________________ 118 अनुसंधान-२६ द्वाविंशतिजिनवरा अजितादयस्ते, स्वस्वप्रभाञ्चितसपादुकलेप्यबिम्बैः / अत्रैयरुः श्रुतिमिति द्रढयन्ति यत्र, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 17 // वामे च पार्श्व इह सत्यपुरावतारः, स्याद् दक्षिणे शकुनिकाङ्कितसद्विहारः / अष्टापदो भगवतः किल यत्र पृष्ठे, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 18 // नन्दीश्वरस्य गिरनारगिरीश्वरस्य, श्रीस्तम्भनस्य भविका अवतारतीर्थम् / संवीक्ष्य यत्र परमां मुदमुट्ठहन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 19 // स्वर्गाधिरोहभवने जगतां कृपालु-यंत्र प्रभुर्विनमिना नमिना च सेव्यः / तत्खड्गबिम्बनकृतापररूपयुग्मः, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 20 // श्रीषोडशो जिनपतिः प्रथमो जिनेन्द्रः, श्रेयांसनेमिजिनवीरजिनेन्द्रमुख्याः / शृङ्ग द्वितीयमिह यत्र पवित्रयन्ति, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 21 // त्रैलोक्यलोचनचकोरकचन्द्रिकाभा, सुस्वामिनी शिवगता मरुदेविनाम्नी / यत्र प्रयच्छति निजं सुखसंविभागं, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 22 // यत्रैष भव्यजनकल्पितकल्पवृक्षः श्रीसङ्घरक्षणमहर्निशबद्धकक्षः / अष्टासु दिक्षु वितनोति कपर्दियक्षः, श्रीमानसौ विजयतां गिरिपुण्डरीकः // 23 // इत्येवंविधपुण्डरीकशिखरिस्तोत्रं पवित्रं मुदा / श्रीमन्नाभिननरेन्द्रनन्दनजिनध्यानैकतानव्रतः // श्रद्धाबन्धुरमानस: पठति यः सन्ध्याद्वये नित्यशः / स्थानस्थोऽपि निरन्तरं स लभते तत्तीर्थयात्राफलम् // 24 // // इति श्रीशत्रुञ्जयचैत्यपरिपाटिका समाप्ता / / C/o. यश मोटर्स 1387/1, मुखीवास, मीठाखली, अमदावाद-३८०००६ Jain Education International For Private & Personal Use Only www.jainelibrary.org