Book Title: Yogshatak Sampadanam
Author(s): Punyavijay
Publisher: Punyavijayji

View full book text
Previous | Next

Page 4
________________ 190 જ્ઞાનાંજલિ तथाऽत्रापि 'अद्वेषश्चैव जिज्ञासा' (श्लो० 35 ) इति पद्ये निरीक्ष्यते / ललितविस्तरावृत्ति -योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे 18991 पद्येषु निरूप्यते / तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवर्त्यपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि मिथ्याटिरपि युक्तः स च तादृक्क्रियान्वितः' इति 54 पद्ये व्यावणितोऽस्ति / एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्रीहरिभद्राचार्यकृतत्वमावेदयन्ति-- 1. अत्राधिकारिणोऽप्युक्ता अपुनर्वन्धकादयः / त्रय-एव० श्लो० 37 / अहिगारी पुण ___एत्थं विण्गेओ अपुणबंधगाइत्ति / -योगश० गा० 9. 2. न जानाति तामन्यो नष्टनाशनः-श्लो० 136 / ___ गुरुणो अजोगिजोगो० जोगिगुणहीलणाणढणासणा० -योगश० गा० 37. 3. देवताबहुमानेन-श्लो० 163 / गुरु-देवयाहि जायइ--योगश० गा० 62. 4. शिवज्ञानं य आसाद्य--इत्यादि 263-65 शिवागमश्लोकाः एतीए एस जुत्तो सम्म असुहस्स खवग मोणेओ / -योगश० गा० 85. 5. कायपातादिभावेऽपि शुभालम्बनयोगतः / -श्लो० 171 / तह कायपाइणो ण पुण चित्तमहिकिञ्च बोहिसत्त त्ति। -योगश०-गा० 88. 6. आश्चर्यमावतस्त्वाशु कश्चित् तेनैव जन्मना / -श्लो० 413 / ___ जइ तब्भवेण जायइ जोगसमत्ती। योगश० गा० 92. 7. श्लो० ३९२तः 94 मृत्युज्ञानचिह्नानि / णाणं चागम-देवय-पइहा--सुमिणंधरादऽदिट्टीओ / -योगश० गा० 97. सोपेगैतेषामुपयुल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्री. हरिभद्राचार्यसंसूत्रितमेवाऽऽभाति / अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति / किञ्च यदि श्रीहरिभद्रसूरिपादप्रणोतयोगविन्दु-योगदृष्टिसमुच्चय-अटकप्रकरण-षोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरनित्यत्र न कश्चिसन्देहलेश इति / प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण / ___ अत्रैतत्किल ज्ञापनीयमस्ति यदिदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्रं 423 पयं यावच खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवत्ति एवं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति / अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्-श्रीमद्भिहरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्यप्येताशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति / अतस्तावदिदं निवेद्यते -येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलाल महानुभावेन स्वोपज्ञटोकायुता योगशतकप्रकरणप्रतिरतिचिर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4