Book Title: Shatrunjaya Chaitya Paripatika Stotram
Author(s): Arvindsuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ December - 2003 ११७ लक्षत्रयीविरहिता द्रविणस्य कोटी-स्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।५॥ कर्पूरपूरधवला किल यत्र दृष्टा, मूत्तिः प्रभोजिनगृहप्रथमप्रवेशे । सम्यग्दृशाममृतपारणमातनोति, श्रीमानसौ विजयतां गिरिपुण्डरीक: ॥६|| श्रीमूलनायकजिनः प्रणतः स्तुतो वा, संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसाऽखिलकर्मजालं, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥ अष्टोत्तरे च किल वर्षशते व्यतीते, श्रीविक्रमादथ बहुदविणव्ययेन । यत्र न्यवीविशत जावडिरादिदेवं, श्रीमानसौ विजयतां गिरिपुंडरीक: ।।८।। मम्माणिनाममणिशैलतटीसमुत्थ-ज्योतीरसाख्यवररत्नमयश्च यत्र । दृष्टोऽथ पूर्व इव भाति युगादिदेवः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥९।। यत्राचिते भगवतीह करौ कृतार्थों, वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१०॥ यत्रादिमो भगवतः किल दक्षिणाङ्गे, वामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदि, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥११॥ इक्ष्वाकुवृष्णिकुलजा मुनिकोटिकोट्यः, संख्यातिगाः शिवसुखश्रियमत्र भेजुः । इत्याह यत्र तिलकं किल कोटिकोटेः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥ पञ्चापि पाण्डुतनया सहिता जनन्या, कुन्त्याख्यया शिवमगुः शिखरे यदीये । तन्मूर्तयः षडिति शासति यत्र लेप्याः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१३॥ यत्र प्रियालुरिति चैत्यतरुश्चिरत्नः, श्रीसंघपुण्यमहिमाद्भुतदुग्धवर्षी । शस्तं समस्त्यनुपमाख्यसरोवरं च, श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।१४|| श्रीपादुकां भगवतः प्रणिपत्य यत्र, भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगा शिवसौख्यलक्ष्याः, श्रीमानसौ विजयतां गिरिपुण्डरीकः||१५॥ हिंसाजुषोऽपि पशवोऽपि मयूरमुख्याः, स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आसादयन्ति तरसा सुरसम्पदोऽपि, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3