Book Title: Sevalekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ अनुसन्धान ३३ तच्छासनोड्डामरडिण्डिमस्यो-दोषेण दोषेण विवजितेन । जातोऽत्र जन्तुव्रजजातिबाधा-विधानदुर्ध्यानविधेनिषेधः ॥१३७।। नेत्रद्वयेनेव मुखं मृगाक्ष्याः पाञ्चालराजेव मुखद्वयेन । राजद्वयेनेव गिरिः सुराणां, तथा स कल्पद्वितयेन रेजे ॥१३८|| सहस्रपादो दिवसश्रियश्च ज्योत्स्नाभरस्येव च पूर्णिमिन्दोः । अष्टाहिकायाः खलु पर्वराजः(ज)-साधारणो भूषणभूष्यभावः ॥१३९॥ अष्टाभिरुद्यन्महिषीभिरिन्द्रो वृषध्वजो मूर्तिभिरष्टभिर्वा । यथाऽष्टभिः सिद्धिभिरङ्ग ! योगी, तथैष रेजेऽष्टदिनेन्दिराभिः ॥१४०।। यथा गिरीशः सरिता सुराणां स्वर्णाचलञ्चूलिकया यथैव । बभौ तथा वार्षिकपर्वराजः सांवत्सरिक्या किल सच्चतुर्थ्या ॥१४१।। कल्पैरनल्पैः कलितो मुनीनां कल्पः स्फुरन् पर्युषणाभिधानः । राज्ञः पुरोधा इव निर्विरोधः पुरस्कृतस्तत्र जनस्य शान्त्यै ॥१४२॥ सांवत्सरिक्यां गजवाजिपूर्वं चैत्र(त्य?)प्रपाटीकपटेन मन्ये । स पर्वराजोऽखिलदिग्जयाय समं प्रतस्थे ध्वजिनीप्र(व)जेन ॥१४३॥ गच्छत्समागच्छदतुच्छरूपा:(पो)ऽन्यगच्छसङ्घो ननु तावदेव । चतुःपथान्तर्लभतेऽवकाश-मुपस्थितो यावदयं न सङ्घः ॥१४४॥ अनेकवादित्रविचित्रनृत्यैः प्रस्तूयमानो गुरुसङ्घचक्री । चैत्यप्रपाटीकरणाय जज्ञे शूरो हि सा- [साक्षात्? किमु गाङ्गपूरः ॥१४५।। चतुष्पथेति प्रथिते तदानीं संकी -इति (संकीर्णता?) पौषधिकैस्तथाऽभूत् । आस्थानयोगो(गा)द्गगने लि(ऽनि?)लोऽपि, कुर्वन्निवालक्ष्यत पर्वतुल्याम् (?) ॥१४६॥ परस्परक्षान्तिरथ्या(पा)यशान्ति-स्तथा प्रतिक्रान्तिरपि त्रयीयम् । शक्तित्रयीवाऽऽब्दिकपर्वराज: समर्थमर्थं रचयांचकार ॥१४७॥ ततो जनामोदकमोदकौघैः सार्मिकाणां भवति स्म भक्तिः । शिवाध्वगानां भवतादमीषां पाथेयमादेयतयेति मत्वा ॥१४८॥ प्रातर्लसत्पारणकं दिदेश सांवत्सरिक्या धनजी: स्वगेहे । वैदेशिकानां नृपमान्यकल्लू- श्राद्धाग्रणीः कारयति स्म भक्तिम् ॥१४९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19