________________
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥ ६ ॥
णतया कृतशब्दस्य परनिपातः, 'पज्जुवासेमाणे' इति पर्युपासीनः - सेवमानः, अनेन विशेषणकदम्बकेन श्रवणविधिरुप- ४ २० प्राभृतादर्शितः, उक्तं च- "निद्दा विगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्वं उवउत्तेहिं सुणेयवं ॥ १ ॥” इति 'एवं वदासि' त्ति एवं वक्ष्यमाणेन प्रकारेण सूर्यादिवक्तव्यताविषयं प्रश्नमवादीत् उक्तवान् कथमुक्तवानिति शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो विंशतौ प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन् गाथापश्चकमाह
र्थाधिकाराः
कह मंडलाइ वच्च १ तिरिच्छा किं च गच्छ २ । ओभासह केवइयं ३ सेयाइ किं ते संठिई ४ ॥ १ ॥ कहिं पहिया लेसा ५, कहिं ते ओयसंठिई ६ । के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥ २ ॥ कह कट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छरेणादी ११, कइ संवच्छराइ य १२ ॥ ३ ॥ कहं चंदमसो वुट्टी १३, कया ते दोसिणा बहू १४ । के सिग्धगई कुत्ते १५, कह दोसिणलक्खणं ॥ ४ ॥ चयणोववाय १७ उच्चते १८, सूरिया कइ आहिया १९ । अणुभावे के व संवृत्ते २०, एवमेयाई वीसई ॥ ५ ॥ ( सूत्रं ३ )
प्रथमे प्राभृते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो व्रजतीत्येतन्निरूपणीयं, किमुक्तं भवति ? – एवं गौतमेन प्रश्ने कृते तदनन्तरं सर्वं तद्विषयं निर्वचनं प्रथमे प्राभृते वक्तव्यमिति । एवं सर्वत्रापि भावनीयं । द्वितीये प्राभृते 'किं' कथं वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्व्रजतीति २, तृतीये चन्द्रः सूर्यो वा कियत्क्षेत्रमवभासयति- प्रकाशयतीति ३, चतुर्थे श्वेततायाः - प्रकाशस्य 'किं' कथं 'ते' तव मते संस्थितिः - व्यवस्थेति ४, पञ्चमे १ परिवर्जितनिद्रा विकथैर्गुप्तैः कृतप्राञ्जलिभिः । भक्तिबहुमानपूर्वमुपयुक्तैः श्रोतव्यं ॥ १ ॥
Jain Education International
For Personal & Private Use Only
॥ ६ ॥
www.jainelibrary.org