Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text ________________ 196 विमलप्रभायां [साधनादेवाद्या धर्मकायः सकलफणिकुलं चात्र संभोगकायश्चण्डा निर्माणकायो भवति नरपते सर्वसत्त्वार्थहेतोः / युग्मं स्यात् कायवज्रं सहजजिनतनुबिम्बनिष्पत्तिहेतोग्विजं धर्मकायो भवति च युगलं धर्मतादेशनार्थम् // 98 // [278b] इह यथा बालस्य हस्तपादादिसंकुचनमस्फुटवचनं धर्मकायस्तथा देवा द्वादश / आविशब्देन रथस्थाः षड् देव्य इति / इह यथा बालस्य दन्तोत्थाने स्फुटवचने सति 'संभोगकायस्तथा मण्डले सकलफणिकुलमिति / इह यथा बालस्य दन्तपातात् पुनरुत्थानादामरणावधौ निर्माणकायस्तथा मण्डले चण्डा श्वानास्यादयः परिजन सहिताः सार्धत्रिकोटिभूतैः सहिता निर्माणकायो भवति, नरपते सर्वसत्त्वार्थहेतोरिति बाह्ये चतुःकायविशुद्धिनियमः। इदानीं चतुःकायचतुर्वज्राणां परस्परं योग उच्यतेयुग्ममित्यादि / इह बालस्य बिम्बनिष्पत्तिहेतोः सहजकायश्चतुर्भूतात्मकं कायवज्र युग्मं स्याद् यथा, तथा मण्डलेऽपि / / 98 // चित्तं संभोगकायो युगलमपि भवेत् सर्वसत्त्वार्थकर्ता ज्ञानं निर्माणकायो भवति हि युगलं प्राणिनां मोक्षदं वै / प्रज्ञोपायाङ्गभावः समविषमकूलोगिना वेदितव्यं चन्द्रादित्यादिका_स्त्रिविधभवगतैर्ज्ञानविज्ञानभेदैः // 99 // एवं वाग्वजं धर्मकायो बालस्य युगलमपि जल्पनार्थं यथा तथा धर्मदेशनार्थ मण्डलेऽपि / इह बालस्य बोधिचित्तं संभोगकायः सर्वसत्त्वार्थ कर्ता युगलम्, “तथा मण्डलेऽपि। इह यथा बालस्य च्यवनकाले ज्ञानमिति सखं निर्माणकाय इति परिपूर्णधातुत्वं षोडशवर्षावधेर्भवति हि युगलं प्राणिनां मोक्षदं वै / मोक्षोऽत्र बोधिचित्तबिन्दूनां च्युतिक्षणः। तद् ददातोति मोक्षदं युगलं ज्ञानं निर्माणकायलक्षणं प्राणिनाम् / तथा 'तद्वैध\ण "मण्डले मोक्षदं द्वादशाङ्गहेतुफल निरोधत इति बुद्धनियमः। पुनरेषां चतुःकायचतुर्वजाणां प्रज्ञोपायाङ्गभावैः समविषमकुलैरिति / समकुलै रजउद्भवधातुकुले:, विषमकुलैः शुक्रोद्भतधातुकुलैः। चन्द्रादित्यादिकाद्यैस्त्रिविधभवगतैनिभेदैरानन्दायविज्ञानभेदैदिशायतनभेदैर्यो[279a]गिना वेदितव्यं समस्तं यथा बालस्याध्यात्मपटले तथा देवतासाधने उत्पत्तिकम इति / एवं देवताबिम्बनिष्पत्तिः // 99 // 1. क. ख. ग. छ. भोग / 2. ख. ग. बाह्य / 3. च. इह च / 4. ग. 'कर्ता' नास्ति / 5. क. ख. छ. 'तथा' नास्ति 6. च. भो 'तद' नास्ति / 7. भो. 'भण्डले' नास्ति / 8. ग. च. निरोध /
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280