Book Title: Yagnavalkya Smruti Author(s): Vasudev Sharma Publisher: Pandurang Javji View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यागादिकर्तरि धार्मिक इति प्रयोगाद्वेदबोधितेष्टसाधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव धर्मत्वमिति केचित् । वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं वा धर्मत्वमिति स्फुटं निरणायि विद्वललामेन गागाभट्टेन ॥ मिताक्षराकारस्तुधर्मशब्दः षड्विधस्मार्तधर्मविषयः । तद्यथा - ' वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो नित्यं मद्यं वर्जयेदित्यादिः । आश्रमधर्मोऽनीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः । निमित्तधर्मो विहिताकरणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः न हिंस्यात्सर्वा भूतानीत्याचाण्डालं साधारणो धर्मः' इति । एवं गुणविशिष्टधर्मप्रतिपादकं शास्त्रमेव धर्मशास्त्रमिति जेगीयते । आस्तां दुरूहविषयमीमांसाविस्तरेण । प्रकृतमनुसरामः । अखिलधर्माणामाचार-व्यवहार- प्रायश्चित्ताख्य कोटित्रय पर्यवसानात्तद्विवेचनमन्तरा दुर्ज्ञेयैव धर्मशास्त्रसिद्धिरिति विचार्य सर्वमानवप्राण्युद्दिधीर्षुः परमकारुणिको याशवल्क्ययोगीन्द्रो निजनामधेयोहङ्कितां याज्ञवल्क्यस्मृतिमचीक्लृपत् । अथच वाचंयमवचोगुम्फस्य सूत्रवदल्पाक्षरत्वेन दुरूहस्य यथावदवबुबोधयिषुरखिलश्रुतिस्मृतिशास्त्राब्धिपारदृश्वा सर्वतन्त्र स्वतन्त्र विज्ञानेश्वरो विपुलार्थवतीमपि प्रमिताक्षरां मिताक्षरानानीं याज्ञवल्क्यस्मृति व्याख्यामरीरचत् । यद्यपि याज्ञवल्क्यस्थितिकालः पुरुषायुषेण मतिमदग्रेसरेणापि निश्वेतुमशक्यस्तथापि श्रीमद्भागवतद्वादशस्कन्धे -- 'ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुयुगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥' अस्यार्थः - एवं चतुर्युगेषु प्राप्ताः द्वापरादौ द्वापरमादिर्यस्य तदयनांशलक्षणस्य कालस्य तस्मिन्द्वापरान्ते वेदविभागसिद्धेः शंतनुकालसमकालं व्यासावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । ' अस्मिन्नप्यन्तरे ब्रह्मन्भगवाँल्लोकभावनः । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ पराशरात्सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥' इति । अतो द्वापरस्यान्तिमकाले कलियुगारम्भात्पूर्वं व्यासावतारः । स च तदानीमेव ऋगादिसंहिताश्चतस्रो विभज्यैकैकस्मै शिष्यायैकैकां संहितां ददौ । तत्र च यजुर्वेदसंहितां वैशंपायनायादात् । तस्यैवान्तेवासी याज्ञवल्क्यो बभूवेति निश्चीयते । । एकदा विदेहत्वेन सुप्रसिद्धस्य जनकस्य सदस्येव ब्रह्मवादचर्चाप्रसङ्गे कहोडा दिनह्मर्षिवरै राज्ञा विदेहेन च याज्ञवल्क्या ब्रह्मविद्योपनिबद्धास्तत्रतत्र नैकशः पूर्वपक्षाः कृतास्तदानीं याज्ञवल्क्यो निजातर्क्यमतिवैभवेन सर्वेषां पूर्वपक्षाणां यथावदुत्तररूपेण सर्वान्समादधे । तच्छ्रुत्वा ससभास्तारो राजा दानमानादिसत्कारैस्तं संपूज्य प्रशस्य सएवानूचानतम इति लिश्चित्य साष्टाङ्गं प्रणनामेति । तच्च श्रु अथ श्रीमद्याज्ञवल्क्यमहर्षेरितिवृत्तं किमप्यत्र निर्दिश्यते । तिशिरोभागबृहदारण्यकोपनिषदि तृतीयाध्याये एवं निर्दिष्टमासीत् - कदाचन विदेहानां सम्राट् जनकराजः श्रुतिशास्त्रोदितवैदिककर्मण्यमिरतो बहुदक्षिणेन यज्ञेनायजत् । तत्र कुरुपाञ्चालवासिनो वैतानिककर्मनिष्णाता राज्ञा निमन्त्रिता ब्राह्मणाः For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 554