Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
१३२ ] तन्दुलौचारिकप्रकोर्णकम् दया:--दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण०' तृणछन्नकूप इव--तृणसमूहाच्छादितान्धुवत् अप्रकाशहदयाः, शतकश्रावकमारवतीवत् २८ 'माया' मायाकारक इव--परवश्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्न्यः, तत्रोपचारशतानि--औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउ' त्ति-कर्व्यः २६ 'आयरि०' अत्रापि विवशब्द इवाथै, आचार्यसविधमित्र--अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरनेकपुरुपैर्वा ग्राह्यः--ग्रहीतुं शक्यः यद्वाऽऽत्वात् 'अगिझु'त्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भाव:--आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा ३० । ___'फुफु' फुफुका-करीषाग्निः कोउ इतिजनोक्तिस्तद्वत अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात , उक्तश्च--
"पुत्रश्च मूखों विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पश्च दहन्ति देहम् । १॥" ३१ ॥ 'नग्ग' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्ग सेनसुवर्णकारजीवस्त्रीवत् , यद्वा नग्नकमार्गवत्--जिनकल्पिपन्थवत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्--भूतावेष्टिताचारवत् नैकत्रचित्ताः ३२

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166