Book Title: Tarkasangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 49
________________ फक्किकासमन्वित - दीपिकाव्याख्यासमेतः • ७१ [तर्कलक्षणम् ] व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा 'यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्याद्' इति । तर्कलक्षणमाह-व्याप्येति । यद्यपि तर्कों विपर्ययेऽन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम् । तर्क लक्षयति व्याप्येति । तर्कस्य व्यभिचारशङ्कानिवारकत्वद्वाराऽनुमानप्रमाणे उपयोगित्वमस्ति तेन विपर्ययादयं पृथगुक्तः । [स्मृतिविभागः ] स्मृतिरपि द्विविधा । यथार्था अयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था । स्मृतिं विभजते - स्मृतिरिति । [समाप्तं बुद्धिनिरूपणम् ] [सुखनिरूपणम् ] सर्वेषामनुकूलतया वेदनीयं सुखम् । सुखं लक्षयति- सर्वेषामिति । 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम् । सर्वेषामिति । सुखत्वादिजातिमत्त्वं सुखादित्वम् । [दुःखनिरूपणम् ] प्रतिकूलतया वेदनीयं दुःखम् । इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । ७२ • तर्कसंग्रहः [धर्माधर्मनिरूपणम् ] विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽधर्मः । [बुद्ध्यादीनामात्ममात्रविशेषगुणकथनम् ] बुद्ध्यादयो अष्टौ आत्ममात्रविशेषगुणाः बुद्धिइच्छाप्रयत्नाः नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य । [ संस्कारविभागः ] संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापक श्चेति । संस्कारं विभजते संस्कार इति । संस्कारत्वजातिमान् संस्कारः । [वेगनिरूपणम् ] वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । वेगस्याश्रयमाह-वेग इति । वेगत्वजातिमान् वेगः । [भावनानिरूपणम् ] अनुभवजन्या स्मृतिहेतुर्भावना, आत्ममात्रवृत्तिः । भावनां लक्षयति-अनुभवेति । अनुभवध्वंसे अतिव्याप्तिवारणाय स्मृतीति । आत्मादौ अतिव्याप्तिवारणाय अनुभवेति । स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम् । स्मृतेरिति - अनुभवस्य संस्कारजनकत्वं प्राचां मतेऽपि परं नव्यानां मते स्मृतेरपि संस्कारजनकत्वम् ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55