Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 2
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 566
________________ २५० साधुस्वकस्तुररवस्तुतकीर्तिजालं, भक्त्या नरेन्द्रनतपादकजं शिवाय । संसज्जयन्तमथ दक्षसुशीलमाशु, कल्याणकेलिमथ केवलकेलिधाम ॥ १५ ॥ www नित्यं जिनं परधिया किल लोकमानं, सचन्दनं जनमनोभवतापहारम् । www सम्मङ्गलं विबुधगीतगुणावलीं च, चक्रं सदाचरणकान्तहितं मतीशम् ॥ १६॥ www wwwwwww साधुकञ्चनवत्कान्तं सदातपोदयाञ्चितम् । 1 विनोदजं सदामोदं, वितन्वानं महाशयम् ॥ १७ ॥ [ अनुष्टुप् ] wwwwwww [ उपजातिः ] चञ्चन्महानन्दविवर्धमानं दिव्यं विकाशं च दधानमाशु । wwwwww www जितेन्द्रपाठं सुमनोहरं चा-मोदं ददानं मलयप्रकाशम् ॥ १८ ॥ [ पञ्चभिः कुलकम् ] www.www wwwwwww wwww www [ वसन्ततिलकानि ] पुण्ये पुरे निवसता चतुरोऽत्र मासान् वर्षासु पुण्य चयमर्जयतोपदेशैः । लावण्यसूरिविदुषैष कृततरङ्गो न्यायार्थसिन्धुविवृतिं विदधत् प्रशस्ताम् ॥ १९ ॥ श्रीहेमहंसगणिनीतिरिह कचित् तु, प्रत्युच्यते नवपथप्रकटीक्रियार्थम् । wwwwwww नात्मप्रकर्षगतये विमृशन्तु तत्त्वं, सन्तस्तथा प्रकटयन्तु मतं स्वकीयम् ॥ २० ॥ अत्र प्रसङ्गवशतः किल पाणिनीयो, मार्गो विवृत्य कथितः क्वचिदस्ति सम्यक् । स स्यात् क्वचित् स्वमतपोषणकृत् कचिच्च, नूलार्थबोधनकृते पठतां शिशूनाम् ॥ २१ ॥ मध्ये मया रुगुपधातवशेन साक्षान्नालोकि मुद्रणपुरोभवरूपमस्य । तेनात्र सम्भवति यत् स्खलितं समीक्ष्य, तत् सज्जनाः शुभधिया परिशोधयन्तु ॥ २२ ॥ [ पुष्पिताग्रा ] गर्गन-विधु-ख-नेन्न-सम्मितेऽब्दे, नरपतिविक्रमराज्यतो गतेऽद्य । समवसितिमगादयं तरङ्गो, भवतु चिराय जनोपकारकारी ॥ २३ ॥ www Gas

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580