Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४३१॥
अथ प्रशस्तिः
(शार्दूलविक्रीडीतम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ॥१॥
(उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव जम्बूप्रभु-श्रीप्रभवप्रमुख्या: । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ॥२॥
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ॥३॥ श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ॥४॥
॥४३१ ॥

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480