Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः १]
सूतसंहिता |
दृष्ट्वा यथा संपूज्य प्रसन्नेन्द्रियमानसाः । पप्रच्छुः संहितां पुण्यां सूतं पौराणिकं मुदा ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ विद्याग्रहणाधिकार संपन्ना मुनय उपदेशोचितगुरुलाभनिबन्धनेपा प्रीत्या तं परिपूज्य स्वजिज्ञासामाविष्कृतवन्त इत्याह- पप्रच्छुरिति । उक्तं हि "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति ॥ ४ ॥
एवं पृष्टो मुनिश्रेष्ठैः सूतः सर्वार्थदायिनम् । महादेवं महात्मानं ध्यात्वा व्यासं च भक्तितः ॥ ५॥
एवं मुनिभिः पृष्टो मुनीनां पुराणसंहिताश्रवणे मुख्याधिकार सिद्धये परशिवप्रणिधानपुरः सैरां शिष्यावलोकनरूपां चाक्षुषीं दीक्षामकार्षीदित्याह --एवंपृष्ट इत्यादि । उक्ता द्यागमेषु चाक्षुषी दीक्षा
_________________
" चक्षुरुन्मील्य यत्तत्त्वं ध्यात्वा शिष्यं समीक्षते । पशुबन्धविमोक्षाय दीक्षेयं चाक्षुषी मता" इति ॥ "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता हाथीः प्रकाशन्ते महात्मनः " ॥ इति श्वेताश्वतरश्रुतेः परशिवप्रणिधानवद्गुरुप्रणिधानमपि विधेयमित्याहव्यासं चेति ॥ ५ ॥
समाहितमना भूत्वा विलोक्य मुनिसत्तमान् । वकुमारभते सूतः संहितां श्रुतिसंमिताम् ॥ ६ ॥ संहितां श्रुतिसंमिताम् | सकल पर्थसंग्रहात्मिकामित्यर्थः ॥ ६ ॥ सूत उवाच --
ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं प्रोक्तं चतुर्थ शैवमुच्यते ॥ ७ ॥
विवक्षिताया अस्याः संहिताया व्यासमुखादागतत्वेन प्रामाण्यं स्थापयितुं नानामुनि गीत सकलोपपुराण मूलभूतानामष्टादशानां पुराणानां वेदशाखाविभागस्प च प्रणयनेन व्यासस्यै सर्वज्ञत्वमत एव तस्य माहेश्वरावतारत्वं च प्रतिपादयितुमष्टादशपुराणान्यनुक्रामति -- ब्राह्ममित्यादि । ब्रह्मसंबन्धि ब्राह्मम् | 'तस्पे
१ ङ. 'नतया । २ घ. 'सरं शि। ३ घ. 'त्वा तत्त्वं स ४ क. संमताम् । ५ ङ. प्रणीत । ६ क. ख. घ. 'स्य सार्व। ७ ङ. स्य महें।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 366