Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 193
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् यस्त्विदं शृणुयान्नित्यं, पठेद् वा प्रयतो नरः। प्रतापी पूर्णमायुश्च, करस्थास्तस्य सम्पदः // 1 // नृपाग्नितस्करभयं, व्याधिभ्यो न भयं भवेत् / विजयी च भवेनित्यं, स श्रेयः समवाप्नुयात् / / 2 / / कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः। भवेद् वर्षशतायुश्च, सर्वबाधाविवर्जितः // 3 // नाम्ना सहस्रमिदमंशुमत: पठेद् यः शुचिनियमवान् सुसमाधियुक्तः / दूरेण तं परिहरन्ति सदैव रोगाः, भीताः सुपर्णमिव सर्वमहोरगेन्द्राः ||4|| // इति श्रीसूर्यनामस्तोत्रं सम्पूर्णम् // अमुं श्रीसूर्यसहस्रनामस्तोत्रं प्रत्यहं प्रणमत्पृथ्वीपति-कोटीरकोटिसङ्घट्टितप दकमल त्रिखण्डाधिपति- दिल्लीपतिपातिसाहि श्रीअकबरसाहि जल्लालदीन: प्रत्यहं शृणोति / सोऽपि प्रतापवान् भवतु / / 185

Loading...

Page Navigation
1 ... 191 192 193 194