________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
दौपदी
चरित्रम् ॥१॥
॥ श्रीजिनाय नमः॥ ॥ अथ श्रीद्रौपदीचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीशुमशीलगणी)
छपावी प्रसिद्ध करनार-पंडित श्रावक हीगलाल हंसराज ( जामनगरवाळा ) आपदो विलयं यांति । शुद्धशीलप्रपालनात् ॥ द्रौपद्या इव सान्निध्यं । कुर्वते निर्जरा अपि ॥१॥ तथाहि-पांचालदेशविभूषणं कांपील्यपुराभिधं पत्तनं शोभतेस्म. तत्र द्रुपदाख्यो राजा न्यायाध्वना पृ. थिवीं पालयतिस्म. अथैकदा तस्य राज्ञी पुत्रीमेका प्रसूतेस्म. राज्ञा जन्मोत्सवं विधाय तस्या द्रौपदीति नाम दत्तं. क्रमेण वर्धमाना सा द्रौपदी सकलकलाकोविदा जाता, पित्रा च धर्मकर्मशास्त्राणि पाठिता. यतः-प्रथमे नोपार्जिता विद्या। द्वितीये नोपार्जितं धनं ॥ तृतीये नोपार्जिता कीर्ति-श्चतुर्थे किं करि
For Private and Personal Use Only