Book Title: Vibhaktarthanirnaya Author(s): Giridhar Upadhyay, Jivnath Mishr Publisher: Babu Haridas Gupta View full book textPage 4
________________ शोध्य तदीयविद्याविलासनामके यन्त्रालये प्राचीकशम् । एतद्ग्रन्थकर्तृसमयाद्यवधारणे मामकः श्रमस्तु दरभङ्गाभूपाश्रितमहामहोपाध्यायचित्रधरमित्रैः खयमेव तत्सूचयित्वा परिहत इति भृशमेतदीयोपकारं कलयामि, अस्य च कृतेऽपि श्रमपुरस्सरे शोधने शरीरिमात्रसाधारणभ्रान्त्यादिजनितं दोषं सौजन्यधुरीणैः सारस्पृहयालभिः परिशीलितमरालचातुरीकै विपश्चिद्वरैरुपेक्ष्यमाणमाशासानः, सकलाध्येत्रध्यापकादिसौकर्यमेतद्ग्रन्थात्संभावयन् निबन्धुरपि तादृशबुधैकजनवेदनीयश्रमसाफल्यमधुनैवावधारयन् शोधनप्रकाशनादीनां चापि गुणिहक्पथगामितयैव सार्थकतां मन्यमानो गुणिजनाविभूतिमेवैतद्व्यापारात्प्रीयमाणः परमेश्वरो विद्धात्विति कामयते। . १९५९ वर्षान्ते } . तर्कतीर्थन्यायरत्नोपाधिकः श्रीजीवनाथमिश्नः शुभम्।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 488