Page #1
--------------------------------------------------------------------------
________________
अज्ञातकर्तृकं श्रीशत्रुञ्जयचैत्यपरिपाटिका-स्तोत्रम् ॥
. सं.आ. विजयअरविन्दसूरिः
आ स्तोत्रना कर्ताए पोतानुं नाम प्रगट कर्यु नथी पण आंतरिक विगतोना आधारे समजी शकाय छे के आ बधां मन्दिरो वस्तुपालनी हयातीमां के ते पछी तरतना समयमां बनाव्यां हशे, पण आजे ते मन्दिरो कया स्थाने छे ते नक्की कर, जोईओ.
आ मन्दिरो तेरमी सदीना अन्त भागमां अने चौदमी सदीना पूर्वार्धमां बन्यां होवां जोईओ. पण १३६८मां अलावदीनखीलजीना वखतमां तेना लश्करे नष्ट कर्यां हशे. ते वखते जावडिना भरावेला आदीश्वर भगवानने पण खण्डित कर्या हशे, एटले समराशाहने नवा भराववानो वखत आव्यो हतो ते ऐतिहासिक सिद्ध थयेली हकीकत छे. आ स्तोत्र प्रगट थयेनु अमारा जोवामां आव्युं नथी एटले आ भाववाही स्तोत्र प्रगट करवा मोकल्युं छे.
श्रीशत्रुञ्जयचैत्य परिपाटिका
(वसन्ततिलका) ननेन्द्रमण्डलमणीमयमौलिमाला, -मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजम्, शत्रुञ्जयं गिरिपति प्रयतः स्तवीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति, पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो यः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२॥ श्रीपादलिप्तपुरपावनपार्श्वनाथ-श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥३॥ शृङ्गं च यस्य भविका अधिरूढवन्तः, प्रासादपंक्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो लभन्ते, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥४॥
Page #2
--------------------------------------------------------------------------
________________
December - 2003
११७
लक्षत्रयीविरहिता द्रविणस्य कोटी-स्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन् युगादिजिनमन्दिरमुद्दधार, श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।५॥ कर्पूरपूरधवला किल यत्र दृष्टा, मूत्तिः प्रभोजिनगृहप्रथमप्रवेशे । सम्यग्दृशाममृतपारणमातनोति, श्रीमानसौ विजयतां गिरिपुण्डरीक: ॥६|| श्रीमूलनायकजिनः प्रणतः स्तुतो वा, संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसाऽखिलकर्मजालं, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥ अष्टोत्तरे च किल वर्षशते व्यतीते, श्रीविक्रमादथ बहुदविणव्ययेन । यत्र न्यवीविशत जावडिरादिदेवं, श्रीमानसौ विजयतां गिरिपुंडरीक: ।।८।। मम्माणिनाममणिशैलतटीसमुत्थ-ज्योतीरसाख्यवररत्नमयश्च यत्र । दृष्टोऽथ पूर्व इव भाति युगादिदेवः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥९।। यत्राचिते भगवतीह करौ कृतार्थों, वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१०॥ यत्रादिमो भगवतः किल दक्षिणाङ्गे, वामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदि, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥११॥ इक्ष्वाकुवृष्णिकुलजा मुनिकोटिकोट्यः, संख्यातिगाः शिवसुखश्रियमत्र भेजुः । इत्याह यत्र तिलकं किल कोटिकोटेः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥ पञ्चापि पाण्डुतनया सहिता जनन्या, कुन्त्याख्यया शिवमगुः शिखरे यदीये । तन्मूर्तयः षडिति शासति यत्र लेप्याः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१३॥ यत्र प्रियालुरिति चैत्यतरुश्चिरत्नः, श्रीसंघपुण्यमहिमाद्भुतदुग्धवर्षी । शस्तं समस्त्यनुपमाख्यसरोवरं च, श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।१४|| श्रीपादुकां भगवतः प्रणिपत्य यत्र, भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगा शिवसौख्यलक्ष्याः, श्रीमानसौ विजयतां गिरिपुण्डरीकः||१५॥ हिंसाजुषोऽपि पशवोऽपि मयूरमुख्याः, स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आसादयन्ति तरसा सुरसम्पदोऽपि, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१६॥
Page #3
--------------------------------------------------------------------------
________________ 118 अनुसंधान-२६ द्वाविंशतिजिनवरा अजितादयस्ते, स्वस्वप्रभाञ्चितसपादुकलेप्यबिम्बैः / अत्रैयरुः श्रुतिमिति द्रढयन्ति यत्र, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 17 // वामे च पार्श्व इह सत्यपुरावतारः, स्याद् दक्षिणे शकुनिकाङ्कितसद्विहारः / अष्टापदो भगवतः किल यत्र पृष्ठे, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 18 // नन्दीश्वरस्य गिरनारगिरीश्वरस्य, श्रीस्तम्भनस्य भविका अवतारतीर्थम् / संवीक्ष्य यत्र परमां मुदमुट्ठहन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 19 // स्वर्गाधिरोहभवने जगतां कृपालु-यंत्र प्रभुर्विनमिना नमिना च सेव्यः / तत्खड्गबिम्बनकृतापररूपयुग्मः, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 20 // श्रीषोडशो जिनपतिः प्रथमो जिनेन्द्रः, श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः / शृङ्ग द्वितीयमिह यत्र पवित्रयन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 21 // त्रैलोक्यलोचनचकोरकचन्द्रिकाभा, सुस्वामिनी शिवगता मरुदेविनाम्नी / यत्र प्रयच्छति निजं सुखसंविभागं, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 22 // यत्रैष भव्यजनकल्पितकल्पवृक्षः श्रीसङ्घरक्षणमहर्निशबद्धकक्षः / अष्टासु दिक्षु वितनोति कपर्दियक्षः, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 23 // इत्येवंविधपुण्डरीकशिखरिस्तोत्रं पवित्रं मुदा / श्रीमन्नाभिननरेन्द्रनन्दनजिनध्यानैकतानव्रतः // श्रद्धाबन्धुरमानस: पठति यः सन्ध्याद्वये नित्यशः / स्थानस्थोऽपि निरन्तरं स लभते तत्तीर्थयात्राफलम् // 24 // // इति श्रीशत्रुञ्जयचैत्यपरिपाटिका समाप्ता / / C/o. यश मोटर्स 1387/1, मुखीवास, मीठाखली, अमदावाद-३८०००६