Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
उत्तराध्ययनसूत्र भाग-२
॥२० महानिर्ग्रन्थीयमध्ययनम् ॥ पूर्वस्मिन्नध्ययने साधूनां निष्प्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयित्वा, नानुमन्तव्येत्युक्तम् । अथ विंशत्यऽध्ययने सा निष्प्रतिकर्मता महानिर्ग्रन्थस्य हिता, अतोऽनाथत्वपरिभावनया सेत्युच्यते -
सिद्धाणं णमो किच्चा, संजयाणंच भावओ। __ अत्थधम्मगई 'तत्थं, अणुसिद्धिं सुणेह मे ॥१॥
भो शिष्याः ! 'मे' ममानुशिष्टि-शिक्षां यूयं श्रृणुत । किं कृत्वा ? सिद्धान् पञ्चदशप्रकारान्नमस्कृत्य, च पुनर्भावतो - भक्तितः संयतान्-साधूनाचार्योपाध्यायादिसर्वसाधूनमस्कृत्य । कीदृशीं मेऽनुशिष्टिं ? अर्थधर्मगतिम्, अर्थ्यते - प्रार्थ्यते धर्मात्मभिः पुरुषैरित्यर्थः, स चासौ धर्मश्चार्थधर्मस्तस्य गतिर्ज्ञानं यस्यां साऽर्थधर्मगतिस्ताम् । द्रव्यवद्यो दुष्प्राप्यो (पो) धर्मस्तस्य धर्मस्य प्राप्तिकारिकाम् । यया शिक्षया मम दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः । पुनः कीदृशीं मेऽनुशिष्टिं ? तथ्यां-सत्याम्, अथवा तत्त्वं तत्वरूपां वा ॥१॥
पभूयरयणो राया, सेणिओ मगहाहिवो ।
विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेइए ॥ २ ॥ श्रेणिको नाम राजा, एकदा मण्डितकुक्षिनाम्नि चैत्ये-उद्याने विहारयात्रयोद्यानक्रीडया निर्यातः, नगरात्क्रीडा) मण्डितकुक्षिवने गत इत्यर्थः । कीदृशः श्रेणिको राजा? मगधाधिपो, मगधानां देशानामधिपो मगधाधिपः । पुनः कीदृशः ? प्रभूतरत्नः प्रचुरप्रधानगजाश्वमणिप्रमुखपदार्थधारी ॥२॥ अथ मण्डितकुक्षिनामोद्यानं कीदृशं वर्तते ? तदाह -
नाणादुमलयाइन्नं, नाणापक्खिनिसेवियं ।
नाणाकुसुमसंछन्नं, उज्जाणं नंदणोवमं ॥ ३ ॥ __ कीदृशं तद्वनम् ? नानादुमलताकीर्ण-विविधवृक्षवल्लीभिर्व्याप्तम् । पुनः कीदृशं ? नानापक्षिनिषेवितम्, विविधविहङ्गैरतिशयेनाश्रितम् । पुनः कीदृशं ? नानाकुसुमसंछन्नंबहुवर्णपुष्पैर्व्याप्तम् ।पुनः कीदृशं तदुद्यानं ? नागरिकजनानां क्रीडास्थानम् । नगरसमीपस्थं वनमुद्यानमुच्यते । पुनः कीदृशं ? नन्दनोपमम्, नन्दनं - देववनं तदुपमम् ॥३॥
तत्थ सो पासई साहुं, संजयं सुसमाहियं ।
निसण्णं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥४॥ १ तच्च-अन्यसंस्करणे ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 326