________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम् ॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भिक्षामादायोपाश्रये समागत्य स्वगुरवे दर्शयामास तद् दृष्ट्वा गुरवः प्रोचुः, वत्स ! एतत्कटुतुबाफलव्यं - जनं बहुजीवप्राणापहारकं वर्तते, तदेतत् कापि निर्जीवस्थंडिले यत्नतः परिष्ठापय ? एवं गुरुभिरुपदिष्टः स धर्मरुचिर्मुनिस्तत् परिष्ठापयितुं नगराद् बहिरुयाने गतः अथ तत्कटुतुंबीव्यंजनस्यैकस्मिन् बिंदो कथंचिद्भूमौ पतिते समागतास्तत्रोपविष्टाः सहस्रशः पिपीलिका मृताः तद् वा दयार्द्रहृदयः स धर्मरुचिमुनिर्दध्यौ, यद्येतत्कटुतुबीव्यंजनं भूमौ परिष्ठापयिष्यामि, तदा बहुजीवानां घातो भविष्यति, तदेतस्य भूमौ परिष्ठापनं श्रेयस्करं न, यतः -न सा दीक्षा न सा भिक्षा । न तद्दानं न तत्तपः ॥ न तध्ध्यानं | न तन्मौनं । दया यत्र न विद्यते ॥ १ ॥ सर्वाणि भूतानि सुखे रतानि । सर्वाणि दुःखाच्च समुद्विजंति ॥ तस्मात् सुखार्थी सुखमेव दत्ते । सुखप्रदाता लभते सुखानि ॥ २ ॥ क्रीडाभूः सुकृतस्य दुःकृतरजः संहावात्या भवो -दन्वन्नोर्व्यसनाग्निमेघपटली संकेतदूती श्रियां । निःश्रेणिस्त्रिदिवोकसः प्रियसखी मुक्तेः कुगत्यर्गला । सत्वेषु क्रियतां कृपैव भवतु क्लेशेरशेषैः परैः ॥ ३ ॥ अतः कारणादहमेवैतद्भक्षयामि, इति विमृश्य तेन धर्मरुचिमुनिना तद्भक्षणं कृतं तद्विषपरिणमनतः स्तोकेनैव कालेन स मुनिर्विशुद्धं संयम
For Private and Personal Use Only
मूल
॥ ५॥