________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
क्षेत्रप्रत्युपेक्षणाय गतेन तत्क्षेत्रं गृह[च]दृष्टं, यदि वा योऽन्यः पूर्वं क्षेत्रप्रत्युपेक्षणाय गतस्तेन
तस्य कथितं यथा-अमुकः प्रदेशो निवातोऽमुकः प्रवातोऽमुकः साधारणोऽमुकः व्यवहारसूत्रम्
सुखावहोऽमुको दु:खावहोऽमुकः साऽऽलोकोऽमुको निरालोकः । तत प्रस्थाप्यमान आचार्य अष्टम
विज्ञपयति यथा-मम श्लेष्मा प्रस्पन्दते, अथवा प्रवाते स्वपतोऽजीर्णमुपजायते, यदि वा धर्म उद्देशकः ME नाऽध्यासितुं शक्नोमि, अथवा अमुकममुकं च साधुमहं सदैव प्रतिपृच्छामि, तत एतयोर्मध्ये १३३९ (A)
मम शय्यासंस्तारकभूमिमनुजानीत। यदि वा प्रस्थापितस्तत्र गत्वा तद्गृहमालोक्याऽऽत्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारणप्रकाशनपुरस्सरं संदेशयति यथा अमुकाम् अमुकां मे संस्तारकभूमिमनुजानीतेति ॥ ३३६५ ।। __ तथा चाह
दीवेउं तं कज्जं गुरुं व अन्नं व सो उ अप्पाहे । ते वि य तं भूयत्थं, नाउं असढस्स वियरंति ॥ ३३६६॥
तत् श्लेष्मप्रस्पन्दनादिकार्यं दीपयित्वा प्रकाश्य गुरुमाचार्यमन्यं वा स्पर्द्धकपतिम् | उपाध्यायादिकं अप्पाहेति संदेशयति। तेऽपि च गुरवोऽन्ये वा यत् सन्दिष्टं साक्षात्कथितं वा
सूत्र १
गाथा ३३६२-३३६७
शय्यासंस्तारकानुज्ञापना
१३३९ (A)
For Private and Personal Use Only