकहेलया। कर्म तीव्रतपसा विलीयते ॥ किं न दाह्यमतिबह्वपि क्षणा-दुत्थितेन शिखिनाल दह्यते ॥ ३॥ यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते । कामः शाम्यति दाम्यतींद्रियगणः कल्याणमुत्सर्पति ॥ उन्मीलंति महर्द्धयः क- | |लयति ध्वंसं च यत्कर्मणां । स्वाधीनं त्रिदिवं करोति चपलं श्लाघ्यं तपस्तन्न किं ॥ ४ ॥ अथैकदा सा सुकुमारिका साध्वी निजां प्रवर्तिनी प्रणम्य प्राह-जनरिक्त वने गत्वा । रवी दत्तेक्षणा स्फुटं ॥ एकाग्र
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम ॥११॥
ॐARऊन
मानसा षष्टा-ष्टमादिसत्तपःपरा ॥१॥ आतापनामहं कर्तुं । वांछामि सांप्रतं किल ॥ पूर्व संसारसं-18 बंधि । कर्म बह्वस्ति मे दृढं ॥ २॥ तत् श्रुत्वा सा प्रवर्तिनी तां जगौ-वत्से खच्छाशये नूनं । न हि २] मूल चातापनां मनाम् ॥ युज्यते बहिरुद्याने । कर्तुं साक्ष्याः कदाचन ॥ १ ॥ तत् श्रुत्वा सुकुमारिका विन
॥११॥ यनतांजलिं विधाय पुनरपि प्रवर्तिनी जगौ, हे पूज्ये ! साध्व्या यद्यप्युद्याने आतापनां कर्तुं न युज्यते, तथाप्यहं भवतीनां कृपया मदीयकर्मच्छेदनार्थमुद्याने गत्वा निर्विघ्नमातापनां करिष्यामि, अतो मह्यमा-18 देशं यच्छत ? एवं बलादेवादेशं प्राप्य सा सुकुमारिका साध्वी आतापनार्थं बहिरुयाने गता. अथैवमु| द्यान आतापनां कुर्वत्यास्तस्याः सप्ताष्टदिनानि निर्विघ्नं समतिक्रांतानि. इतश्चैकदाऽकस्मात्तत्रोद्याने काचिद्वारांगना क्रीडार्थ समायाता. सा च मोहमुग्धस्य कामबाणविद्धस्यैकस्य पुरुषस्योत्संगे सुप्ता, द्वितीयो न| रस्तालवतेन तस्या वातप्रक्षेपं करोति, तृतीयस्तु तस्या मस्तके सुगंधि पुष्पावतंसं बध्नाति. चतुर्थः पुरु-* षश्च तस्या मस्तकोपरि छत्रं धत्ते, पंचमः पुरुषश्च तस्या अंगविश्रामणां कुरुते. अथैवं पंचपुरुषैः सेव्यमानां तां गणिकां दृष्ट्वा कायोत्सर्गस्था सा सुकुमारिका साध्वी दध्यौ, अहो ! असौ नारी कशी धन्यास्ति ?
-RECRACॐ
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूल
दौपदी चरित्रम् ॥१२॥
॥१२॥
| यस्या एवं पंच नराः शुश्रूषां कुर्वति, अहं पुनरधन्या पुन पुनरस्मिन् भवे पुरुषेण त्यक्ता, न कोऽपि पुरुषो मां स्वीचकार. एवं चिंतयंती सा साध्वी विषयसुखाभिलाषया निदानं चकार, यथा-यद्याचीर्णस्यास्य मम तपसः फलं स्यात्तदानीमियं वारांगनेवाहमप्यागामिनि भवे पंचभर्तृका भवेयं. अथ प्रवर्ति| न्यादिसाध्वीभिस्तन्निदानकरणं विज्ञाय ताभिर्निवारिताप्यपरिपूर्णविषयाभिलाषा सा निजाग्रह न मुमोच. | ततः प्रवर्तिन्योपालब्धा सा सुकुमारिका साध्वी पृथगुपाश्रये स्थिता क्रमेणाष्टौ मासान् यावत् संलेखनां विधाय कालं कृत्वा नवपल्योपमायुःस्थितिका सौधर्मदेवलोके देवी बभूव. हे राजन् ! ततश्च्युत्वा सास्मिन् कांपील्यपुरे द्रौपद्यभिधातव पुत्रों जातास्ति. पूर्वभवाचरितनिदानतश्चेयमस्मिन् भवे पंचानामपि पांड-15 वानां कंठेषु वरमालाप्रक्षेपेण तेषां सर्वेषामपि पत्नी जातास्ति, तथाप्येषा महासतीतया विख्याता भ. | विष्यति. एवं च पूर्वबद्धं कर्म तस्या उदये समागतं विद्यते. यतः-किं करोति नरः प्राज्ञः । प्रेर्यमाणः स्वकर्मभिः ॥ प्रायेण हि मनुष्याणां । बुद्धिः कर्मानुसारिणी ॥ १॥ यदुपात्तं पुरा कर्म । शुभं वाह्यशुभं किल ॥ तच्छक्यमन्यथा कर्त । नैव देवासुरैरपि ॥२॥ एवं तेन चारणमुनिना प्रोक्तं द्रौपद्याः पूर्व
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
॥१३॥
| वृत्तांतं श्रुत्वा बहुभिर्जनैजैनधर्मः स्वीकृतः, ततस्ते पंचापि पांडवाः कृतविवाहमंगलास्तया द्रौपद्या सह । दौपदी
| निजनगरे समायाताः. स्वखवारके च नित्यं सैकैकेन पांडवेन सह विषयसुखानि भुंक्तस्म. अथान्येयुः। चरित्रम्
15 सा द्रौपदी निजांतःपुरे स्वशरीरप्रमाणादर्श निजस्वरूपं विलोकयंती स्थितास्ति. तावन्नारदर्षिस्तत्र स. ॥१२॥
मागतः, परमादर्श निजमखालोकनासक्ता सा तं नारदं विरतिरहितं जानंती मनसापि न संभावयामा स. तेन रुष्टोऽसौ नारदस्ततः समुत्थाय तत्क्षणं धातकीखंडमध्यस्थापरकंकापुर्यां ययो. तत्र नगर्यां च प
झोत्तराभिधो नृपो राज्यं करोतिस्म, तस्य नृपस्य सभायां यावत्स नारदः समायातस्तावत् तेन नृपेण 13. विनयपूर्व समुत्थायाभिगमनपूर्वं स वंदितः. ततोनृपस्तं पप्रच्छ, भो नारदमुने ! अधुना यूयं कुतः स्था
नादन समायाताः ? नारदो जगौ, हे राजन् ! अधुनाहं भरतखंडस्थितहस्तिनागपुराभिधानगरादायातोहै ऽस्मि. तत्र नगरे च राज्यं कुर्वतां पंचानामपि पांडवानामंतःपुरे यादृशी रूपलावण्यादिगुणगणालंकृता द द्रौपदी राज्ञी विद्यते, तादृशी तवांतःपुरे चैकापि राज्ञी न वर्तते. इत्यादि वार्तालापं कृत्वा नारदस्ततोऽ
न्यत्र ययौ. अथ कामातरः पद्मोत्तरनपस्ताद्रौपदीं लब्धमेकं देवमाराध्य तत्पाच्चिपलं तां द्रौपदी स्वां
-RECRUSA
AAR
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम्
॥१४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तःपुरे समानिनाय ततः स पद्मोत्तरो राजा तां द्रौपदीं जगौ भो द्रौपदि ! त्वं मया सह भोगान् भुंक्ष्व ? ममेदं सकलमपि राज्यं तवैवास्ति, मनोवांछितवस्त्राभूषणादि गृहाण, सर्वास्वपि मदीयराज्ञीषु त्वं पट्टराज्ञी भव ? अहं तु तव किंकर इव सर्वं मनोऽभिलाषं पूरयिष्यामि इत्यादि मिष्टवचनान्युक्त्वा भूरिप्रकारैस्तस्याः शीलखंडनार्थं तेन प्रयत्नः कृतः परं द्रौपद्या मनो मनागपि न चलितं गतः - स्वाधीनेऽपि कलत्रे । नीचः परदारलंपटो भवति ॥ संपूर्णेऽपि तडागे । काकः कुंभोदकं पिबति ॥ १ ॥ अथ तत्रस्थिता द्रौपदी स्खशीलं रक्षती सर्वदा पंचपरमेष्टिनमस्कारपरावर्तनपरा षष्टाष्टमादितपः कर्तुं प्रवृत्ता. इततः पुरे द्रौपदीमनालोक्य ते पंचापि पांडवाश्चिंतातुरा अभितो गवेषयामासुः परं कुत्रापि तस्याः शुद्धिर्न लब्धा. ततस्ते श्रीकृष्णवासुदेवपार्श्वे गत्त्वा द्रौपदीगमनवृत्तांतं कथायामासुः तत् श्रुत्वा हास्यपरेण कृष्णेनोक्तं यूयं महासुभटाः पंचैकामपि निजपत्नों रक्षितुं नालं जाताः ? पांडवैरुक्तं भो कृष्ण ! अधुना हास्येनालं, स्वं समर्थो वासुदेवोऽसि, अतः केनाप्युपायेन तस्याः शुद्धिं लभस्ख ? ततः कृष्णेनापि तस्याः | शुद्धिप्राप्त्यर्थं बहव उपायाः कृताः, परं समस्तेऽपि भारते क्षेत्रे कुलापि तस्याः शुद्धिर्न लब्धा. इतोऽन्ये
For Private and Personal Use Only
मूल
॥१४॥
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृल
दौपदी चरित्रम् ॥१५॥
*
॥१०॥
*
*
है युर्नारदर्षिः कृष्णराजसभायां समायातः, कृष्णेन सभागतलोकैश्च बहुसन्मानपूर्वकं स वंदितः. ततः कृ-है
ष्णस्तं नारदाष जगौ, भो नारदमुने ! भूरिदेशेषु भ्रमद्भिर्युष्माभिः किं कुत्रापि द्रौपदी दृष्टास्ति ? तत् |
श्रुत्वा मनाग् विहस्य नारदो जगौ, भो कृष्ण ! धातकीखंडमध्यस्थापरकंकानगरीखामिनः पद्मोत्तरनृप२ स्यांतःपुरे मया द्रौपदीतुल्या कापि नारी विलोकितास्ति. इत्युक्त्वा कृष्णसन्मानितो नारदमुनिरन्यत्र
जगाम. अथ कृष्णो नारदवाक्यात्तत्रैव दौपदों मत्वा द्रुतं तैः पांडवैः सह निजरथमारुह्य लवणसमुद्रसमीपे समायातः, तदधिष्टायकं देवं च समाराध्य तत्सहायेन पांडवैः सह रथस्थो लवणसमुद्रमुल्लंघ्य धा| तकीखंडेऽपरकंकादगरोसमीपे समायातः. ततोऽयं कृष्णो युद्धे तं पद्मोत्तरं नृपं जित्वा द्रौपदी च समा- |
दाय पश्चालित्वा लवणसमुद्रांतिके समागतः. तत्र तेन निजविजयसूचकः स्वकीयपांचजन्यशंखनादो | विहितः. तं शंखनादं श्रुत्वा केवलिसभास्थितस्तत्रत्यः कपिलनामा वासुदेवो विस्मितः सन् केवलिनं पप्रच्छ, भगवन् ! मदीयशंखनादतुल्योऽयं शंखनादः केन कृतः ? तदा भगवतापि तस्य भरतखंडवासुदेवश्रीकृष्णागमनवृत्तांता निवेदितः, तत् श्रुत्वा श्रीकृष्णमिलनोत्सुकः स कपिलवासुदेवो निजरथस्था द्रुतं
SA
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मल
दौपदी चरित्रम्
SACREASURESARCH
लवणसमुद्रतटे समायातः. परं श्रीकृष्णस्तु तदा समुद्रबहुभागमुल्लंघ्याले गतोऽभूत्. कपिलवासुदेवेन 2 निजपांचजन्यशंखमापूर्य मिलानर्थं कृष्ण आकारितः, परं कृष्णेनापि निजशंखमापूर्य तस्मै ज्ञापितं, सां: प्रतं मया समुद्रस्य भूरिभाग उल्लंघितोऽस्ति, अतो मे भवन्मिलनाथं पश्चादागमनं न भविष्यति. एवं तयोर्द्वयोरपि वासुदेवयोः केवलं शंखनादैरेव परस्परं जगदाश्चर्यभूतः संवादो जातः. एवं पांडवद्रौपदी-18 युतः श्रीकृष्णो विघ्नरहितं लवणसमुद्रमुल्लंघ्य द्वारिकायां निजस्थाने समायातः. अथैकदा श्रीनेमिनाथो जिनेश्वरस्तत्र द्वारिकायां समवसृतः, तदा कुंतीमाता निजपुत्रैः पांडवैः पुत्रवधूभिश्च सह प्रभोवंदनार्थं गता. प्रभुणापि तेभ्यो धर्मोपदेशो दत्तः, यथा-त्रैकाल्यं जिनपूजनं प्रतिदिनं संघस्य सन्माननं । स्वाध्याया है गुरुसेवनं च विधिना दानं तथावश्यकं ॥ शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा । सैष श्रावकपुंगवस्य कथितो धर्मो जिनेंद्रागमे ॥१॥ दिने दिने मंजुलमंगलावलिः । सुसंपदः सौख्यपरंपरा च॥ इष्टार्थसिद्धिर्बहुला च बुद्धिः । सर्वत्र सिद्धिः सृजतां सुधर्म ॥ २ ॥ दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च ॥ भवार्णवोत्तारणसत्तरंडं । धर्म चतुर्धा मुनयो वदंति ॥३॥ इत्यादिधर्मोपदेश
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailassagersun Gyanmandir
दौपदी
चरित्रम् ॥१७॥
॥१७॥
| श्रुत्वा कुंतीद्रौपदीयुतास्ते पंचापि पांडवाः सम्यक्त्वमूलानि द्वादश ब्रतानि जगृहुः कियता कालेन ते पंचापि पांडवाः खं खं पुत्रं राज्येष्वभिषिच्य कुंतीद्रौपदीयुताः श्रीगुरोः पावें दीक्षां गृह्णतिस्म. अथेषा | द्रौपदीसाध्वी नानाविधतपांसि कुर्वाणान्येयुः श्रीशजयमहातीर्थे समायाता. तत्रापि भूरितपःपरा सा प्रांते आयुःक्षये कालं कृत्वा पंचमे स्वर्गे गता. ततश्च्युत्वा च सा द्रौपदी महासती स्तोकभवमध्ये मुक्ति यास्यति. ॥ इति श्रीद्रोपदीमहासतीचरित्रं समाप्तं ॥ श्रीरस्तु ॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने
माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कर्यु.
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O OSBE | इति श्रीद्रौपदीचरित्रं समाप्तम् / =0 D = = = = = = = = For Private and Personal Use Only